| YouTube Channel

खण्डं (khaNDaM)

 
शब्दकल्पद्रुमः
Sanskrit
खण्डं,
क्ली,
(खडि + धञ् इदित्वात् नुम् ।)विड्लवणम् इति राजनिर्घण्टः
इक्षुवि-कारः अस्य गुणाः वृष्यतमत्वम् चक्षु-ष्यत्वम्
वातपित्तनाशित्वञ्च इति राजवल्लभः
(अस्य गुणाः यथा, --“खण्डन्तु मधुरं वृष्यं चक्षुष्यं बृंहणं हिमम् ।वातपित्तहरं स्निग्धं बल्यं वान्तिहरं परम्
”मधुखण्डगुणाः यथा, --“मधुजा शर्करा रूक्षा कफपित्तहरी गुरुः ।छर्द्यतीसारतृड्दाहरक्तहृत्तुवरा हिमा
”इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे
)