क्षौरं (kSauraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritक्षौरं, (क्षुरस्य कार्य्यं कर्म्म क्षुरकृतं कर्म्मेतिभावः क्षुरस्येदं वा ।) क्षुरकर्म्म । कामान इतिभाषा । तत्पर्य्यायः । मुण्डनम् २ भद्रकरणम् ३वपनम् ४ परिवापनम् ५ । इति हेमचन्द्रः ॥
अस्य गुणः ।“केशश्मश्रुनखादीनां कर्त्तनं संप्रसाधनम् ।”संप्रसाधनं पवित्रीकरणमिति यावत् । इतिराजवल्लभः ॥
* ॥
व्रतादिसंयमे क्षौरकर्म्मा-करणे दोषो यथा, --“व्रतानामुपवासानां श्राद्धादीनाञ्च संयमे ।न करोति क्षौरकर्म्म अशुचिः सर्व्वकर्म्मसु ॥
स च तिष्ठति कुण्डेषु नखादीनाञ्च सुन्दरि ! ।तदेव दिनमानाब्दं तद्भोजी दण्डताडितः ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥
* ॥
नित्यक्षौरविहितनिषिद्धदिनादि यथाह राज-मार्त्तण्डः ।“न स्नानमात्रगमनोत्सुकभूषिताना-मभ्यक्तभुक्तरणकालनिरासनानाम् ।सन्ध्यानिशाशनिकुजार्कदिनेषु रिक्तेक्षौरं हितं प्रतिपदह्रि न चापि विष्ट्याम् ॥
” * ॥
“प्राचीसुखः सौम्यमुखोऽपि भूत्वाकुर्य्यान्नरः क्षौरमनुत्कटस्थः ॥
उत्तरात्रितययाम्यरोहिणी-रौद्रसर्पपितृभेषु चाग्निभे ।श्मश्रुक्रर्म्म सकलं विवर्ज्जयेत्प्रेतकार्य्यमपि बुद्धिमान्नरः ॥
”प्रेतकार्य्यं पतितप्रेतसंप्रदानकदासीघटदानविषय-कम् । अन्यथा वक्ष्यमाणवचनविरोधः स्यात् ॥
“चन्द्रशुद्धिर्यदा नास्ति तारायाश्च विशेषतः ।अक्षौरिभेऽपि कर्त्तव्यं चन्द्रचन्द्रजयोर्द्दिने ॥
मानं हन्ति गुरुः क्षौरे शुक्रं शुक्रो धनं रविः ।आयुरङ्गारको हन्ति सर्व्वं हन्ति शनैश्चरः ॥
” * ॥
श्रीपतिरत्नमालायाम् ।“आज्ञया नरपतेर्द्विजन्मनांदारकर्म्ममृतसूतकेषु च ।ब्रन्धमोक्षमखदीक्षणेष्वपिक्षौरमिष्टमखिलेषु चोडुषु ॥
देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये ।क्षुरिकर्म्म न कुर्व्वीत जन्ममासे च जन्मभे ॥
” * ॥
वृद्धगार्ग्यः ।“केशवमानर्त्तपुरं पाटलिपुत्त्रं पुरीमहिच्छत्रम् ।दितिमदितिञ्च स्मरतां क्षौरविधौ भवति कल्या-णम् ॥
* ॥
”अत्र क्रमो वराहपुराणे ।“श्मश्रुकर्म्म कारयित्वा नखच्छेदमनन्तरम् ॥
”इति ज्योतिस्तत्त्वम् ॥
अपि च । गोभिलः । “केशश्मश्रुलोमनखानि वाप-यीत शिखावर्ज्जम् ।” इति शुद्धितत्त्वम् ॥
* ॥
अन्यच्च ।“रोहिण्याञ्च विशाखायां मैत्रे चैवोत्तरासु च ।मघायां कृत्तिकायाञ्च द्विजैः क्षौरं विवर्ज्जितम् ॥
कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत् पितॄन् ।रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत् ॥
”इति ब्रह्मवैवर्त्तपुराणम् ॥
* ॥
नापितगृहे क्षौरनिषेधो यथा, --“स्वयं माल्यं स्वयं पुष्पं स्वयं घृष्टञ्च चन्दनम् ।नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम् ॥
रवौ दुःखं सुखं चन्द्रे कुजे मृत्युर्बुधे धनम् ।मानं हन्ति गुरोर्व्वारे शुक्रे शुक्रक्षयो भवेत् ॥
शनौ च सर्व्वदोषाः स्युः क्षौरमत्र विवर्ज्जयेत् ॥
”इति कर्म्मलोचनम् ॥
* ॥
* ॥
अथ प्रथंमक्षौरस्य चूडाकरणस्य विहित-दिनादि । ज्योतिषे ।“अयुग्गाब्दे तथा मासि चूडा भौमशनीतरे ।अर्केन्दकालशुद्धौ च जन्ममासेन्दुभेतरे ।रिक्तादर्शाष्टमीषष्ठीप्रतिपद्वर्ज्जिते सिते ॥
”दक्षोऽपि सामान्वतो दोषमाह ।“षष्ठ्यष्टमी पञ्चदशी उभे पक्षे चतुर्द्दशी ।अत्र सन्निहितं पापं तैले मांसे भगे क्षुरे ॥
मेषसिंहतुलाकर्किवृश्चिकेतरलग्नके ।श्रवणादित्रयस्वातीचित्रापुष्याश्विचन्द्रभे ॥
आदित्यरेवतीहस्ता ज्येष्ठामूले च चौडकम् ॥
पौष्णाश्विपुष्यवसुरामकवासुदेव-ब्रह्मार्क्कचन्द्रवरुणादितिचित्रभेषु ।वारेषु सोमबुधवाक्पतिभार्गवाणांक्षौरं करोति कुशलं खलु मानवानाम् ॥
”इति वचनात् रोहिण्यामपि चूडाकरणम् ।अत्रापि तिथ्यङ्गादिविद्धमृक्षं विवर्ज्जयेत् ॥
“सूर्य्ये दक्षिणमार्गगामिनि हरौ सुप्ते निरंशे रवौक्षीणे शीतरुचौ महीजयमयोर्व्वारेनिशासन्ध्ययोः ।भुक्तेऽभ्यक्ततनौ निषिद्धसमयेऽलङ्कारयुक्ते शिशौक्षौराद्रोगभयं वदन्ति यवना मृत्युं तथान्ये जगुः ॥
”राजमार्त्तण्डे ।“मानं हरेत् क्षौरमिहायुषोऽर्कःशनैश्चरः पञ्च कुजस्तथाष्टौ ।आचार्य्यभृग्विन्दुबुधाः क्रमेणदद्युर्द्दशैकादश सप्त पञ्च ॥
”जीवादिवारे क्षौरं प्रशस्तम् ॥
* ॥
भोजराजः ।“शिखिसन्निधाने च चूडाकरणं जगुः शुभं यवनाः ।चैत्रे मासि दिवाकरवारे उत्तरवर्त्मनि सवितरि ॥
”दिवाकरवारविनिर्मोके तु गर्गः ।“जन्मर्क्षे जन्ममासे च युग्ममासे च वत्सरे ।न कुर्य्यात् प्रथमं क्षौरं विशेषाच्चैत्रपौषयोः ॥
”ज्येष्ठपुत्त्रकन्ययोस्तु ज्यैष्ठदशाहाभ्यन्तरे चूडा-निषेधो विवाहप्रकरणे उक्तः । इति ज्योति-स्तत्त्वम् ॥
* ॥
अपि च । भोजराजः ।“यो जन्ममासे क्षुरकर्म्म यात्रांकर्णस्य वेधं कुरुते च मोहात् ।नूनं स रोगं धनपुत्त्रनाशंप्राप्नोति मूढो वधबन्धनानि ॥
जातं दिनं दूषयते वशिष्ठ-श्चाष्टौ च गर्गो यवनो दशाहम् ।जन्माख्यमासं किल भागुरिश्चचूडे विवाहे क्षुरकर्णवेधे ॥
”एतद्विषयभेदस्तु राजमार्त्तण्डे ।“उक्तानि प्रतिषिद्धानि पुनः सम्भावितानि च ।सापेक्षनिरपेक्षाणि श्रुतिवाक्यानि कोविदैः ॥
सापेक्षनिरपेक्षाणि समर्थासमर्थविषयकाणि ।क्षुरेति क्षुरकर्म्म ।” इति तिथ्यादितत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
