| YouTube Channel

क्षौमं (kSaumaM)

 
शब्दकल्पद्रुमः
Sanskrit
क्षौमं, त्रि, (क्षु + “अर्त्तिस्तुसुहुसृधृक्षिक्ष्विति ।”उणां १३९ इति मन् ततः प्रज्ञा-दित्वात् अण् वृद्धिः ।) क्षुमाया विकारःस्त्रियां क्षौमी कन्था इत्यादि इत्यमरटीकायांभरतः
क्षौमं,
पुं,
क्ली,
(क्षु + मन् ततोऽण् वृद्धिश्च ।) अट्टा-लकः तत्पर्य्यायः अट्टः इत्यमरः १२
“द्वे हर्म्म्यादिगृहे प्राकाराग्रस्थितरणगृहे इतिकौदिल्यः अट्टेति ख्याते गृहविशेषे इतिकोङ्कटः प्राकारमण्डपस्योपरिशालायामितिकेचित् हर्म्म्यादिवातकुटिकायामिति केचित् ।मण्डपोपरि हर्म्म्यपृष्ठे इति केचित् प्राकार-धारणार्थोऽभ्यन्तरे क्षोमाख्योऽट्टः इति भट्टः ।अट्ट्यतेऽसौ अट्टः अट्ट विक्रमे वधे अल् ।क्षुवन्ति शब्दायन्तेऽत्र क्षौमं टु क्षु क्षुतेनाम्नि इति मः गुणः स्वार्थे ष्णे क्षौमञ्च पट्ट-दुकूलयोः क्षोमं गुणवत् वस्त्रभेदे क्षौमं वृद्धि-मदिति बहवः क्षौममट्टे दुकूले स्यादतसी-वसनेऽपि चेति विश्वप्रकाशे अतसीवनेन सहपाठादट्टेऽपि क्षौममन्त्यस्वरवच्च तत्र हिपरेषां वृद्धिविधानात् ।” इति पुरवर्गे भरतः
*
अतसीवस्त्रम् इति हेमचन्द्रः
(यथाहयाज्ञवल्क्यः १८७ ।“स गौरसर्षपैः क्षौमं पुनः पाकान्महीमयम् ।कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखन्तथा
”)“क्षुमायाः विकारः क्षौमं वृद्ध्यादि वाच्यलिङ्गञ्चस्त्रियां क्षौमी कन्थेत्यादि ।” इति नृदर्गेभरतः
*
पट्टवस्त्रम् तत्पर्य्यायः दुकू-लम् इत्यमरः ११३ “द्बे पट्टवस्त्रे ।सौत्रवस्त्रादधिकं क्षौति क्षोमं टु क्षु शब्देबाम्नीति मः गुणः यत् पुनरतसीविकारवाचिप्रकृत्यन्तरं तद्वृद्धिमत् दुकूलार्थात् क्षोमात्स्वार्थे प्रज्ञादित्वादणि क्षौमञ्चेतिकेचित् दुनोतिउपतापयति अधिकग्रीष्मजननादिति नाम्नीतिकूलकि दुकूलम् ।” इति नृवर्गे भरतः
*
शणजवस्त्रम् यथा, शब्दरत्नावल्याम् ।“क्षौमं दुकूले स्यादट्टे पुंनपुंसकयोरिह ।क्षौमन्तु शणजेऽपि स्यादतसीजे नपुंसकम्
”(यथा, महाभारते २०० ।“कृष्णा क्षौमसंवीता कृतकौतुकमङ्गला ।कृताभिवादना शश्र्वास्तस्थौ प्रह्वा कृताञ्जली
”)