| YouTube Channel

क्षारतैल (kSArataila)

 
Monier Williams Cologne
English
क्षार—तैल
n.
oil cooked with alkaline ingredients,
GāruḍaP.
शब्दकल्पद्रुमः
Sanskrit
क्षारतैलं,
क्ली,
(क्षारयुतं क्षाराख्यं वा तैलम् ।) पक्व-तैलविशेषः यथा, --“शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम्
सौवर्च्चलं यवक्षारं सामुद्र सैन्धवन्तथा ।भुजग्रन्थि विडं मुस्तं मधु शुक्लं चतुर्गुणम्
मातुलुङ्गरसञ्चैव कदलीरसमेव ।तैलमेभिर्व्विपक्तव्यं कर्णशूलापहं परम्
बाधिर्य्यं कर्णनादश्च पूयस्रावश्च दारुणः ।पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम्”
इति गरुडे १९८ अध्यायः
वाचस्पत्यम्
Sanskrit
क्षारतैल
न०
चक्र० उक्ते कर्णशूलनिवारके पक्वतैलभेदे यथा“बालमूलकशुण्ठीनां क्षारी हिङ्गु सनागरम् शतपु-ष्पवचामुष्कं दारुशिग्रुरसाञ्जनम् सौवर्च्चलं यवक्षारःसर्जिकोद्भिदसैन्धवम् भूर्जग्रन्थिविडं मुस्तं मधुशुक्तंचतुर्गुणम् मातुलुङ्गरसश्चैव कदल्या रस एव ।तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् बाधिर्य्यं कर्ण-नादश्च पूयस्रावश्च दारुणः पूरणादस्य तैलस्य क्रिमयःकर्णमंश्रिताः क्षिपं विनाशं गच्छन्ति कृष्णात्रेयस्यशासनात् क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ।मधुप्रधानं शुक्तन्तु मधुशुक्तं तथोषरम् जम्बीरस्य फल-रसं पिप्पलीमूलसंयुतम् मधुभाण्डे विनिक्षिप्य धान्य-राशौ निधापयेत् मासेन तज्जातरसं मधुशुक्तमुदाहृ-तम्” गारुडे १९८० अ० इत्थमेव तत्रोक्ते निर्लोमता-दिसाधने तैलभेदे यथा“शुक्तिशम्बू कशङ्खानां दीर्घवृन्तात् समुस्ककात् दग्ध्वाक्षारं समादाय खरमूत्रेण गालयेत् क्षाराष्टभागं वि-प्रचेत् तैलञ्च सार्षपं बुधः इदमन्तःपुरे देयं तैलमात्रे-षु पूजितम् विन्दुरेकः पतेद्यत्र तत्र रोमापुनर्भवः ।मदनादिव्रणे देयमश्विभ्याञ्च विनिर्म्मितम् अर्शसां कुष्ठ-रोगाणां पामादद्रुविचर्च्चिकाम् क्षारतैलमिदं श्रेष्ठंसर्वक्लेदहरं परम् ।”