| YouTube Channel

क्षल (kSala)

 
शब्दसागरः
English
क्षल r. 1st cl. (क्षलति)
1. To shake.
2. To move, (some consider this as
interchangeable with क्षर.) r. 10th cl. (क्षालयति) To purify, to clean-
se or make clean.
Wilson
English
क्षल r. 1st cl. (क्षलति)
1 To shake.
2 To move, (some consider this as interchangeable with क्षर.) r. 10th cl.
(क्षलयति) To purify, to cleanse or make clean.
Shabdartha Kaustubha
Kannada
क्षल - शौचकर्मणि (चुरा० उभ० सक० से०) क्षालयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ತೊಳೆ /ಶುದ್ಧಿಮಾಡು
प्रयोगाः - > "क्षलयामि तव पादपङ्कजं नाथ दारुदृषदोः किमन्तरम्"
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्षल्
मूलधातुः:
क्षल
धात्वर्थः:
शौचकर्मणि
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
क्षालयति-ते
धातुप्रदीपः
Sanskrit
क्षलँ क्षल शौचकर्मणि
- क्षालयति वस्त्रम् प्रक्षालयाञ्चकार क्षालः अवक्षालः 65
शब्दकल्पद्रुमः
Sanskrit
क्षल, शौचे इति कविकल्पद्रुमः (चुरां-परं-सकं-सेट् ।) शौचमिह शुद्धीकरणम् क, क्षाल-यति पात्रं पयसा लोकः इति दुर्गादासः
क्षल, चाले चये इति कविकल्पद्रुमः (भ्वां-परंअकं-सेट् ।) ज, क्षालः क्षलः चालः कम्पः ।चयश्चयनम् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
क्षल शोधने वा
चु०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् क्षाल-यति ते क्षलति अचिक्षलत् अक्षालीत् क्षालयाम्बभूव आस चकार चक्रे चक्षाल ज्वला० क्षलः क्षालः ।“ऋते रवेः क्षालयितुं क्षमेत कः” माघः “क्षालितमपि हृदयं मलिनं शोकोर्म्मिभीः क्रियते” प्रबो० ।क्षालयन्नपि वृक्षाङ्घ्रीन्नदीवेनो निकृन्तति” हितो० ।भ्वादिस्तु चाले चयने कवि० इति भेदः प्राद्युपर्गपूर्व्वस्तत्तदुपसर्गद्योत्यार्थयुक्तशोधने “गात्राणि वाससीचैव प्रक्षाल्य सलिलेन सा” भा० वि० १७ अ० “सुखंप्रक्षालयेत्ततः” स्मृतिः
क्षीरतरङ्गिणी
Sanskrit
क्षलँ क्षल सञ्चये
- सञ्चलने क्षलति चुरादौ क्षल शौचे (तु0 1052) क्षालयति 822
क्षलँ क्षल शौचकर्मणि
- क्षालयति 60
धातुवृत्तिः
Sanskrit
क्षलँ क्षल (अर्थः) शौचकर्मणि
( क्षालयति अचक्षलत् ) 63
कृदन्तरूपमाला
Sanskrit
1 {@“क्षल शौचकर्मणि”@} 2 3 ‘क्षल सञ्चलने--सञ्चये च’ -- इति क्षीरस्वामी भ्वादावपि पठति।
अन्ये तु क्षरतेर्भौवादिकस्य पाठमेदः क्षलधातुः इति वदन्ति।]] क्षालकः-लिका, चिक्षालयिषकः-षिका
4 क्षालयिता-त्री, चिक्षालयिषिता-त्री
क्षालयन्-न्ती, चिक्षालयिषन्-न्ती
क्षालयिष्यन्-न्ती-ती, चिक्षालयिषिष्यन्-न्ती-ती
क्षालयमानः, चिक्षालयिषमाणः
5 क्षालयिष्यमाणः, चिक्षालयिषिष्यमाणः
प्रक्षाल्-प्रक्षालौ-प्रक्षालः
-- 6 क्षालितम्-तः-तवान्, चिक्षालयिषितः-तवान्
क्षालः, चिक्षालयिषुः
क्षालयितव्यम्, चिक्षालयिषितव्यम्
7 क्षालनीयम्, चिक्षालयिषणीयम्
क्षाल्यम्, चिक्षालयिष्यम्
ईषत्क्षालः-दुःक्षालः-सुक्षालः
-- क्षाल्यमानः, चिक्षालयिष्यमाणः
क्षालः, चिक्षालयिषः
क्षालयितुम्, चिक्षालयिषितुम्
8 क्षालना, चिक्षालयिषा
9 प्रक्षालनम्, चिक्षालयिषणम्
क्षालयित्वा, चिक्षालयिषित्वा
प्रक्षाल्य, प्रचिक्षालयिष्य
क्षालम् २, क्षालयित्वा २, चिक्षालयिषम्
चिक्षालयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(३०१)
02
=>
(१०-चुरादिः-१५९७। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
[[६। ण्यन्तस्य धातोरनेकाच्त्वात् ‘धातोरेकाचो हलादेः--’ (३-१-२२) इति यङ् न।]]
05
=>
[पृष्ठम्०३१५+ २३]
06
=>
[[आ। ‘दुर्दान्तचक् पशुपचुक्कनमप्यरौत्सीत् प्रक्षालितक्षितितलातुलवर्षरोधी। सन्दोलयन्नधिकपोलितमद्रिराजं सञ्चोलितं सुबहुमूलितशाखिबृन्दैः।।’ धा। का। ३-२१।]]
07
=>
[[१। ‘णेरनिटि’ (६-४-५१) इति णिलोपः।]]
08
=>
[[२। ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति युच्। तस्य अनादेशः। स्त्रियां टाप्।]]
09
=>
[[B। ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्।’ इति स्मृतिः।]]