| YouTube Channel

क्षायम् (kSAyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्षि क्षये”@} 2 ‘क्षये क्षयति, हिंसायां क्षिणातीति षितो भवेत्।।
निवासगत्योः क्षियति, क्षिणोत्यावगुणे क्षिणोः।’ 3 इति देवः।
‘औ = उविकरणे अगुणे = ‘संज्ञापूर्वको विधिरनित्यः’ 4 इति गुणाभावे सति, ‘क्षणु हिंसायाम्, क्षिणु च’ इति मैत्रेयरक्षिता- द्युक्तस्य धातोः क्षिणोतीति भवति।’ इति पुरुषकारे कृष्णलीलाशुकमुनिः।
5 6 क्षायकः-यिका, 7 क्षायकः-यिका, 8 चिक्षीषकः-षिका, 9 चेक्षीयकः-यिका
10 क्षेता-त्री, क्षाययिता-त्री, चिक्षीषिता-त्री, चेक्षीयिता-त्री
11 क्षयन्-न्ती, क्षाययन्-न्ती, चिक्षीषन्-न्ती
-- क्षेष्यन्-न्ती-ती, क्षाययिष्यन्-न्ती-ती, चिक्षीषिष्यन्-न्ती-ती
-- -- क्षाययमाणः, क्षाययिष्यमाणः, -- चेक्षीयमाणः, चेक्षीयिष्यमाणः
12 प्रक्षित्-प्रक्षितौ-प्रक्षितः, 13 महीक्षित्
-- -- 14 क्षितम्-क्षितः-क्षितवान्, 15 क्षीणः- 16 क्षीणवान्, 17 प्रक्षीणः-आक्षीणः
परिक्षीणः, 18 क्षितायुः-क्षीणायुः 19, क्षीणः क्षितो वा 20, क्षायितम्-तः, चिक्षीषितः, चेक्षीयितः-तवान्
21 22 क्षयः, 23 क्षयी, 24 क्षयिष्णुः, क्षायः, चिक्षीषुः, 25 चेक्षियः
क्षेतव्यम्, क्षाययितव्यम्, चिक्षीषितव्यम्, चेक्षीयितव्यम्
क्षयणीयम्, क्षायणीयम्, चिक्षीषणीयम्, चेक्षीयणीयम्
26 क्षय्यम्-क्षेयम्, क्षाय्यम्, चिक्षीष्यम्, चेक्षीय्यम्
ईषत्क्षयः-दुःक्षयः-सुक्षयः
-- -- -- 27 क्षीयमाणः, क्षाय्यमाणः, चिक्षीष्यमाणः, चेक्षीय्यमाणः
क्षयः, क्षायः, चिक्षीषः, चेक्षीयः
क्षेतुम्, क्षाययितुम्, चिक्षीषितुम्, चेक्षीयितुम्
28 क्षिया, क्षायणा, चिक्षीषा, चेक्षीया
क्षयणम्, क्षायणम्, चिक्षीषणम्, चेक्षीयणम्
क्षित्वा, क्षाययित्वा, चिक्षीषित्वा, चेक्षीयित्वा
29 प्रक्षीय, प्रक्षाय्य, प्रचिक्षीष्य, प्रचेक्षीय्य
क्षायम् २, क्षित्वा २, क्षायम् २, क्षाययित्वा २, चिक्षीषम् २, चिक्षीषित्वा २, चेक्षीयम्
चेक्षीयित्वा।
प्रासङ्गिक्यः
01
=>
(३०२)
02
=>
(१-भ्वादिः-२३६। अक। अनि। पर।)
03
=>
(श्लो। १२-१३)
04
=>
(परिभाषा-९५)
05
=>
[पृष्ठम्०३१६+ २४]
06
=>
[[१। ‘अचो ञ्णिति’ (७-२-११५) इतीकारस्य वृद्धौ, आयादेशः।]]
07
=>
[[२। ण्यन्ताण्ण्वुलि णिनिमित्तकवृद्धौ सत्यां, ‘णेरनिटि’ (६-४-५१) इति णिलोपे आयादेशे रूपम्। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
08
=>
[[३। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। तेन गुणो न। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
09
=>
[[४। यङन्तात्, ‘अकृतत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणः।]]
10
=>
[[५। अस्य धातोरनुदात्तत्वादिडागमो भवति। एवं स्यादिप्रत्ययेष्वपि बोध्यम्।]]
11
=>
[[६। ‘कर्तरि शप्’ (३-१-६८) इति शप्प्रत्यये गुणायादेशौ भवतः।]]
12
=>
[[७। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्।]]
13
=>
[[८। क्षीरस्वामी भ्वादावेवान्यत्र ‘क्षि ऐश्वर्ये’ इति पठति। तन्मते मह्यां क्षयति = ईष्टे इति महीक्षित् = राजा इति शब्दनिष्पत्तिर्ज्ञेया।]]
14
=>
[[९। ‘निष्ठायामण्यदर्थे’ (६-४-६०) इत्यत्र ‘अण्यदर्थे’ इत्युक्तत्वात् भावकर्मवाचिनि निष्ठाप्रत्यये दीर्घो भवति।]]
15
=>
[[१०। कर्तरि निष्ठायाम्, ‘निष्ठायामण्यदर्थे’ (६-४-६०) इति दीर्घे, ‘क्षियो दीर्घात्’ (८-२-४६) इति निष्ठानत्वे, ‘अट्कुप्वाङ्नुम्--’ (८-४-२) इति णत्वे रूपम्।]]
16
=>
[[आ। ‘विस्फूर्जदक्षीणघनाघनोपमक्षीजा लजन्तस्त्रिदशानलाञ्जितान्। लाजादिहोतृष्वपि लञ्जनप्रदा यस्मिन् विनेशुर्जजनेषु दानवाः।।’ धा। का। १-३२।]]
17
=>
[[११। ‘आदिकर्मणि क्तः कर्तरि च’ (३-४-७१) इति कर्तरि क्तः।]]
18
=>
[[१२। ‘वाऽऽक्रोशदैन्ययोः’ (६-४-६१) इति दीर्घविकल्पः। दीर्घपक्षे निष्ठानत्वम्। दीर्घाभावे निष्ठानत्वाभावः।]]
19
=>
[वा भव]
20
=>
[तपस्वी]
21
=>
[पृष्ठम्०३१७+ २४]
22
=>
[[आ। ‘भयसंहृष्टरोमाणः ततस्तेऽपचितद्विषः। क्षणेन क्षीणविकान्ताः कपिनाऽनेषत क्षयम्।।’ भ। का। ९-२२।]]
23
=>
[[१। ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इत्यादिना तच्छीलादिषु कर्तृषु इनिः।]]
24
=>
[[२। ‘भुवश्च’ (३-२-१३८) इत्यत्र, अनुक्तसमुच्चयार्थकचकारेणास्यापि इष्णुच् ताच्छीलिकः।]]
25
=>
[[३। यङन्तात् पचाद्यचि (३-१-१३४), ‘यङोऽचि च’ (२-४-७४) इति लुकि, इकारस्य संयोगपूर्वकत्वात् ‘अचि श्नुधातु--’ (६-४-७७) इत्यनेन इयङ्।]]
26
=>
[[४। ‘क्षय्यजय्यौ शक्यार्थे’ (६-१-८१) इत्यनेन यति अयादेशो निपात्यते। शक्या- र्थादन्यत्र यति, गुणे क्षेयम् इत्येव। क्षेयम् = पापम्।]]
27
=>
[[५। यकि, ‘अकृत्सार्वधातुकयोः’ (७-४-२५) इति दीर्घः।]]
28
=>
[[६। भिदादिपाठात् ‘षिद् भिदादिभ्यः--’ (३-३-१०४) इत्यङ्। इयङादेशः।]]
29
=>
[[७। ‘क्षियः’ (६-४-५९) इति ल्यपि दीर्घः।]]
1 {@“क्षै क्षये”@} 2 3 क्षायकः-यिका, क्षापकः- 4 क्षपकः-पिका, चिक्षासकः-सिका, चाक्षायकः-यिका
क्षाता-त्री, क्षपयिता-त्री, चिक्षासिता-त्री, चाक्षायिता-त्री
5 क्षायन्-न्ती, क्षपयन्-न्ती, चिक्षासन्-न्ती
-- क्षास्यन्-न्ती-ती, क्षपयिष्यन्-न्ती-ती, चिक्षासिष्यन्-न्ती-ती
-- -- क्षपयमाणः, -- चाक्षायमाणः
-- क्षपयिष्यमाणः, -- चाक्षायिष्यमाणः
विक्षाः-विक्षौ-विक्षाः
-- -- -- 6 क्षामम्-क्षामः-क्षामवान्, क्षपितः, चिक्षासितः, चाक्षायितः-तवान्
7 प्रक्षः, 8 क्षायः, क्षपः- 9 क्षपा, चिक्षासुः, चाक्षाः
क्षातव्यम्, क्षपयितव्यम्, चिक्षासितव्यम्, चाक्षायितव्यम्
क्षाणीयम्, क्षपणीयम्, चिक्षासनीयम्, चाक्षायणीयम्
10 क्षेयम्, क्षप्यम्, चिक्षास्यम्, चाक्षाय्यम्
11 ईषत्क्षाणः-दुःक्षाणः-सुक्षाणः
-- -- 12 क्षायमाणः, क्षप्यमाणः, चिक्षास्यमानः, चाक्षाय्यमाणः
क्षायः, क्षपः, चिक्षासः, चाक्षायः
क्षातुम्, क्षपयितुम्, चिक्षासितुम्, चाक्षायितुम्
क्षातिः, 13 प्रक्षा, क्षपणा, चिक्षासा, चाक्षाया
क्षाणम्, क्षपणम्, चिक्षासनम्, चाक्षायणम्
क्षात्वा, क्षपयित्वा, चिक्षासित्वा, चाक्षायित्वा
प्रक्षाय, 14 प्रक्षपय्य, प्रचिक्षास्य, प्रचाक्षाय्य
क्षायम् २, क्षात्वा २, 15 क्षपम् -क्षापम् २, क्षपयित्वा २, चिक्षासम् २, चिक्षासित्वा २, चाक्षायम्
चाक्षायित्वा २।
प्रासङ्गिक्यः
01
=>
(३२१)
02
=>
(१-भ्वादिः-९१३। अक। अनि। पर।)
03
=>
[[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यात्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युक्। एवं घञि, णमुलि ज्ञेयम्।]]
04
=>
[[२। ण्यन्तस्य ‘क्षै’ धातोः भोजमते घटादिषु पाठः। तदानीम् ‘अतिंह्रीव्लीरीक्नूयी- क्ष्माय्यातां पुग् णौ’ (७-३-३६) इति पुकि, घटादित्वेन मित्त्वात्, ‘मितां ह्रस्वः’ (६-४-९२) इत्युपधाया ह्रस्वः। अन्येषां मते घटादिपाठाभावात् क्षापकः- क्षापिका इत्यादीनि रूपाणि यथायथमूह्यानि।]]
05
=>
[[३। शपि, ‘एचोऽयवायावः’ (६-१-७८) इत्यायादेशे रूपम्।]]
06
=>
[[४। ‘क्षायो मः’ (८-२-५३) इति निष्ठातकारस्य मकारः।]]
07
=>
[[५। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कः प्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
08
=>
[[६। ‘श्याऽऽद्व्यधाश्रु--’ (३-१-१४१) इत्यादिना कर्तरि वा णः प्रत्ययः। युगागमः।]]
09
=>
[[७। ण्यन्तात् पचाद्यचि टाप्। क्षपयति = वारयति इन्द्रियाणां चेष्टामिति क्षपा = रात्रिः। ‘राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वनाः। आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्।।’ (महाभारते-आरण्यपर्वणि १-४३) इति शब्दकल्पद्रुमे।]]
10
=>
[[८। यत्प्रत्यये, ‘ईद् यति’ (६-४-६५) इत्याकारस्य ईकारे गुणे रूपम्।]]
11
=>
[[९। ईषदाद्युपपदेषु ‘आतो युच्’ (३-३-१२८) इति खलपवादो युच्।]]
12
=>
[पृष्ठम्०३३५+ २५]
13
=>
[[१। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियामङ्।]]
14
=>
[[२। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
15
=>
[[३। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ उपधाया दीर्घ- विकल्पः।]]