| YouTube Channel

खनित्वा (khanitvA)

 
Spoken Sanskrit
English
खनित्वा khanitvA
ind.
having dug
Monier Williams Cologne
English
खनित्वा
ind.
p.
having dug,
Hit.
Monier Williams 1872
English
खनित्वा, ind. having dug.
Kridanta Forms
Sanskrit
खन् (ख꣡नुँ॑ अवदारणे - भ्वादिः - सेट्)
ल्युट् = खननम्
अनीयर् = खननीयः - खननीया
ण्वुल् = खानकः - खानिका
तुमुँन् = खनितुम्
तव्य = खनितव्यः - खनितव्या
तृच् = खनिता - खनित्री
क्त्वा = खनित्वा / खात्वा
ल्यप् = प्रखाय / प्रखन्य
क्तवतुँ = खातवान् - खातवती
क्त = खातः - खाता
शतृँ = खनन् - खनन्ती
शानच् = खनमानः - खनमाना
कृदन्तरूपमाला
Sanskrit
1 {@“खनु अवदारणे”@} 2 खानकः-निका, खानकः-निका, 3 चिखनिषकः-षिका, 4 चाखायकः-यिका, चङ्खनकः-चंखनकः-निका
खनिता-त्री, खानयिता-त्री, चिखनिषिता-त्री, चङ्खनिता-त्री, चाखायिता-त्री
खनन्-न्ती, खानयन्-न्ती, चिखनिषन्-न्ती, -- खनिष्यन्-न्ती-ती, खानयिष्यन्-न्ती-ती, चिखनिषिष्यन्-न्ती-ती
-- 5 प्रनिखनमानः, खानयमानः, चिखनिषमाणः, चाखायमानः-चङ्खन्यमानः
प्रनिखनिष्यमाणः, खानयिष्यमाणः, चिखनिषिष्यमाणः, चाखायिष्यमाणः-चङ्खनिष्यमाणः
6 सुखाः-सुखौ-सुखाः
-- -- -- 7 8 खातम्- 9 खातः-खातवान्, खानितः, चिखनिषितः, चाखायितः-चङ्खनितः-तवान्
खनः, 10 खनित्रम्, 11 परिखा-खम्, 12 कूपखानः, 13 खनकः-खनिकी, खानः, चिखनिषुः, 14 चङ्खनः
खनितव्यम्, खानयितव्यम्, चिखनिषितव्यम्, चाखायितव्यम्-चङ्खनितव्यम्
खननीयम्, खाननीयम्, चिखनिषणीयम्, चाखायनीयम्-चङ्खननीयम्
15 खेयम् 16, खान्यम्, चिखनिष्यम्, चाखाय्यम्-चङ्खन्यम्
ईषत्खनः-दुष्खनः-सुखनः
-- -- खायमानः-खन्यमानः, खान्यमानः, चिखनिष्यमाणः, चाखाय्यमानः-चङ्खन्यमानः
17 आखानः, 18 खनः- 19 आखनः-खानः, 20 आखः-आखरः-आखनिकः-आखनिकवकः, खानः, चिखनिषः, चाखायः-चङ्खनः
खनितुम्, खानयितुम्, चिखनिषितुम्, चाखायितुम्-चङ्खनितुम्
खातिः, खानना, चिखनिषा, चाखाया-चङ्खना
खननम्, खाननम्, चिखनिषणम्, चाखायनम्-चङ्खननम्
21 खनित्वा-खात्वा, खानयित्वा, चिखनिषित्वा, चाखायित्वा-चङ्खनित्वा
22 प्रखाय-प्रखन्य, प्रखान्य, प्रचिखनिष्य, प्रचाखाय्य-प्रचङ्खन्य
खानम् २, खनित्वा २, खात्वा २, खानम् २, खानयित्वा २, चिखनिषम् २, चिखनिषित्वा २, चाखायम् -चङ्खनम्
चाखायित्वा -चङ्खनित्वा
23 कुप्रत्यये, तस्य डिद्वद्भावाट्टिलोपे रूपम्।
= समन्तात् खनतीति आखुः = मूषकः।]] आखुः, 24 इति डस्प्रत्यये, मुडागमे रूपम्।
-- ‘प्राक् खनो मुडुदात्तश्च ततोऽच्च प्रत्ययो भवेत्।
प्रजासृजा यतः खातं तस्मा- दाहुर्मुखं बुधाः।।’ इति निरुक्तम्--’ इत्यमरव्याख्यायां सुधायाम्।]] मुखम्, 25 इति इः प्रत्ययः।
खन्यते इति खनिः = आकरः।
‘खनिः स्त्रियामाकरः स्यात्--’ इत्यमरः।]] खनिः।
प्रासङ्गिक्यः
01
=>
(३३९)
02
=>
(१-भ्वादिः-८७८। सक। सेट्। उभ।)
03
=>
[[१। ‘जनसनखनां सञ्झलोः’ (६-४-४२) इति प्राप्तमात्वं, क्ङित्सन्परकत्वाभावात् भवति। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
04
=>
[[२। ‘ये विभाषा’ (६-४-४३) इति वैकल्पिके आत्वे, चाखायकः इति रूपम्। आ- त्वाभावपक्षे ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इत्यभ्यासस्य नुगागमः। ‘स पदान्तवद्वाच्यः’ (वा। ७-४-८५) इति वचनात् परसवर्णविकल्पः। एवं यङन्ते सर्वत्र रूपत्रयं बोध्यम्। एवं यक्यपि ज्ञेयम्। यङवयवाकारलोपस्य स्थानि- वद्भावेनाजादिक्ङित्प्रत्ययपरकत्वात् ‘गमहन--’ (६-४-९८) इत्युपधालोपो शङ्क्यः
\n\n तत्र, ‘अनङि’ इति पर्युदासेन, औपदेशिकाजादिप्रत्यये एव लोप इति भट्टो- जिदीक्षितैः ‘न धातुलोप--’ (१-१-४) इत्यत्रोक्तत्वात्, तदनुसारेण अकारलो- पाघटितानि रूपाणि प्रदर्शितानि। नागेशभट्टैस्तु--औपदेशिकाजादावित्यर्थो नाश्रितः। अतः ‘जङ्ग्मकः’ इति रूपं ‘न धातुलोप--’ (१-१-४) सूत्रे उद्योते प्रदर्शितम्। प्राचीननवीनयोर्बहुषु लक्ष्येषु आशयभेदो यथा भवति-- तथाऽत्रापीति बोध्यम्।]]
05
=>
[[३। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इत्यत्र, ‘अकखादौ’ इत्युक्तेः वैकल्पिकं णत्वं न।]]
06
=>
[[४। ‘जनसनखनक्रमगमो विट्’ (३-२-६७) इति विट्प्रत्यये, ‘विड्वनोरनुनासिकस्यात्’ (६-४-४१) इति धातुनकारस्य आत्वे, सवर्णदीर्घे रूपम्।]]
07
=>
[पृष्ठम्०३४६+ २४]
08
=>
[[१। उदित्त्वेन क्त्वायामिड्विकल्पात्, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामि- ण्णिषेधः। ‘जनसनखनां सञ्झलोः’ (६-४-४२) इत्यात्वम्। एवं क्तिन्यपि आत्वं ज्ञेयम्।]]
09
=>
[[आ। ‘हता जनस्थानसदो निकायाः कृता जितोत्खातभटद्रुमा पूः। सदांसि दग्धानि विधेयमस्मिन् यद् बन्धुना तद् घटयस्व तस्मिन्।।’ भ। का। १२-५। ‘प्रवुन्द्यवेणीजववेनमाना खातान्तिका चीवरिभिर्निषादैः। चाय्या व्ययद्दाशविलोकभेषभ्रेषज्झषा यासदघं स्पशन्ती।।’ धा। का। २-२७।]]
10
=>
[[२। ‘अर्तिलूधूसूखनसहचर इत्रः’ (३-२-१८४) इति करणे इत्रप्रत्ययः।]]
11
=>
[[३। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति कर्मणि डः प्रत्ययः। एवम्, ‘खम्’ इत्यत्रापि ज्ञेयम्।]]
12
=>
[[४। ‘कर्मण्यण्’ (३-२-१) इत्यण् प्रत्ययो भवति।]]
13
=>
[[५। ‘शिल्पिनि ष्वुन्’ (३-१-१४५) इत्यत्र, ‘नृतिखनिरञ्जिभ्य एव’ (वा। ३-१-१४५) इति वचनात् कर्तरि ष्वुन्। षित्त्वात्, ‘षिद्गौरादिभ्यः--’ (४-१-४१) इति स्त्रियां ङीष्।]]
14
=>
[[६। यङन्तात् पचाद्यचि (३-१-१३४), ‘यङोऽचि च’ (२-४-७४) इति लुकि यादि- प्रत्ययपरकत्वाभावादात्वं भवति।]]
15
=>
[[७। ‘ई खनः’ (३-१-१११) इति क्यप्सन्नियोगेन धातुनकारस्य ईकारादेशः। गुणः।]]
16
=>
[[B। ‘नाखेयः सागरोऽप्यन्यः तस्य सद्भृत्यशालिनः। मन्युस्तस्य त्वया मार्ग्यः मृज्यः शोकश्च तेन ते।।’ भ। का। ६-५६।]]
17
=>
[पृष्ठम्०३४७+ २७]
18
=>
[[१। ‘खनो च’ (३-३-१२५) इति अकर्तरि कारके घः प्रत्ययः। सूत्रे चकारात् घञि ‘खानः’ इत्यपि भवति।]]
19
=>
[[आ। ‘हृदयोदङ्कसंस्थानं कृतान्तानायसन्निभम्। शरीराखनतुण्डाग्रं प्राप्यामुं शर्म दुर्लभम्।।’ भ। का। ७-८३।]]
20
=>
[[२। ‘खनेः डडरेकेकबका बाच्याः’ (वा। ३-३-१२५) इति वचनेन ड-डर-इक- इकबकप्रत्ययाः क्रमेण भवन्ति। आखादयः खनित्रवाचकाः।]]
21
=>
[[३। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे आत्वे रूपम्।]]
22
=>
[[४। ‘ये विभाषा’ (६-४-४३) इत्यात्वविकल्पः। तेन रूपद्वयम्।]]
23
=>
[[५। औणादिके [द। उ। १-११८]
24
=>
[[६। ‘डस् खनेर्मुट् चोदात्तः [द। उ। ३-५१]
25
=>
[[७। ‘खनिकष्यञ्जसि--’ [द। उ। १-६८]