| YouTube Channel

गजाननः (gajAnanaH)

 
Wordnet
Sanskrit
Synonyms:
गणेशः, गजाननः, गणपतिः, लम्बोदरः, वक्रतुण्डः, विनायकः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गणनाथः, हेरम्बः, भालचन्द्रः, विघ्नराजः, द्वैमातुरः, गणाधिपः, विघ्नेशः, पर्शुपाणिः, आखुगः, शूर्पकर्णः, गणः
noun
हिन्दूनां एका प्रधाना तथा अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।
"गणेशस्य वाहनं मूषकः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
गजाननः,
पुं,
(गजस्य हस्तिन आननं मुखमेवआननं यस्य ।) गणेशः इत्यमरः ४१
(यथा, ब्रह्मवैवर्त्ते गणेशखण्डे अध्याये ।“शनिदृष्ट्या शिरश्छेदात् गजवक्त्रेण योजितः ।गजाननः शिशुस्तेन नियतिः केन बाध्यते
”पुराणान्तरे मतभेदोऽपि दृश्यते यथा, स्कान्देगणेशखण्डे ११ अध्याये ।गुरुरुवाच ।“अवतारो यदि धृतः साधुत्राणाय भो विभो !प्रकाशयाशु वदनं सर्व्वेषां शोकनाशनम्
नयस्व सर्व्वदेवानामानन्दं हृदये प्रभो ! ।शिव उवाच ।प्रत्युवाच गुरुं पुत्त्रः पार्व्वत्या हीनमस्तकः
शिशुरुवाच ।महेशाख्येन राज्ञा ते प्रणतौ चरणौ यदा ।तदाशीर्या त्वया दत्ता तस्मै राज्ञे गुरो मुदा
गजयोनौ जनिर्मुक्तिः शिवहस्तादुदीरिता ।तत् सर्व्वमभवत् तस्य विद्यते चारुमस्तकः
पूज्यमानः शिवेनास्ते शुण्डादण्डः सुशोभनः ।अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम्
शिव उवाच ।आश्चर्य्यपूर्णहृदयो गुरुरूचे पुनः शिशुम्
गुरुरुवाच ।भगवत ! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः ।मया यदुदितं तस्मै त्वया ज्ञातं यतः प्रभो !
अहमीशस्वरूपं ते परिच्छेत्तुं क्षमः ।श्रुत्वैव ब्रह्मणः पुत्त्रो नारदस्तत्र चाब्रवीत्
नारद उवाच ।एवमेवावतीर्णोऽसि हीनमूर्द्धा कथं प्रभो ! ।अथवा बालरूपस्य छिन्नं ते केन तच्छिरः
एतन्मे संशयं छिन्धि कृपया परमेश्वर ! ।शिव उवाच ।निपीय नारदीं वाणीमुवाच शिशुरुच्चकैः
शिशुरुवाच ।सिन्दूरः कोऽपि दैत्यो मे वायुरूपधरोऽच्छिनत् ।अष्टमे मासि सम्पूर्णे प्रविश्योमोदरं शिरः
तमिदानीं हनिष्येऽहं गजास्यं साम्प्रतं द्बिज ! ।शिव उवाच ।श्रुत्वैव नारदः प्राह शिशुरूपिणमीश्वरम्
नारद उवाच ।अकिञ्चिज्ज्ञा वयं देव ! योजनेऽस्य मुखस्य ते ।त्वमेव स्वभावेन मखमेतन्नियोजय
शिव उवाच ।वदतीत्थं मुनिर्यावत् तावत् ददृशेऽखिलैः ।सर्व्वावयवसम्पूर्णो गजानन उमासुतः
किरीटकुण्डलधरो युगबाहुः सुलोचनः ।वामदक्षिणभागे सिद्धिवृद्धिविराजितः
दृष्ट्वा विनायकं स्कन्द ! तथाभूतं निजेच्छया ।हर्षेणोत्फुल्लनयना देवाः सर्व्वे तदाब्रुवन्
गजानन इति ख्यातो भविताऽयं जगत्त्रये ।एवं भाद्रचतुर्थ्यां अवतीर्णो गजाननः
”)