क्षिप (kSipa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishक्षिप (औ) औक्षिप r. 4th cl. (क्षिप्यति) (ञ, आ) औक्षिञ् r. 6th cl. (क्षिपति-ते)
To throw or cast, to direct or send. With अधि, prefixed, To abuse,
to censure or reproach. With अव, To throw down. With आङ् 1. To
attract.
2. To ridicule. With उत्, To raise up, &c. With नि, To
place, to deposit. With प्र, To throw far or violently. With वि To
scatter, to disperse. with वि and नि, To deliver over, to resign, to
leave. With सम and आङ् To remove, to send away. With सम्, 1. To
abridge, to compress or contract.
2. To disappear.
Wilson
Englishक्षिप (औ) औक्षिप r. 4th cl. (क्षिप्यति) (ञ, आ)
औक्षिपञ्. r. 6th cl. (क्षिपति-ते) To throw or cast, to direct or send.
With अधि prefixed, To abuse, to censure or reproach.
With अव, To throw down.
With आङ्.
1 To attract.
2 To ridicule.
With उत्, To raise up, &c.
With नि, To place, to deposit.
With प्र, To throw far or violently.
With वि, To scatter, to disperse.
With वि and नि, To deliver over, to resign, to leave.
With सम and आङ्, To remove, to send away.
With सम्.
1 To abridge, to compress or contract.
2 To disappear.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishक्षिप [kṣipa], [क्षिप्-क] Throwing, striking, hitting.
पः Throwing, casting.
Reviling, insulting.
पा Sending.
Throwing.
Night.
Apte 1890
EnglishMonier Williams 1872
EnglishShabdartha Kaustubha
Kannadaक्षिप - प्रेरणे (दिवा० पर० सक० अनि०) क्षिप्यति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಎಸೆ /ಬಿಸಾಡು
क्षिप - प्रेरणे (दिवा० पर० सक० अनि०) क्षिप्यति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಬಾಣವನ್ನು ಪ್ರಯೋಗಿಸು
प्रयोगाः - > "वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्रमिन्द्रजित्"
उल्लेखाः - > भट्टि० १७-४३
क्षिप - प्रेरणे (तुदा० उभ- सक० अनि०) क्षिपति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಎಸೆ /ಬಿಸಾಡು
क्षिप - प्रेरणे (तुदा० उभ- सक० अनि०) क्षिपति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಕಳುಹಿಸು /ಹೊರಡಿಸು
क्षिप - प्रेरणे (तुदा० उभ- सक० अनि०) क्षिपति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಬಾಣವನ್ನು ಪ್ರಯೋಗಿಸು
प्रयोगाः - > "वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्रमिन्द्रजित्"
उल्लेखाः - > भट्टि० १७-४३
क्षिप - प्रेरणे (तुदा० उभ- सक० अनि०) क्षिपति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಇಡು /ಇರಿಸು
क्षिप - प्रेरणे (तुदा० उभ- सक० अनि०) क्षिपति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ತೆಗೆದು ಹಾಕು /ತಳ್ಳಿ ಹಾಕು
क्षिप - प्रेरणे (तुदा० उभ- सक० अनि०) क्षिपति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ದೂಷಿಸು
क्षिप - प्रेरणे (तुदा० उभ- सक० अनि०) क्षिपति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹರಡು
क्षिप - प्रेरणे (तुदा० उभ- सक० अनि०) क्षिपति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಕೊಲ್ಲು
क्षिप
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಎಸೆಯುವವನು /ಬಿಸಾಡುವವನು
निष्पत्तिः - > क्षिप (प्रेरणे) - "कः" (३-१-१३५)
क्षिप
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಇಡುವವನು /ಇರಿಸುವವನು
धातुपाठः (Krishnacharya)
Sanskrit क्षिप्
क्षिप
प्रेरणे
दिवादिः
सकर्मकः
अनिट्
परस्मैपदी
क्षिप्यति
क्षिप्
क्षिप
प्रेरणे
तुदादिः
सकर्मकः
अनिट्
उभयपदी
क्षिपति-ते
धातुप्रदीपः
Sanskritक्षिपँ क्षिप प्रेरणे
- क्षिप्यति चिक्षेप क्षेप्ता अक्षैप्सीत् क्षिपः क्षिपकः क्षिपका परिक्षेपी क्षिपते क्षिपतीति तुदादिपाठात् 15
क्षिपँ क्षिप प्रेरणे
- क्षिपति क्षिपते अभिक्षिपति क्षेप्ता अक्षैप्सीत् अक्षिप्त परिक्षेपी परिक्षेपकः क्षेपः क्षिप्यतीति दिवादिषु पाठात् 5
Wordnet
Sanskrit आक्षेपणम्, आक्षेपः, अपक्षेपणम्, विक्षेपणम्, प्रक्षेपणम्, क्षेपणम्, विसर्जनम्, संक्षेपणम्, क्षिप्तिः, मुक्तिः, संक्षिप्तिः, प्रक्षेपः, आवापः, विसर्गः, संरोधः, संक्षेपः, विनिक्षेपः, विक्षेपः, प्रासः, समीरणम्, प्रथनम्, प्रपातनम्, प्रहरणम्, अस्र, किरत्, क्षिप, निवापिन्, तस्, कीर्णिः, क्षिपा, टेपनम्, आवपनम्, आक्षेपणम्, असनम्, उदीरणम्, प्रासनम्, डङ्गरः, क्षेपः
केषाञ्चन वस्तूनां क्षेपणक्रिया।
"अमीषां वस्तूनाम् आक्षेपणम् आवश्यकम्।"
Tamil
Tamilக்ஷிப : ஏறிய, விட, தள்ள, நிந்திக்க, திட்ட, அவமதிக்க.
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritक्षिप प्रोरणे तुवा० सा० अनिट । क्षिपति--ते अक्षै-पसीत् अक्षिप्त । चिक्षेप चिक्षिपे । क्षिप्तः क्षेपकः ।क्षेप्ता क्षिप्त्वा क्षिपः क्षिपन् । “क्षिपत्येकेन वेगेन पञ्च-वाणशतानि च” भा० व० १०१८ श्लो० । “सुशर्म्मा साय-कांस्तीक्ष्णान् क्षिपते च पुनः पुनः” भा० वि० ३३ अ० ।“पदाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजन” रामा० १ । ११ अ०“यणिन् क्षप्स्यसि शक्तिञ्च स एकोन भविष्यति” भा० आ०६७ अ० “स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यतेमयि” भा० व० २८१ अ० “चिक्षेप मारीचोरसि” रासा०वा० ३२ स० । आक्षेपे च “चिक्षेप च स तं धीमान्वाग्भिरुग्रामिरच्युतम्” भा० आश्व० ३५ अ० । प्रेरणेक्वचित् स्वार्थे च णिच् क्षेपयति ते अचिक्षिपत् तअति + अत्यन्तक्षेपे । “सन्धिमुक्तमुत्पिष्टं श्लिष्टं विवर्त्तितमवक्षिप्तमतिक्षिप्तं तिर्य्यक् क्षिप्तमिति षड्विधम्” “अति-क्षिप्ते द्वयोःसन्ध्योरतिक्रान्तता वेदना” सुश्रुतः ।अधि--तिरस्कारे “तस्मादेतैरधिक्षिप्तः संहेतासंज्वरः सदा”मनुः । “त्वं नाधिक्षेप्तु मर्हसि” भा० व० ९९ अ० ।अधिक्षेपशब्दे विवृतिः ।अव + अधःक्षेपणे “अवक्षिप दिवो अश्मानमुच्चाः” ऋ० २, ५३, ५ अवक्षेपणशब्दे विवृतिःआ + आकर्षणे “आक्षिप्य केशान् वेगेन वाह्वोर्जग्राह पाण्ड-वम्” भा० वि० ७५० श्लो० । भत्र्सने । आक्षेपशब्दे६०३ पृ० विवृतिः । “आक्षिपन्तं प्रभां भानोः” भा० आ०११०३ । “आक्षिप्तत्तोमिव प्रभां शशिनः स्वेन तेजसा” भा०व० २१४७ श्लो० ।परि + आ + आकृष्य तन्धने । “पर्य्याक्षिपत् काचिदुदारबन्धम्” कुमा० ।उद् + ऊर्द्वक्षेपणे । “वलिमाकाश उत्क्षिपेत्” मनुः “शिरउत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्” भा० आ० ११२६ श्लो०उत्क्षेपणशब्दे १०८६ पृ० विवृतिःनि + नितरां क्षेपणे निधाने च । “अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निक्षेपेत्” याज्ञ० । गात्राणि कान्तासु च नि-क्षिपन्तः” रामा० ५ । ११ निक्षेपशब्दे विवृतिःनिस् + निशेषेण क्षेपे । “मक्षिकाव्रणजातस्य निःक्षिपन्तियदा कृमीन्” सुश्रुतः ।परि + परितः क्षेपे । “गङ्गास्रोतःपरिक्षिप्तम्” कुमा० ।प्र + प्रंकर्षेण क्षेपे “नामेध्यं प्रक्षिपेदग्नौ” मनुःप्रति + प्रतिरूपक्षेपे । “अन्तः सिराणां श्वसनः स्थितोदृष्टिंप्रतिक्षिपन्” सुश्रु० । अधिक्षपे निवारणे प्रेरणे चवि + विशेषेण क्षेपे “विक्षिप्यमाणाः धनुषा नरेन्द्राः” भा० आ०७०२२ श्ला० । वायुकृते उणादे, विक्षिप्तचित्तः । योगा-न्तरायकरणे चित्तवृत्तेरन्यत्र सञ्चारे च “अस्वण्डवस्त्वनव-लम्बनेन चित्तवृत्तेरन्यालम्बनं क्षिपः” वेदान्तसा०“लये संबोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः” तत्रस्थाकारिकासम् + सम्यकक्षेपे विस्तीर्ण्णस्य सङ्कोचापादने व्यापारे “आतपा-त्ययसंक्षिप्तनीवारासु निषादिभिः” रघुः । “संक्षिप्तैः प्रति-संस्कृतैः” अमरः । “संक्षिप्तसारमाचष्टे” संक्षिप्तसा०
क्षीरतरङ्गिणी
Sanskritक्षिपँ क्षिप प्रेरणे
- क्षिप्यति, द्वाविमावम्भसि क्षिप्य (महाभारत) इति लोट् नेट्-क्षेप्ता नव्योऽयम् तुदादौ (65) क्षिपते, क्षिपति
क्षिपँ क्षिप प्रेरणे
- क्षिपति, क्षिपते अभिप्रत्यतिभ्यः क्षिपः (1380) परस्मैपदम्-अभिक्षिपति, प्रतिक्षिपति, अतिक्षिपति संपृच (32142) इति परिक्षेपी निन्दहिंस (32146) इति परिक्षेपकः त्रसिगृधिधृषिक्षिपेः क्नु (32140) क्षिप्णुः भिदादौ (गण0 33104) क्षिपा रक् (द्र0 उ0 213)-क्षिप्रम् क्षिपेरनिः किच्च (तु0 उ0 2107)-क्षिपणिः, क्षिपणी वा दिवादौ (413) क्षिप्यति 5
धातुवृत्तिः
Sanskritक्षिपँ क्षिप (अर्थः) प्रेरणे
( क्षिप्याति चिक्षेप, क्षिप्ता क्षिप्स्यति क्षिप्यतु अक्षिप्यत् क्षिप्येत्) आशिषि ( क्षिप्यात् अक्षैप्सीत्, अक्षैप्ताम् चिक्षिप्सते, चेक्षिप्यते चेक्षेप्ति क्षेपयति अचिक्षिपत् क्षिप्त्वा क्षिप्तः क्षिपः ) इगुपधलक्षणः कः ( क्षिपका ) अज्ञातादौ कः "प्रत्ययस्थात्'' इतीत्वस्य [ क्षिपकादीनां चोपसङ्क्यानम् ] इति निषेधः (क्षिप्नुः) "त्रसिगृधिधृषि'' इत्यादिना क्नुः ( परिक्षेपी ) सम्पृचादिना घिनुण् ( परिक्षेपकः ) "निन्दहिंस'' इत्यादिना वुञ् ( क्षिपा ) भिदादिपाठाद्ङ् ( क्षिप्रम् ) "ऋज्रेन्द्र'' इत्यादिना रक् ( क्षेपिष्ठः, क्षेपीयान् क्षिपयति ) "स्थूलदूर'' इत्यादिना "णाविष्ठवत्'' इतियणादेर्लोपः, पूर्वस्य च गुणः सम्पृचादिसूत्रे वृत्तिकारेण "क्षिपिर्दिवादिस्तुदादिश्च गृह्यते' इतियणादेर्लोपः, पूर्वस्य च गुणः सम्पृचादिसूत्रे वृत्तिकारण "क्षिपिर्दिवादिस्तुदादिश्च गृह्यते' इत्युक्तत्वात् "द्वाविमावम्भसि क्षिप्य गले बध्वा महाशिलाम्' इति, "संक्षिप्य संरम्भमसद्विपक्षम्' इति, भारते भट्टिकाव्ये च दर्शनात्, पारायणिकैः क्षिपेरिह पाठो ऽयुक्त इति भूसूत्रे सुधाकरेण प्रतिपादितम् कृतस्तौदादिकस्यापि समानः "स्वरेण नीचेन शपिं छुपि क्षपिम्' इति पाठादयमनिट् अयं चुरादावदन्त इत्यात्रेयः 14
क्षिपँ क्षिप (अर्थः) प्रेरणे
( क्षिपति, क्षिपते अभिक्षिपति प्रतिक्षिपति अतिक्षिपति ) "अभिप्रत्यतिभ्यः क्षिपः'' इति क्रियाफलस्य कर्तृगामित्वे ऽपि परस्मैपदम् इदञ्च शुद्धे कर्तरीति कर्मकर्तरि तङ् भवति (अभिक्षिप्यत इति ) (चिक्षेप चिक्षेपिथ चिक्षिपिव चिक्षिपे चिक्षिपिषे क्षेप्ता क्षेप्स्यति क्षेप्स्यते क्षिपतु क्षिपताम् अक्षिपत् अक्षिपत क्षिपेत् क्षिपेत क्षिप्यात् क्षिप्सीष्ट अक्षेप्सीत् अक्षेप्ताम् अक्षिप्त अक्षिप्साताम् ) "लिङ्सिचावात्मनेपदेषु'' इति कित्त्वान्न गुणः ( चिक्षिप्सति चिक्षिप्सते ) "हलन्ताच्च'' इति सनः कित्वम् ( चेक्षिप्यते चेक्षिपीति चेक्षेप्ति क्षेपयति अचिक्षिपत् ) कृतः क्षिप्यतिवदेव 5
कृदन्तरूपमाला
Sanskrit1 {@“क्षिप प्रेरणे”@} 2 3 अस्य धातोर्दिवादौ नव्यः पाठ इति क्षीरस्वामिमतम्।
तन्न समीचीनम्।
‘क्षिप्यति प्रेरणे, शे तु क्षिपति क्षिपते पदे।’ इति दैवे 4 उक्तम्।
प्रयोगश्च ‘द्वाविमावम्भसि क्षिप्य गले बद्ध्वा महाशिलाम्।
धनिनं चाप्रदातारं दरिद्रं चाप्रवासिनम्।।’ 5 इति प्रयोगात्।
तत्र क्षिप्य इति लोण्मध्यमपुरुषैकवचनम्--इति पुरुषकारे श्रीकृष्णलीलाशुकः।]] प्रेरणम् = निरसनम्--इति धातुकाव्यव्याख्याता।
‘क्षिप्यति प्रेरणे, शे तु क्षिपति क्षिपते पदे।।’ 6 इति देवः।
क्षेपकः-पिका, क्षेपकः-पिका, 7 चिक्षिप्सकः-प्सिका, चेक्षिपकः-पिका
क्षेप्ता-त्री, क्षेपयिता-त्री, चिक्षिप्सिता-त्री, चेक्षिपिता-त्री
8 क्षिप्यन्-न्ती, क्षेपयन्-न्ती, चिक्षिप्सन्-न्ती
-- क्षेप्स्यन्-न्ती-ती, क्षेपयिष्यन्-न्ती-ती, चिक्षिप्सिष्यन्-न्ती-ती
-- 9 व्यतिक्षिप्यमाणः, क्षेपयमाणः, -- चेक्षिप्यमाणः
-- क्षेपयिष्यमाणः, -- चेक्षिपिष्यमाणः
प्रक्षिप्-प्रक्षिपौ-प्रक्षिपः
-- -- क्षिप्तम्-तः 10 -तवान्, क्षेपितः, चिक्षिप्सितः, चेक्षिपितः-तवान्
क्षिपः 11, क्षिपका 12, 13 परिक्षेपी, 14 क्षिप्णुः 15, 16 परिक्षेपकः, क्षेपः, चिक्षिप्सुः, चेक्षिपः
17 क्षेप्तव्यम्, क्षेपयितव्यम्, चिक्षिप्सितव्यम्, चेक्षिपितव्यम्
क्षेपणीयम्, क्षेपणीयम्, चिक्षिप्सनीयम्, चेक्षिपणीयम्
क्षेप्यम्, क्षेप्यम्, चिक्षिप्स्यम्, चेक्षिप्यम्
ईषत्क्षेपः-दुःक्षेपः-सुक्षेपः
-- -- क्षिप्यमाणः, क्षेप्यमाणः, चिक्षिप्स्यमानः, चेक्षिप्यमाणः
क्षेपः-आक्षेपः-विक्षेपः-सुक्षेपः-सङ्क्षेपः-प्रक्षेपः, परिक्षेपः, क्षेपः, चिक्षिप्सः, चेक्षेपः
क्षेप्तुम्, क्षेपयितुम्, चिक्षिप्सितुम्, चेक्षिपितुम्
18 क्षिपा, क्षेपणा, चिक्षिप्सा, चेक्षिपा
क्षेपणम्, क्षेपणम्, चिक्षिप्सनम्, चेक्षिपणम्
क्षिप्त्वा, क्षेपयित्वा, चिक्षिप्सित्वा, चेक्षिपित्वा
19 सङ्क्षिप्य, परिक्षिप्य, परिक्षेप्य, परिचिक्षिप्स्य, परिचेक्षिप्य
20 भ्रूविक्षेपम् 21 22 क्षेपम् २, क्षिप्त्वा २, क्षेपम् २, क्षेपयित्वा २, चिक्षिप्सम् २, चिक्षिप्सित्वा २, चेक्षिपम् २, चेक्षिपित्वा २,
01 (३०६)
02 (४-दिवादिः-११२१। सक। अनि। पर।)
03 [[[अ]
04 (१३०)
05 (महाभारते उद्योगपर्वणि ३३-६०)
06 (श्लो। १३०)
07 [[१। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वान्न गुणः। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
08 [[२। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनो ङिद्वद्भावादङ्गस्य गुणो न। स्त्रियाम् ‘शप्श्यनोर्नित्यम्’ (७-१-८१) इति नित्यं नुम्।]]
09 [[३। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
10 [[आ। ‘वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्पशाखिनः। प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः।।’ भ। का। ९-२५।]]
11 [[४। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः प्रत्ययः।]]
12 [[५। क्षिपशब्दात् अज्ञाताद्यर्थे तद्धितप्रत्यये कनि सति, ‘क्षिपकादीनां च’ (वा। ७-३-४४) इति इत्त्वनिषेधे ‘क्षिपका’ इति भवति।]]
13 [[६। ‘सम्पृचानु--’ (३-२-१४२) इत्यादिना घिनुण् ताच्छीलिकः।]]
14 [[७। ‘त्रसिगृघिधृषिक्षिपेः क्नुः’ (३-२-१४०) इति क्नुः ताच्छीलिकः। केचित्तु ‘क्षुभ्नादिषु च’ (८-४-३९) इति णत्वं नेच्छन्ति।]]
15 [[B। ‘विद्यामथैनं विजयां जयां च रक्षोगणं क्षिप्नुमविक्षितात्मा। अध्यापिपद्गाधिसुतो यथावन्निघातयिष्यन् युधि यातुधानाम्।।’ भ। का। २-२१।]]
16 [[८। ‘निन्दहिंसक्लिशखाद--’ (३-२-१४६) इत्यादिना वुञ् ताच्छीलिकः।]]
17 [पृष्ठम्०३२२+ २९]
18 [[१। ‘भिदादि--’ (३-३-१०४) पाठात् अङ्। ‘अजाद्यतः--’ (४-१-४) इति स्त्रियां टाप्।]]
19 [[आ। ‘अनेकशो निर्जितराजकस्त्वं पितॄनतार्प्सीः नृपरक्ततोयैः। संक्षिप्य संरम्भमसद्विपक्षं काऽऽस्थाऽर्भकेऽस्मिंस्तव राम रामे।।’ भ। का। २-५२।]]
20 [[B। ‘अधीयन्नात्मविद्विद्यां धारयन् मस्करिव्रतम्। वदन् बह्वङ्गुलिस्फोटं भ्रूविक्षेपं विलोकयन्।।’ भ। का। ५-६३।]]
21 [[२। ‘स्वाङ्गेऽध्रुवे’ (३-४-५४) इति द्वितीयान्ते उपपदे णमुल्प्रत्ययो भवति।]]
22 [कथयति]
1 {@“क्षिप प्रेरणे”@} 2 ‘क्षिप्यति प्रेरणे, शे तु क्षिपति क्षिपते पदे।’ 3 इति देवः।
क्षेपकः-पिका, क्षेपकः-पिका, चिक्षिप्सकः-प्सिका, चेक्षिपकः-पिका, क्षेप्ता-त्री
4 क्षिपन् 5 -न्ती-ती, 6 अभिक्षिपन् 7 प्रतिक्षिपन्-अतिक्षिपन्-न्ती-ती
8 क्षिपमाणः, इत्यादीनि रूपाण्यस्येति विशेषः।
अन्यानि रूपाणि सर्वाण्यपि दैवादिकक्षिप्यतिवत् 9 ज्ञेयानि।
01 (३०७)
02 (६-तुदादिः-१२८५। सक। अनि। उभ।)
03 (श्लो। १३०)
04 [[३। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः विकरणप्रत्ययः। तस्य ङिद्वद्भावात् अङ्गस्य न गुणः। स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुमो वैकल्पिकत्वम्। तेन रूपद्वयम्।]]
05 [[C। ‘तुदन् कुचरिताञ् शुभे प्रणुदमान इष्टं दिशन् प्रभृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः।’ धा। का। २-७२।]]
06 [[ड्। ‘सुखाहरैर्वर्महरैः सगर्भ्यैः प्रलम्बमुख्यैश्च सहाश्रवैस्तैः। अभिक्षिपन् अक्षमकोऽर्चनार्हान् दृष्ट्वा स्वसुर्दीप्तिमखिन्त कंसः।।’ वा। वि। २-५९।]]
07 [[४। ‘अभिप्रत्यतिभ्यः क्षिपः’ (१-३-८०) इत्यनेन कर्तृगामिनि क्रियाफलेऽपि परस्मै- पदमेव। न शानच्। तेन शतरि रूपम्।]]
08 [पृष्ठम्०३२३+ २७]
09 (३०६)
1 {@“क्षिप प्रेरणे”@} 2 अदन्तः।
3 यद्यपि अयं धातुः क्षीरस्वामिनः, धातुवृत्तिकारस्य च म सम्मत इति प्रतिभाति
उभयोः ग्रन्थयोः अपाठात्।
तथापि, बालमनोरमाकारसम्मत- पाठमनुसृत्य अस्य रूपाणि प्रदर्शितानि।]] अस्य धातोरनेकाच्त्वात् यङ् न।
4 क्षिपकः-पिका, चिक्षिपयिषकः-षिका
क्षिपयिता-त्री, चिक्षिपयिषिता-त्री
क्षिपयन्-न्ती, चिक्षिपयिषन्-न्ती
क्षिपयिष्यन्-न्ती-ती, चिक्षिपयिषिष्यन्-न्ती-ती
क्षिपयमाणः, चिक्षिपयिषमाणः
क्षिपयिष्यमाणः, चिक्षिपयिषिष्यमाणः
क्षिप्-क्षिपौ-क्षिपः
-- 5 क्षिपितम्-तः-तवान्, चिक्षिपयिषितः-तवान्
क्षिपः, चिक्षिपयिषुः
क्षिपयितव्यम्, चिक्षिपयिषितव्यम्
क्षिपणीयम्, चिक्षिपयिषणीयम्
क्षिप्यम्, चिक्षिपयिष्यम्
ईषत्क्षिपः-दुःक्षिपः-सुक्षिपः
-- क्षिप्यमाणः, चिक्षिपयिष्यमाणः
क्षिपः, चिक्षिपयिषः
क्षिपयितुम्, चिक्षिपयिषितुम्
क्षिपणा, चिक्षिपयिषा
क्षिपणम्, चिक्षिपयिषणम्
क्षिपयित्वा, चिक्षिपयिषित्वा
6 परिक्षिपय्य, परिचिक्षिपयिष्य
7 क्षिपम् २, क्षिपयित्वा २, चिक्षिपयिषम् २
चिक्षिपयिषित्वा २।
01 (३०८)
02 (१०-चुरादिः-१९४१। सक। सेट्। उभ)
03 [[[अ]
04 [[१। धातोरदन्तत्वेन अल्लोपस्य स्थानिवत्त्वात् उपधागुणो न।]]
05 [[२। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः।]]
06 [[३। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
07 [पृष्ठम्०३२४+ २५]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
