| YouTube Channel

क्षुण्णं (kSuNNaM)

 
शब्दकल्पद्रुमः
Sanskrit
क्षुण्णं, त्रि, (क्षुद् संपेषणे + कर्म्मणि क्तः ।) प्रह-तम् (अभ्यस्तम् यथा, रघौ १७ ।“रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम्”
माघे ३२ ।“उदीर्णरागप्रतिरोधकं जनै-रभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।उपेयुषो मोक्षपथं मनस्विन-स्त्वमग्रभूमिर्निरपायसंश्रया”
)चूर्णीकृतम् इति जटाधरः
(यथा, मार्कण्डेयपुराणे ८३ २४-२५ ।“सोऽपि कोपान्महावीर्य्यः क्षुरक्षुण्णमहीतलः ।शृङ्गाभ्यां पर्व्वतानुच्चांश्चिक्षेप ननाद
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्य्यत”
)