| YouTube Channel

गगनं (gaganaM)

 
Apte 1890
English
गगनं(णं) (Some suppose गगण to be an incorrect form, as is observed by a writer:
फाल्गुने गगने फेने णत्वमिच्छंति बर्बराः) 1 The sky, atmosphere
अवोचदेनं गगनस्पृशा रघुः स्वरेण R. 3. 43
गगनमिव नष्टतारं Pt. 5. 6
सोयं चद्रंः पतति गगनात् Ś. 4. v. l.
Śi. 9. 27.
2 (In math.) A cypher.
3 Firmament.
4 Heaven.
Comp.
अग्रं the highest heavens.
अंगना a heavenly nymph, an Apsaras.
अध्वगः {1} the sun. {2} a planet. {3} a celestial being.
अंबु n. rain-water.
उल्मुकः the planet Mars.
कुसुमंपुष्पं ‘sky-flower’
i. e. any unreal thing, an impossibility
see खपुष्प.
गतिः {1} a deity. {2} a celestial being
Me. 46. {3} a planet.
चर (also गगनेचर) a. moving in the air. (
रः) {1} a bird. {2} a planet. {3} a heavenly spirit. {4} a lunar mansion. {5} the zodiac (राशिचक्र).
ध्वजः {1} the sun. {2} a cloud.
विहारिन् a. moving or ranging in the sky
H. 1. 21. (
m.) {1} a luminary. {2} the sun. {3} a celestial being.
सद् a. dwelling in the air. (
m.) a celestial being
Śi. 4. 53.
सिंधुः f. an epithet of the Ganges.
स्थ,
स्थित a. situated in the sky.
स्पर्शनः {1} air, wind. {2} N. of one of the eight Maruts.
शब्दकल्पद्रुमः
Sanskrit
गगनं,
क्ली,
(गं गानं शब्दात्मकं गुणं गच्छतियद्वा गकारं भूतेषु प्रथमभूतत्वात् प्राधान्यंगच्छति यद्वा गच्छन्त्यस्मिन् देवादय इति ।“गमेर्गश्च ।” उणां ७७ इति युच्गश्चान्तादेशः ।) आकाशम् इत्यमरः
(यथा मेघदूते ४८ ।“प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्
”)तत्पर्य्यायः अमरोक्तपर्य्यायाः आकाशशब्देद्रष्टव्याः
(तेभ्यः परम् ।) वर्हिः १९ धन्व २०आपः २१ पृथिवी २२ भूः २३ स्वयम्भूः २४अध्वा २५ सगरः २६ ससुद्रः २७ अध्वरः २८ ।इति वेदनिघण्टौ अध्यायः
*
“आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते ।अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम्
”इत्याश्वमेधिकपर्व्व
तस्य गुणाः शब्दः व्यापृत्त्वम् छिद्रता ३अनाश्रयम् अनालम्बम् आश्रयान्तर-शून्यम् अव्यक्तम् रूपस्पर्शशून्यत्त्वात् अधि-कारिता द्रव्यान्तरानारम्भकत्वम् अप्रती-घातिता भूतत्वम् श्रोत्रेन्द्रियोपादानत्वात् ।विकृतानि १० देहान्तर्गतच्छिद्राणि तद्यथा, --“आकाशस्य गुणः शब्दो व्यापृत्त्वं छिद्रमेव ।अनाश्रयमनालम्बमव्यक्तमविकारिता
अप्रतीघातिता चैव भूतत्वं विकृतानि ।गुणाः पञ्चाशतः प्रोक्ताः पञ्चभूतात्मभूतता
”पञ्चानां भूतानां आत्मा प्राप्तिः स्वकं स्वरूपंतत्र लक्षिता इति मोक्षधर्म्मः
(गगनात्पतिताम्बुगुणविशेषो यथा, --“गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने ।बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम्
रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम्
”इति सुश्रुते सूत्रस्थाने ४५ अध्यायः
)