| YouTube Channel

क्षेमकः (kSemakaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षेमकः,
पुं,
(क्षेम + स्वार्थे संज्ञायां वा कन् ।)चोरनामगन्धद्रव्यम् इति जटाधरः
*
नागविशेषः यथा, --“नागः शङ्खमुखश्चैव तथा कुष्माण्डकोऽपरः ।क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा
”इति महाभारते ३५ ११
जनमेजयवंशोत्पन्नराजविशेषः यथा, --“शतानीकाद्दुर्द्दमनस्तस्यापत्यं महीनरः ।दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः
”इति श्रीभागवते २२ ४३
एतत्पर्य्यन्तं अस्य वंशस्य विश्रान्तिः परी-क्षिदादयः क्षेमकान्ताः कलेः सहस्रवत्सर-पर्य्यन्तं राजान आसन् ततः सोमवंशशाखा-न्तरे मगधवंश्या राजानः कलौ बहुकालंस्थिताः इति श्रीभागवतमतम्
राक्षस-विशेषः यथा, --“एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप ! ।शून्यां निवेशयामास क्षेमको नाम राक्षसः
”इति हरिवंशे २९ ७६