| YouTube Channel

क्षाणम् (kSANam)

 
Apte
English
क्षाणम् [kṣāṇam], Burning, what is burnt
निमित्तं हि उपसंप्राप्तं क्षाणं नाम ŚB. on MS.* 6.4.18
एकदेशक्षाणमपि क्षाणमेव ŚB. on MS.* 6.4.18.
Apte Hindi
Hindi
क्षाणम्
नपुं*
- -
"जलना, जला हुआ स्थान"
कृदन्तरूपमाला
Sanskrit
1 {@“क्षणु हिंसायाम्”@} 2 क्षाणकः-णिका, क्षाणकः-णिका, चिक्षणिषकः-षिका, 3 चङ्क्षणकः-णिका
क्षणिता-त्री, क्षाणयिता-त्री, चिक्षणिषिता-त्री, चङ्क्षणिता-त्री
4 क्षण्वन्- 5 ती, क्षाणयन्-न्ती, चिक्षणिषन्-न्ती
-- क्षणिष्यन्-न्ती-ती, क्षाणयिष्यन्-न्ती-ती, चिक्षणिषिष्यन्-न्ती-ती
-- क्षण्वानः, क्षाणयमानः, चिक्षणिषमाणः, चङ्क्षण्यमानः
क्षणिष्यमाणः, क्षाणयिष्यमाणः, चिक्षणिषिष्यमाणः, चङ्क्षणिष्यमाणः
6 क्षत्-क्षतौ-क्षतः
-- -- -- 7 क्षतम्-तः, क्षाणितः, चिक्षणिषितः, चङ्क्षणितः-तवान्
क्षणः, क्षाणः, चिक्षणिषुः, चङ्क्षणः
8 क्षणितव्यम्, क्षाणयितव्यम्, चिक्षणिषितव्यम्, चङ्क्षणितव्यम्
क्षणनीयम्, क्षाणनीयम्, चिक्षणिषणीयम्, चङ्क्षणनीयम्
क्षाण्यम्, क्षाण्यम्, चिक्षणिष्यम्, चङ्क्षण्यम्
ईषत्क्षणः-दुःक्षणः-सुक्षणः
-- -- क्षण्यमानः, क्षाण्यमानः, चिक्षणिष्यमाणः, चङ्क्षण्यमानः
क्षाणः, क्षाणः, चिक्षणिषः, चङ्क्षणः
क्षणितुम्, क्षाणयितुम्, चिक्षणिषितुम्, चङ्क्षणितुम्
क्षतिः, 9 क्षन्तिः, क्षाणना, चिक्षणिषा, चङ्क्षणा
क्षणनम्, क्षाणनम्, चिक्षणिषणम्, चङ्क्षणनम्
10 क्षणित्वा-क्षत्वा, क्षाणयित्वा, चिक्षणिषित्वा, चङ्क्षणित्वा
11 प्रक्षत्य, प्रक्षाण्य, प्रचिक्षणिष्य, प्रचङ्क्षण्य
क्षाणम् २, क्षणित्वा-क्षत्वा २, क्षाणम् २, क्षाणयित्वा २, चिक्षणिषम् २, चिक्षणिषित्वा २, चङ्क्षणम्
चङ्क्षणित्वा २।
प्रासङ्गिक्यः
01
=>
(२९६)
02
=>
(८-तनादिः-१४६५। सक। सेट्। उभ।)
03
=>
[[३। ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इत्यभ्यासस्य नुक्।]]
04
=>
[[४। ‘तनादिकृञ्भ्य उः’ (३-१-७९) इति उः विकरणप्रत्ययः। यण्।]]
05
=>
[[आ। ‘तन्वन् मञ्चभुवि सातरसः स्वबन्धून् अक्षण्वतां क्षितिकरः मुदमर्णुवानः।’ धा। का। ३-४।]]
06
=>
[[५। “‘गमः क्वौ’ (६-४-४०) इत्यत्र ‘गमादीनामिति वक्तव्यम्’ इति उपसंख्यानात् अनुनासिकलोपः तुक्।” इति ‘क्षतात् किल त्रायत’ इति (रघुवंशे २-५३) श्लोकव्याख्यायां मल्लिनाथः।]]
07
=>
[[६। ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इत्यनुनासिकलोपः।]]
08
=>
[पृष्ठम्०३०९+ २५]
09
=>
[[१। ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति दीर्घोऽनुनासिकलोपश्च निषिध्यते। क्तिजन्तोऽ- यम्। उपदेशे नान्तोऽयं धातुः। लक्षणवशाण्णकार इति धातुवृत्त्यादौ व्यक्तम्। अनुस्वारे ‘अनुस्वारस्य ययि परसवर्णः’ (८-४-५८) इति परसवर्णः।]]
10
=>
[[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिङ्विकल्पः। इडभावपक्षेऽनुनासिकलोपः।]]
11
=>
[[३। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणात् नकारस्य नित्यमनुनासिक- लोपः। अनन्तरं तुक्।]]
1 {@“क्षै क्षये”@} 2 3 क्षायकः-यिका, क्षापकः- 4 क्षपकः-पिका, चिक्षासकः-सिका, चाक्षायकः-यिका
क्षाता-त्री, क्षपयिता-त्री, चिक्षासिता-त्री, चाक्षायिता-त्री
5 क्षायन्-न्ती, क्षपयन्-न्ती, चिक्षासन्-न्ती
-- क्षास्यन्-न्ती-ती, क्षपयिष्यन्-न्ती-ती, चिक्षासिष्यन्-न्ती-ती
-- -- क्षपयमाणः, -- चाक्षायमाणः
-- क्षपयिष्यमाणः, -- चाक्षायिष्यमाणः
विक्षाः-विक्षौ-विक्षाः
-- -- -- 6 क्षामम्-क्षामः-क्षामवान्, क्षपितः, चिक्षासितः, चाक्षायितः-तवान्
7 प्रक्षः, 8 क्षायः, क्षपः- 9 क्षपा, चिक्षासुः, चाक्षाः
क्षातव्यम्, क्षपयितव्यम्, चिक्षासितव्यम्, चाक्षायितव्यम्
क्षाणीयम्, क्षपणीयम्, चिक्षासनीयम्, चाक्षायणीयम्
10 क्षेयम्, क्षप्यम्, चिक्षास्यम्, चाक्षाय्यम्
11 ईषत्क्षाणः-दुःक्षाणः-सुक्षाणः
-- -- 12 क्षायमाणः, क्षप्यमाणः, चिक्षास्यमानः, चाक्षाय्यमाणः
क्षायः, क्षपः, चिक्षासः, चाक्षायः
क्षातुम्, क्षपयितुम्, चिक्षासितुम्, चाक्षायितुम्
क्षातिः, 13 प्रक्षा, क्षपणा, चिक्षासा, चाक्षाया
क्षाणम्, क्षपणम्, चिक्षासनम्, चाक्षायणम्
क्षात्वा, क्षपयित्वा, चिक्षासित्वा, चाक्षायित्वा
प्रक्षाय, 14 प्रक्षपय्य, प्रचिक्षास्य, प्रचाक्षाय्य
क्षायम् २, क्षात्वा २, 15 क्षपम् -क्षापम् २, क्षपयित्वा २, चिक्षासम् २, चिक्षासित्वा २, चाक्षायम्
चाक्षायित्वा २।
प्रासङ्गिक्यः
01
=>
(३२१)
02
=>
(१-भ्वादिः-९१३। अक। अनि। पर।)
03
=>
[[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यात्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युक्। एवं घञि, णमुलि ज्ञेयम्।]]
04
=>
[[२। ण्यन्तस्य ‘क्षै’ धातोः भोजमते घटादिषु पाठः। तदानीम् ‘अतिंह्रीव्लीरीक्नूयी- क्ष्माय्यातां पुग् णौ’ (७-३-३६) इति पुकि, घटादित्वेन मित्त्वात्, ‘मितां ह्रस्वः’ (६-४-९२) इत्युपधाया ह्रस्वः। अन्येषां मते घटादिपाठाभावात् क्षापकः- क्षापिका इत्यादीनि रूपाणि यथायथमूह्यानि।]]
05
=>
[[३। शपि, ‘एचोऽयवायावः’ (६-१-७८) इत्यायादेशे रूपम्।]]
06
=>
[[४। ‘क्षायो मः’ (८-२-५३) इति निष्ठातकारस्य मकारः।]]
07
=>
[[५। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कः प्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
08
=>
[[६। ‘श्याऽऽद्व्यधाश्रु--’ (३-१-१४१) इत्यादिना कर्तरि वा णः प्रत्ययः। युगागमः।]]
09
=>
[[७। ण्यन्तात् पचाद्यचि टाप्। क्षपयति = वारयति इन्द्रियाणां चेष्टामिति क्षपा = रात्रिः। ‘राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वनाः। आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्।।’ (महाभारते-आरण्यपर्वणि १-४३) इति शब्दकल्पद्रुमे।]]
10
=>
[[८। यत्प्रत्यये, ‘ईद् यति’ (६-४-६५) इत्याकारस्य ईकारे गुणे रूपम्।]]
11
=>
[[९। ईषदाद्युपपदेषु ‘आतो युच्’ (३-३-१२८) इति खलपवादो युच्।]]
12
=>
[पृष्ठम्०३३५+ २५]
13
=>
[[१। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियामङ्।]]
14
=>
[[२। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
15
=>
[[३। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ उपधाया दीर्घ- विकल्पः।]]