| YouTube Channel

क्षतव्रत (kSatavrata)

 
शब्दसागरः
English
क्षतव्रत
mfn.
(-तः-ता-तं) A violator of a vow or religious engagement.
E.
क्षत broken. and व्रत a religious obligation.
Yates
English
क्षत-व्रत (तः-ता-तं)
a. A violator of
a vow or religious engagement.
Spoken Sanskrit
English
क्षतव्रत kSatavrata
adj.
one who has violated a vow or religious engagement
Wilson
English
क्षतव्रत
mfn.
(-तः-ता-तं) A violator of a vow or religious
engagement.
E.
क्षत broken, and व्रत a religious obligation.
Monier Williams Cologne
English
क्षत—व्रत
mfn.
one who has violated a vow or religious engagement,
L.
Apte Hindi
Hindi
क्षतव्रतः
पुं*
क्षत-व्रतः -
वह विद्यार्थी जिसने अपनी धार्मिक प्रतिज्ञा या व्रत भंग कर दिया हो
Shabdartha Kaustubha
Kannada
क्षतव्रत
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಅವಕೀರ್ಣಿ /ವ್ರತವನ್ನು ಭಂಗ ಪಡಿಸಿಕೊಂಡವನು
व्युत्पत्तिः - > क्षतं व्रतं यस्य
L R Vaidya
English
kzata-vrata {% m. %} a religious student who has violated his vow.
अभिधानचिन्तामणिः
Sanskrit
--source--
क्षतव्रतोऽवकीर्णी स्याद्व्रात्यः संस्कारवर्जितः ८५४
-wordlist-
क्षतव्रत (पुं), अवकीर्णिन् (पुं), व्रात्य (पुं), संस्कारवर्जित (पुं)
अभिधानरत्नमाला
Sanskrit
अवकीर्णिन्
अवकीर्णिन्, क्षतव्रत
व्रात्यः संस्कारहीनः स्यादवकीर्णी क्षतव्रतः
verse 2.1.1.404
page 0047
शब्दकल्पद्रुमः
Sanskrit
क्षतव्रतः, त्रि, (क्षतं भ्रष्ठं व्रतमस्य ।) ध्वस्तनियमः ।तत्पर्य्यायः अवकीर्णी इत्यमरः ५४
तथा याज्ञवल्क्यः ।“अवकीर्णी भवेद्गत्वा ब्रह्मचारी तु योषितम् ।गर्द्दभं पशुमालभ्य नैरृतं विशुद्ध्यति”
इति प्रायश्चित्ततत्वम्
वाचस्पत्यम्
Sanskrit
क्षतव्रत
पु०
क्षतं ब्रतमस्य गृहीतव्रतत्यागिनि अवकी-र्णिनि अमरः तत्प्रायश्चित्तमाह प्रायचित्तविवेके“अथावकीर्ण्णिप्रायश्चित्तम् “अथावकीर्णी मैथुनेन क्षत-व्रतः यथाह याज्ञवल्क्यः “अवकीर्णी भवेद्गरुता ब्रह्म-चारी तु योगितमिति” प्रायश्चित्तमाहाङ्गिराः “अवकी-र्णनिमित्तञ्च ब्रह्महत्याव्रतञ्चरेत् स्वरचर्म्मवासाः षण्-मासांस्तथा मुच्येत किल्विषात्” अवकीईर्ण्णमवकीर्ण्णता-भावे क्तः अत्र सार्द्धसप्तधेन्वः इदं प्रमादसम्पन्नेएतद्विषय एव याज्ञवल्क्यः “अवकीर्ण्णी भवेद्गात्वा ब्रह्मचा-री तु योषितम् गर्द्धभं पशुमालभ्य नैरृतं विशु-द्ध्यति” प्रयत्नात् स्त्रियमुत्साह्य प्रवृत्ते तु मनुः “एतस्मिन्नेव संप्राप्ते वसित्वा गर्द्दभाजिनम् सप्ताहानाचरे-द्भैक्ष्यं स्वकर्म्म परिकीर्त्तयन् तेभ्यो लब्धन भैक्ष्येणवर्त्तयन्नैककालिकम् उपस्पृशंस्त्रिषवणम्वदेन वि-शुद्ध्यति” एतद्विषयएवाभ्यासे शातातपः “अथातो--”वकीर्ण्णिप्रायश्चित्तं व्याख्यास्यामः “ब्रहचारी यद्यव-कीर्य्येत चतुर्थकालमब्दं भैक्ष्यं चरेदेवंपूतोभवतीति-तथा पैठीनसिरपि “अवकीर्ण्णी गर्द्धभाजिनं वसेत्संवत्सरं प्राजापत्यं चरेत्” शङ्खलिखिताभ्यान्तु विक-ल्प एवोक्तः तद्यथा “सप्तरात्रेणावकीर्य्येत भैक्षाग्नि-कार्य्येकुर्व्वन् सद्यः कामादुतसर्गे रेतसोऽन्यत्र स्वप्नात् तत्रप्रायश्चित्तं महाव्याहृतिभिर्जुहुयात् ओङ्ककारपूर्व्विकाभिःसंवत्सरं वा नक्तं भैक्षञ्चरेत् चतुर्थकाले मितभुग्गायत्रींतरत्समानुगाञ्जपेदिति” गायत्रीमपि संवत्सरं ज-पेदित्यर्थः महाव्याहृतिहोमश्च लघुत्वादातिदेशिकाव-कीर्ण्णित्वेन भैक्षाग्नित्यागे स्त्रियं विना कामात् सकृद्रेत-स्त्यागे व्यवतिष्ठते, स्त्रियं विनापि कामाद्रेतस उत्सर्गेप्रमादगमने वशिष्ठः “ब्रह्मचारी चेत् स्त्रियमुपेयादरण्येचतुष्पथे लौकिकेऽग्नौरक्षोदैवतं गर्द्धभं पशुमालभेत नैरृ-तं वा चरुं निर्व्वपेत् तस्य जुहुयात् कामाय स्वाहा काम-कामाय स्वाहा नैरृत्यै स्वाहा रक्षोदेवताभ्यः स्वाहाइति एतदेव रेतसः प्रयत्रोत्सर्गे दिवा स्वप्ने व्रतान्तरेषु च” ।आसमावर्त्तनाद्रेतो विसर्गे दिवास्वप्नेचाभ्यासे ज्ञेयम् प-शोरभावे नैरृतं चरुं निर्वपेदित्यर्थः एतच्चामावास्यायांकर्त्तव्यमित्याह बौधायनः “अथावकीर्ण्ण्यमावस्यायांनिश्यग्निमुपसमाधाय संपरिस्तीर्य्य दार्व्वीं हौमिकींपरिचेष्टां कृत्वा द्वे आज्याहुती जुहुयात्” अत्रच व्रतान्तरेष्वित्यभिदधता वशिष्ठेन द्वादशाहादिकव्रतेषुपुण्यार्थचान्द्रायणादिषु यथातिदिष्टं तथाचैतदतिदिष्ट-मविशेषात् अतएव “कामतो रेतसः सेकं व्रतस्थस्यद्विजन्मनः अतिक्रमं व्रतस्याहुर्धर्म्मज्ञा ब्रह्मवादिनः”इति मनुना सामान्येनैवावकीर्णिलक्षणमन्वकारि अका-मतो रेतसः स्रावे मनुः “स्वप्ने सिक्त्वा ब्रह्मचारी द्विजःशुक्रमकामतः स्नात्वार्कमर्च्चयित्वातु पुनर्भ्वमित्यृचं जपे-त्” ब्रह्मचारिणोगुरुदारगमने तु तद्गमनोक्तप्रायश्चित्ते-नैव गुरुणा लघ्ववकीर्ण्णिप्रायश्चित्तं कृतम्भवेत् यथादण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्तरीयकावगोरणप्रायश्चित्तं सम्पद्यत”