| YouTube Channel

गण्डकी (gaNDakI)

 
Apte
English
गण्डकी [gaṇḍakī], 1
N.
of a river flowing into the Ganges.
A female rhinoceros.
Comp.
-पुत्रः, -शिला the Śāligrāma stone.
Monier Williams Cologne
English
गण्डकी
f.
N.
of a river in the northern part of India,
MBh.
Hariv.
&c.
Apte Hindi
Hindi
गण्डकी
स्त्री*
- गण्डक - ङीष्
एक नदी का नाम जो गंगा में मिल जाती है
गण्डकी
स्त्री*
- -
मादा गैंडा
Shabdartha Kaustubha
Kannada
गण्डकी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಖಡ್ಗಮೃಗ
निष्पत्तिः - > स्त्रियां जाति० "ङीष्" (४-१-६३)
गण्डकी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹೆಣ್ಣು ಖಡ್ಗಮೃಗ
गण्डकी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನೇಪಾಲ ಮತ್ತು ಉತ್ತರಭಾರತದಲ್ಲಿ ಪ್ರವಹಿಸುವ ಒಂದು ಪ್ರಸಿದ್ಧ ನದಿ
गण्डकी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗಂಡಕೀನದಿಯ ಅಧಿಷ್ಠಾತೃ ದೇವತೆ
Wordnet
Sanskrit
Synonyms:
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
noun
सा देवी यया नैके दैत्याः हताः तथा या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
Mahabharata
English
Gaṇḍakī, a river. § 221b (Gaṅgā): I, 170, 6455.--§ 276 (Jarāsandhavadhap.): II, 20, 794 (crossed by Kṛshṇa, etc., on their way from Indraprastha to Girivraja).--§ 370 (Tīrthayātrāp.): III, 84, 8091 (sarvatīrthajalodbhavaṃ, a tīrtha).--§ 574 (Jambūkh.): VI, 9, 325 (among the rivers of Bhāratavarsha).--§ 775 (Ānuśāsanik.): XIII, 166, 7647.
पुराणम्
English
गण्डकी / GAṆḌAKĪ(gaṇḍaka). A river in Orthern india which falls into the gaṅgā.2) Origin. There arose an argument between the devas and the asuras about the amṛtam (nectar) got from the churning of Kṣīrābdhi (the milk ocean) and Mahāviṣṇu appeared in the form of mohinī and enticed the asuras away from the subject and gave the nectar to the devas. Attracted by the great beauty of mohinī, śiva made love to her, and the sweet produced at the time of their embrace flowed as river Gaṇḍaki through the earth. (skandha purāṇa, Āsura Khaṇḍa).3) It became a holy river. While the worms on the banks of gaṇḍakī were once collecting soil they fell into the river, and all at once they attained salvation, the reason being that the water in the river had been formed by the sweet of viṣṇu and śiva. And, from that day onwards people began worshipping gaṇḍakī as a holy river. (skandha purāṇa, Āsura Khaṇḍa).4) Other information. (i) He who drinks the water of the river is freed from sins. (Ādi Parva, Chapter 169, Verse 20).(ii) The river is also known as Nārāyaṇī, Śālagrāmī, Hiraṇvatī and Hiraṇyavatī. (bhīṣma parva, Chapter 9, Verse 25).(iii) śrī kṛṣṇa arjuna and Bhīmasena once on their way from indraprastha to girivraja crossed this river. (Sabhā Parva, Chapter 20, Verse 27).(iv) The water in gaṇḍakī is a mixture of the waters of all holy rivers. Therefore, a bath in gaṇḍakī is of equal value as an aśvamedha yajña and he who bathes in it will attain Sūryaloka. (Vana Parva, Chapter 84, Verse 113).(v) gaṇḍakī is one of the rivers which were responsible for the origin of agni (fire). (Vana Parva, Chapter 84, Verse 113).
शब्दकल्पद्रुमः
Sanskrit
गण्डकी,
स्त्री,
(गण्डक + स्त्रियां जातौ ङीष् ।) स्वनाम-ख्याता नदी इति मेदिनी ८२
यथा, स्मृतिः ।“गण्डक्याश्चैकदेशे शालग्रामस्थलं स्मृतम् ।पाषाणं तद्भवं यत्तत् शालग्राममिति स्मृतम्
”तत्र शालग्रामोत्पत्तिकारणं यथा, --“गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधेः ।शीर्णपर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम्
दिव्यं वर्षशतं तेपे विष्णुं चिन्तयती तदा ।ततः साक्षाज्जगन्नाथो हरिर्भक्तजनप्रियः
उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः ।गण्डकि ! त्वां प्रसन्नोऽस्मि तपसा विस्मितोऽनघे !
अनवच्छिन्नया भक्त्या वरं वरय मुव्रते ! ।किं देयं तद्वदस्वाशु प्रीतोऽस्मि वरवर्णिनि !
गण्डक्यपि पुरो दृष्ट्वा शङ्खचक्रगदाधरम् ।दण्डवत् प्रणता भूत्वा ततः स्तोतुं प्रचक्रमे
अहो देव ! मया दृष्टो दुर्द्दर्शो योगिनामपि ।त्वया सर्व्वमिदं सृष्टं जगत् स्थावरजङ्गमम्
तदनु त्वं प्रविष्टोऽसि पुरुषस्तेन त्तोच्यते ।त्वल्लीलोन्मीलिते विश्वे कः स्वतन्त्रोऽस्ति वै पुमान्
अनाद्यन्तमपर्य्यन्तं यद्ब्रह्म श्रुतिबोधितम् ।तदेव त्वं महाविष्णो ! यस्त्वां वेद वेदवित्
तवैवाद्या जगन्माता या शक्तिः परमा स्मृता ।तां योगमायां प्रकृतिप्रधानमिति वक्ष्यते
निर्गुणः पुरुषोऽव्यक्तश्चित्स्वरूपी निरञ्जनः ।आनन्दरूपः शुद्धात्मा ह्यकर्त्ता निर्विकारकः
स्वां योगमायामाविश्य कर्त्तृत्वं प्राप्तवानसि ।प्रकृत्या सृज्यमानेऽस्मिन् द्रष्टा साक्षी निगद्यते
प्रकृतेस्त्रिगुणैरस्मिन् सृज्यमानेऽपि नान्यथा ।सान्निध्यमात्रतो देव ! त्वयि स्पुरति कारणे
स्फटिके हि यथा स्वच्छे जवाकुसुमरागतः ।प्रकाशते त्वत्प्रकाशात् ज्योतीरूप ! नतास्मि ते
ब्रह्मादयोऽपि कवयो विन्दन्ति ययार्थतः ।तत् कथं वेद्म्यहं मूढा तव रूपं निरञ्जनम्
मूढस्य जगतो मध्ये स्थिता किञ्चिदजानती ।त्वया धृष्टा कृता चास्मि योग्यायोग्यमविन्दती
तेन लोके महत्त्वञ्च त्वत्प्रसादेन चेच्छती ।यदयाचे तत्तपोदार ! तन्मे दातुं त्वमहसि
दयालुरसि दीनेषु नेति मां वद प्रभो ! ।ततः प्रोवाच भगवान् देवि ! यद्यत्त्वमिच्छसि
तद्याचय वरारोहे ! अदेयमपि सर्वथा ।यद्दुर्लभं मनुष्याणां शीघ्रं याचय मां प्रति
मद्दर्शनमनुप्राप्य कोवाऽपूर्णमनोरथः ।ततो हिमांशो ! सा देवी गण्डकी लोकतारिणी
प्राञ्जलिः प्रणता भूत्वा मधुरं वाक्यमब्रवीत् ।यदि देव ! प्रसन्नोऽसि देयो मे वाञ्छितो वरः
मम गर्भगतो भूत्वा विष्णो ! मत्पुत्त्रतां व्रज ।ततः प्रसन्नो भगवान् चिन्तयामास गोपते !
किं याचितं निम्नगया नित्यं मत्सङ्गलुब्धया ।दास्यामि याचितं येन लोकानां भवमोक्षणम्
इत्येवं कृपया देवो निश्चित्य मनसा स्वयम् ।गण्डकीमवदत् प्रीतः शृणु देवि ! वचो मम
शालग्रामशिलारूपी तव गर्भगतः सदा ।तिष्ठामि तव पुत्त्रत्वे भक्तानुग्रहकारणात्
मत्सान्निध्यात् नदीनां त्वमतिश्रेष्ठा भविष्यसि ।दर्शनात् स्पर्शनात् स्नानात् पानाच्चैवावगाहनात्हरिष्यसि महापापं वाङ्मनःकायसम्भवम् ।यः स्नास्यति विधानेन देवर्षिपितृतर्पकः
तर्पयेत् स्वपितॄंश्चापि तारयित्वा दिवं नयेत् ।स्वयं मम प्रियो भूत्वा ब्रह्मलोकं गमिष्यति
यदि त्वय्युत्सृजेत् प्राणान् मम कर्म्मपरायणः ।सोऽपि याति परं स्थानं यत्र गत्वा शोचति
एवं दत्त्वा वरान देव्यै तत्रैवान्तरधीयत ।ततः प्रभृति तिष्ठामः क्षेत्रेऽस्मिन् शशलाञ्छन !
”इति वराहपुराणे सोमेश्वरादिलिङ्गमहिमा-ऽविमुक्तक्षेत्रत्रिवेण्यादिमहिमनामाध्यायः
वाचस्पत्यम्
Sanskrit
गण्डकी स्त्री गण्ड + जातौ ङीष् गण्डकी गण्डकजा-तिस्त्रियाम् नदीभेदे तदधिष्ठातृदेवीभेदे साच विष्णुसेवया शालग्रामशिलाखनित्वं लेभे तत्-कथा वराहपु० “गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधे! शीर्ण-पर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम् दिव्यं वर्षशतंतेपे विष्णुं चिन्तयती तदा ततः साक्षाज्जगन्नाथोहरिर्भक्तजनप्रियः उवाच मधुरं वाक्यं प्रीतःप्रणतवत्सलः गण्डकि! त्वां प्रसन्नोऽस्मि तपसा वि-स्मितोऽनघे! अनवच्छिन्नया भक्त्या वरं वरयसुव्रते! किं देयं तद्वदस्वाशु प्रीतोऽस्मि वरवर्णिनि! ।गण्डक्यपि पुरोदृष्ट्वा शङ्खचक्रगदाधरम् दण्डवत्प्रणता भुत्वा ततः स्तोतुं प्रचक्रमे ।” “ततो हिमांशो!सा देवो गण्डकी लोकतारिणी प्राञ्जलिः प्रणता भूत्वामधुरं वाक्यमब्रवीत् यदि देव! प्रसन्नोऽसि देयो मेवाञ्छितो वरः मम गर्भगतो भूत्वा विष्णो! मत्पुत्रतां व्रज ततः प्रसन्नो भगवान् चिन्तयामासगोपते! किं याचितं निम्नगया नित्यं मत्सङ्ग-लुब्धया दास्यामि याचितं येन लोकानां भवमोक्षणम् ।इत्येवं कृपया देवो निश्चित्य मनसा स्वयम् गण्डकीमवदत् प्रीतः शृणु देवि! वचो मम शालग्रामशिला-रूपी तव गर्भगतः सदा तिष्ठामि तव पुत्रत्वे भक्तानु-ग्रहकारणात् मत्सान्निध्यात् नदीनां त्वमतिश्रेष्ठाभविष्यसि दर्शनात् स्पर्शनात् स्नानात् पानाच्चैवाव-गाहनात् हरिष्यसि महापापं वाङ्मनःकायसम्भवम् ।यः स्नास्यति विधानेन देवर्षिपितृतर्पकः तर्पयेत्स्वपितॄंश्चापि तारयित्वा दिवं नयेत् स्वयम् मम प्रियोभूत्वा ब्रह्मलोकं गमिष्यति यदि त्वय्युत्सृजेत्प्राणान् मम कर्मपरायणः सोऽपि याति परं स्थानंयत्र गत्वा शोचति एवं दत्त्वा वरान् देव्यै तत्रै-वान्तरधीयत ततः प्रभृति तिष्ठामः क्षेत्रेऽस्मिन् शश-लाञ्छन!” “गण्डक्याश्चैकदेशे शालग्रामस्थलंस्मृतम् पाषाणं तद्भवं यत्तत् शालग्राममिति स्मृतम्”स्मृतिः सा शोणनदसन्निकृष्टस्थाने गङ्गायां सङ्गताहरिहरक्षेत्रतया तत्सङ्गमस्थानं प्रसिद्धम् “गण्ड-कीञ्च महाशोणं सदानीरां (करतोयाम्) तथैव एक-पर्वतके सद्यः क्रमेणैवाव्रजन्त ते” भा० स० १९ अ० “गण्ड-कीन्तु समासाद्य सर्वतीर्थजलोद्भवाम् वाजपेयम-वाप्नोति सूर्य्यलोकञ्च गच्छति” भा० व० ८४ “गण्डक्याउत्तरे तीरे गिरिराजस्य दक्षिणे सिंहस्थं मकरस्थञ्चगुरुं यत्नेन बर्ज्जयेत्” मलमा० त०