| YouTube Channel

क्षोद्यः (kSodyaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षोद्यः, त्रि, (क्षोदनयोग्यः क्षोदितुमर्हति वा ।क्षुद् + “अचो यत् ।” ९७ इति यत् ।)क्षोदनीयः चूर्णीकरणीयः यथा, --“वबन्धुर्बन्धनीयांश्च क्षोद्यान् सञ्चुक्षुदुस्तथा ।बिभिदुर्भेदनीयांश्च तांस्तान् देशान्नरास्तदा
”इति रामायणे ८० १०
“बन्धनीयान् सेतून् क्षोद्यान् क्षोदनीयान्शर्कराभूयिष्ठप्रदेशान् सञ्चुक्षुदुः चूर्णया-मासुः भेदनीयान् जलनिर्गमार्थं भेद्यान्
”इति तट्टीका