क्षणभङ्ग (kSaNabhaGga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English क्षणभङ्ग kSaNabhaGga decay of things
क्षणभङ्ग kSaNabhaGga continual
Monier Williams Cologne
EnglishSanskrit Tibetan
Tibetanskad cig 'jig
क्षणभङ्ग
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritक्षणभङ्ग क्षणात्परः भङ्गः ५ त० । सर्व्वषां भावानांक्षणिकत्वे क्षणनश्वरत्वे । स च सर्व्व० द० दर्शिगोयथा ।“तत्र क्षणिकत्वं नीलादिक्षणानां सत्त्वेनानुमातव्यंयत् सत् तत् क्षणिकं यथा जलधरपटलं सन्तश्चामी भावाइति । न चयमसिद्धो हेतुः अर्थक्रियाकारित्वलक्षणसत्त्वस्य नीलादिक्षणानां प्रत्यक्षसिद्धत्वात् व्यापकव्यावृत्त्याव्याप्यव्यावृत्तिन्यायेन व्यापकक्रमाक्रमव्यावृत्तावक्षणिकात्सत्त्वव्यावृत्तेः सिद्धत्वाच्च । तच्चार्थक्रियाकारित्वं क्रमा-क्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारःसमस्ति “परस्परविरधे हि न प्रकारान्तरस्थितिः । नैक-तापि विरुद्धानामुक्तिमात्रविरोधतः इति न्यायेन व्याघात-स्योद्भटत्वात् । तौ च क्रमाक्रमौ स्थायिनः सकाशाद्व्या-वर्त्तमानौ अर्थक्रियामपि व्यावर्त्तयन्तौ क्षणिकत्वपक्ष एवसत्त्वं व्यवस्थापयत इति सिद्धम् । नन्वक्ष णकस्यार्थक्रि-याकरित्वं किं न स्यात्? इति चेत् तदयुक्तं विकल्पासह-त्वात् तथा हि वर्त्तमानार्थक्रियाकरणकाले अतीताना-गतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति? नवा? । आद्ये तयोरनिराकरणप्रसङ्गः समर्थस्य क्षेपा-योगात् यत् यदा यत्करणसमर्थं तत् तदा तत्करोत्येवयथा सामग्री स्वकार्य्यं समर्थश्चायं भाव इति प्रसङ्गानु-मानाच्च । द्वितीयेऽपि कदापि न कुर्य्यात् सामर्थ्यमात्रा-नुबन्धित्वादर्थक्रियाकारित्वस्य, यत् यदा यन्न करोति तत्तदा तत्रासमर्थं यथा शिलाशकलमङ्कुरे, न चैवंवर्त्तमानार्थक्रियाकरणकाले वृत्तवर्त्तिष्यमाणे अर्थक्रिये-करोतीति तद्विपर्य्ययाच्च । ननु क्रमवत्सहकारिलाभात्स्थायिनः अतीतानासतयोः क्रमेण क्रमणमुपपद्यते इतिचेत् तत्रेदं भवान् पृष्टो व्याचष्टां, सहकारिणः किंभावस्योपकुर्वन्ति? न वा? । नो चेत् नापेक्षणीयास्ते अ-किञ्चित्कुर्व्वतां तेषां तादार्थ्यायोगात् । उपकारकत्वशक्षेसोऽयमुपकारः किं भावाद्भिद्यते? न वा? । भेदपक्षे-आगन्तुकस्यैव तस्य कारणत्व स्यात् न भावस्याक्षणिकस्यआगन्तुकातिशयान्क्वयव्यतिरेकानुविधायित्वात् कार्य्यस्य ।तदुक्तम् “वर्षातपाभ्यां किं व्योम्नश्चर्म्मण्यस्ति तयोःफलम्? । चर्म्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेटसत्फलः”इति । ०अथ भावस्तैः सहकारिभिः सहैव कार्य्यं करो-तीति स्वभाव इति चेत् अङ्ग तर्हि सहकारिणो न ज-ह्यात् प्रत्युत पलायमानानपि गले पाशेन बद्ध्वा कृत्यंकार्य्यं कुर्य्यात् स्वभावस्वानपायात् । किञ्च सहकारिज-न्योऽतिशयोऽतिशयान्तरमारभते? न वा? उभयथापिप्रागुक्तदूषणपाषाणवर्षणप्रसङ्गः । अतिशयान्तरारम्भपक्षेबहुमुखानवस्थादौस्थ्यमपि स्यात् । अतिशये जनयितव्येसहकार्य्यन्तरापेक्षायां तत्परम्परापातैत्येकानवस्था ऽऽ-स्थेया । तथाहि सहकारिभिः सलिलपवनादिभिः पदा-र्थसार्थैराधीयमाने वीजस्यातिशये वीजमुत्पादकमभ्युपेयम्अपरथा तदभावेऽव्यतिशयः प्रादुर्भवेत्, वोजञ्चातिशयमादधानंसहकारिसापेक्षमेवाधत्ते अन्यथा सर्वदोपकारापत्तौ अ-ङ्कुरस्यापि सदोदयः प्रसज्येत । तस्मादतिशयार्थमपेक्ष्य-माणैःसहकारिभिरतिशयान्तरमाधेयं वीजे, तस्मिन्नप्युपकारेपूर्वन्यायेन सहकारिसापेक्षस्य वीजस्य जनकत्वे सहका-रिसम्पाद्यवीजगतातिशयानवस्था प्रथमा व्यवस्थिता ।अथोपकोरः कार्य्यार्थमपेक्ष्यमाणोऽपि वीजादिनिरपेक्षःकार्य्यं जनयति तत्सापेक्षो वा । प्रथमे वीजादेरहेतुत्व-मापतेत् । द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारेअतिशय आधेय एवं तत्र तत्रापोति वीजादिजन्यातिशय-निरातिशयपरम्परापात इति द्वितीयानवस्था स्थिरा भ-वे । एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्म्मिण्युप-कारान्तरमाधेयमित्यु पकाराधेयवीजातिशयाश्रयातिशयपरम्परापातैति तृतीयानवस्था दुरवस्था स्यात् । अथभावाद्भिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपग-म्यते तर्हि प्राचीनो भावो ऽनतिशयात्मा निवृत्तः अन्य-श्चातिशयात्मा कुर्वद्रूपादिपदवेदनीयो जायत इति फलितंममापि मनोरथद्रुमेण । तस्मादक्षणिकस्यार्थक्रिया दुर्घटा ।नाप्यक्रमेण घटते विकल्पासहत्वात् । तथाहि युगपत्स-कलकार्य्यकरणसमर्थः स भावस्तदुत्तरकालमनुवर्त्तते न बा ।प्रथमे तत्कालवत् कालान्तरेऽपि तावत्कार्य्यकरणमापते-त् । द्वितीये स्थायित्वपत्याशा मूषिकभक्षितवीजादाव-ङ्कुरादिजननप्रार्थनामनुहरेत् । यत् विरुद्धधर्म्माध्यस्ततन्नामा यथा शीतोष्णे विरुद्धर्म्माध्यस्तश्चायमिति ज-लधरे प्रतिबन्धसिद्धिः । न चायमसिद्धो हेतुः स्थायि-नि कालभेदेन सामर्थ्यासामर्थ्ययोः प्रसङ्गतद्विपपर्य्ययसिद्धत्वात् । तत्रासामर्थ्यसाधकौ प्रसङ्गतद्विर्य्ययौ प्रागुक्तौसामर्थ्यसाधकावभिधीयेते यद्यदा यज्जननासमर्थं तत्तदातन्न करोति यथा शिलाशकलमङ्कुरम् असमर्यश्चायं व-र्त्तमानार्थक्रियाकरणकाले अतीतानागतयोरर्थकिययोरिति प्रसङ्गः यद्यदा यत् करोति तत्तदा तत्र समर्थंयथा सामग्री स्वकार्य्ये, करोति चायमतीतानागतकालेतत्कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः विप-र्य्ययः । तस्माद्विपर्क्ष क्रमयौगपद्यव्यावृत्त्या व्यापकानुपलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्गतद्विपर्य्ययबलात्गृहीतान्वयव्याप्तिकं सत्त्वं क्षणिकत्वपक्ष एव व्यवस्थास्य-तीति सिद्धम् । तदुक्तं ज्ञानश्रिया “यत् सत्तत् क्षणिकंयथा जलधरः सन्तश्च भावा अमी सत्ताशक्तिरिहार्थकर्म्मणिमिते सिद्धेषु सिद्धा न सा । नाप्येकैव विधान्यथा पर-मतेनापि क्रियादिर्भवेत् द्वेधापि क्षणभङ्गसङ्गतिरतःसाध्ये च विश्राम्यतीति” । न च कणभक्षादिपक्षकक्षीकारेण सत्तासामान्ययोगित्वमेव सत्त्वमिति मन्तव्यं, सा-मान्यविशेषसमवायानामसत्त्वप्रसङ्गात् । न च तत्र स्वरू-पसत्तानिबन्धनः सद्व्यवहारः, प्रयोजकगौरवापत्तेः अनुग-तत्वाननुगतत्वविकल्पपराहतेश्च सर्षपमहीधरादिषु विल-क्षणेषु क्षणेष्वनुगतस्याकारस्य मणिषु सूत्रवद्भूतगणेषु गु-णवच्चाप्रतिभासनाच्च । किञ्च सामान्यं सर्व्वगतं, स्वाश्रय-सर्व्वगतं वा? प्रथमे सर्ववस्तुसङ्करप्रसङ्गः अपसिद्धान्ताप-त्तिश्च यतः प्रोक्त प्रशस्तपादेन “स्वविषयसर्वगतसिति”किञ्च विद्यमाने वटे वर्त्तमानं सामान्यमन्यत्र जायमा-नेन सम्बध्यमानं तस्मादागच्छत् सम्बध्यते अनागच्छद्वाआद्ये द्रव्यत्वापत्तिः द्वितीये सम्बन्धानुपपत्तिः । किञ्चविनष्टे घटे सामान्यमवतिष्ठते? विनश्यति? स्थानान्तरंगच्छति? वा प्रथमे निराधारत्वापत्तिः, द्वितीये नित्यत्व-वाचोयुक्त्ययुक्तिः, तृतीये द्रव्यत्वप्रसक्तिः इत्यादि दू-षणग्रहग्रस्तत्वात् सामान्यमप्रामाणिकम् । तदुक्तम् “अ-न्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि । तस्मादचलतःस्थनाद्घृत्तिरित्यतियुक्तता । यत्रासौ वर्त्तते भावस्तेनसम्बध्यते न तु । तद्देशिनञ्च व्याप्नोति किमप्येतन्महा-द्भुतम् । न याति न च तत्रासीदस्ति पश्चान्नचांशवत् ।जहाति पूर्वं नाधारमहो व्यसनसन्ततिरिति” । अनुवृत्तप्रत्ययः किमालम्बन इति चेत् अङ्ग अन्यापोहालम्बनएवेति सन्तोष्टव्यमायुष्मतेति अलमतिप्रसङ्गेन” ।विवरणेपन्यासे चायं पक्षः पूर्व्वपक्षीकृत्य दूषितो यथा“अथैवं वटादिषु क्षणिकत्वं साध्येत विमताः उपान्त्या-दयो घटसत्ताक्षणाः स्वस्वानन्तरक्षणभाविघटनाश-व्याप्ताः घटसत्ताक्षणत्वादन्त्यघटक्षणवदिति” तन्न वि-मतो घटनाशक्षणो घटसत्तावान् कालत्वात् सम्मतवदि-त्याभासमानत्वात् । अत्र घटाभावानुभवविरोध इति चेत्तर्हि क्षणिकत्वानुमानेऽपि सोऽयं घट इति प्रत्यभिज्ञा-विरोधोऽस्त्येव । ननु सर्वे भावाः क्षणिकाः अर्थक्रियाकारित्वात् व्यतिरेकेण शशविषाणवत् विपक्षे स्थायिनोऽर्थक्रियानुपपत्तिर्बाधिका । न च स्थायिनएव पदार्थस्य नि-मित्तसंयोगादन्यथाभूतस्यार्थक्रियापूर्व्वकं कार्य्यमुत्पाद-यितुं सामर्थ्यं न क्षणिकस्येति काव्यम् किमसौ स्थायीपदार्थ एकमेव कार्य्यमुत्पादयेत्? उत युगपदनेकानि?अथवा क्रमेणानेकानि?, तत्र प्रथमद्वितीययोः कृतं स्थायित्वेनासत्कार्य्योत्पादनस्य क्षणिकेनैव सिद्धेः । न तृतीयःसमर्थस्य क्षेपायोगात् । अतोभावानामेकस्मिन्नेव क्षणे-ऽर्थक्रियाकारित्वं सत्त्वमिति, नैतद्युक्तं त्वन्मते अर्थक्रियायादुर्निरूपत्वात् । किमर्थक्रिया नाम संविदां स्वगो-चरज्ञानजननं? किंवा क्षणान्तरोत्पादनम्? आदोऽपिस्वसन्ताने तज्जननं? पुरुषान्तसन्ताने वा? सर्वज्ञसन्ताने वा?नाद्यः संविदां स्वप्रकाशत्वेन तदसम्भवात्, अस्तु तर्हिद्वितीयः, देवदत्तसवेदनं हि स्वप्रकाशमपि यज्ञदत्तसंवे-दनस्य विषयत्वाज्जनकं भविष्यतीति, तदसत् न तावत् प्रत्य-क्षज्ञानस्य विपयतया जनकमिति शक्यं वक्तूं, न हि पुरुषा-न्तरज्ञानं प्रत्यक्षतया क्वचिद्दृष्टं । नाप्यनुमानज्ञानविषय-तया जनकं त्वया पुरुषान्तरप्रत्यक्षज्ञानमेव विषयजन्यमित्य-ङ्गीकारात् । ननु तर्हि तृतीयोऽस्तु सर्वज्ञस्य हि प्रत्यक्षज्ञानंसर्वपुरुषगतसंवेदनानि विषयीकुर्वत् तैर्जन्यते, मैवं तथा-सति सोपप्लवैः सांसारिकसंवेदनैरीश्वरसंवेदनमप्युपप्लुतंस्यात् तन्मते ज्ञानज्ञेययोरसेटात् । अथ ईश्वरज्ञानमुपप्लुत-मपि नोपप्लवदोपं भजते तत्त्वज्ञानेनोपप्लवस्य बाधादिति चेत्मैवं न तदेव ज्ञानं सोपप्लवं बाधते उपप्लवस्येकस्मि-नेव क्षणे प्राप्तिबाधयोरसम्भवात् नापि ज्ञानान्तरमुत्पाद्यउपप्लवं बाधितुं क्षमते पूर्व्वज्ञानोपप्लवस्य ज्ञानान्तराविषयत्वात् विषयत्वे पूर्व्वज्ञानान्तरम्प्युपप्लुतं सत् कथंवाधकं स्वात्? नचोपप्लवांशं विहाय संवेदनांशस्यैवेश्वर-ज्ञामं प्रति विपयतया जनकत्वं, तस्मिन् सत्युपप्लवानमिज्ञःकथमीश्वर उपदिशेत् । नापि क्षणान्त्रोत्पादनमर्थक्रियेतिद्वितीयः पक्षः, त्वत्प्रक्रियया चरमक्षणस्यासत्त्वप्रस-ङ्गात् तथा हि विज्ञानानि स्थायित्वकल्पनया द्रव्यगुणा-दिदोषैर्विषयैश्चोपप्लुतानि पूर्व्वपूर्व्वसजातीयविज्ञानलक्ष-णेभ्यः संस्कारेभ्य उत्तरोत्तराण्युत्पद्यन्ते तत्र सर्वमिदंक्षणिकमिति भावनया स्थायित्वकल्पना निवर्त्तते स्वलक्ष-णमिति भावनया द्रव्यगुणादिकल्पना नश्यति दुःख-मिति भावनया रागादिदोषप्रवृत्तिसुखदुःखोपप्लवाःक्षीयन्ते, शून्यमिति भावनया विषयोप्लवविगमः । ततश्चभावनाभेदैश्चतुर्विधैश्चतुर्विधसंस्कारविरोधिभिश्चतुर्विधोप-प्लवे क्रमेण मन्दीकृते भावनाप्रकर्षस्यान्त्यभूतादुपान्त्यप्रत्ययात् सर्वोपप्लवविरहि विज्ञानमुत्पद्यत तच्च संस्कारसन्तानान्त्याच्चरमक्षण इति गीयते, तस्य च कार्य्या-भावादसत्त्वापत्तौ तथैव क्रमेण पूर्व्व पूर्व्वज्ञानानामप्यसत्त्वंप्रप्नुयात् । चरमक्षण ईश्वरज्ञानस्य जनकस्तद्वियत्वादिति-चेत् तर्हि चरमक्षणसर्वज्ञज्ञानयोर्विशुद्धतया तुल्यस्वभाव-योरेकसन्तानत्वं स्यात् तल्यस्वभावयोः कार्यकारणभावस्यै-कसन्तानलक्षणत्वात् ततश्च सन्तानाविच्छेदादनिर्मोक्षःस्यात् । सर्वज्ञसन्तानप्रवेशएव मोक्ष इति चेत् एवमपि चर-मक्षणस्य ईश्वरज्ञानविषयत्वं दुर्निरूपमिति, तज्जनकत्वंदूरापास्तं, भेदे हि सति संविदो र्वषयविषयिभावः नचेतभेदोऽस्ति । न तावत् संवित् संविदन्तरात् संविदाकारेणभिद्यते तथासति वैलक्षण्यसिद्धये प्रतियोगिनोऽसंवित्त्वप्रसङ्गात् नाप्यसंविदाकारेण धर्म्मिणोरसंवित्त्वप्रसङ्गात्तस्माच्चरमक्षणस्य सर्वज्ञज्ञानोत्प दनलक्षणयाऽर्थक्रिययासत्त्वं दुःसम्पादम् । यद्यस्यर्थक्रिया कल्प्येत तदापिसा किं कारणस्य सत्त्वं सम्पादयति? उत प्रतीतिम्?नाद्यः कार्य्यात पूर्वमेव कारणस्य सत्त्वात अन्यथा कारणत्वायोगात् । द्वितीये तत् कार्य्यं स्वकार्य्येण प्रतिभासितंसत् कारणप्रत्यायकं तदपि तथैवेत्यनवस्था स्यात् । संवित्स्वयमेव स्वात्मान प्रकाशयतीति नानवस्थेति चेत् तर्ह्यर्थ-क्रिया प्रतीतिहेतुरिति पक्षोहीयेत । स्वयमेव स्यार्थक्रिये-ति वदन आत्माश्रयंदुनिर्वारम् । तदेवं न सत्त्वेनार्थक्रिया-कारित्वं किन्तु स्वाभाविकः कश्चिद्धर्मः, तथा चैकस्मिन्क्षणेऽर्थक्रियां कृत्वा पुनस्तूष्णींभूतस्यापि स्थायिनः सत्त्वंन विरुध्यते । यदुक्तं स्थायिनः क्रमेणानेककार्य्योत्पादकत्वं नास्ति समर्थस्य क्षेपायोगात् इति तदसत शक्तस्यापि सहकारिसन्निधानविशेषव्रमापेक्षया कार्य्यक्रमौपपन्नःलोके तथैवानुभकात् । अथ मतम् शक्तस्य सहकार्य्य-पेक्षाया अप्ययुक्तत्वात् अशक्ता एव सर्वे पदार्थाः परस्प-रापेक्षया सामग्रीं जनयन्ति सा च शक्ता कार्य्यमुत्पाद-यति, तदप्ययुक्तं सामग्रीं प्रत्यपि शक्तत्वे पदार्थानाम-न्योन्यापेक्षा न युक्ता अशक्तत्वे च तदजनकत्वात् निष्फ-लाऽन्योन्यापेक्षेति अनपेक्षैव सर्वत्र स्यात् । मा भूत्तर्हिकस्यापि सहकार्य्यपेक्षति चेत् न अनुभवविरोधात् । नचा-नुभवोभ्रान्तः, बाधाभावात्, । यद्यपि शक्तस्याशक्तस्य वाऽपेक्षा न युक्तेत्युक्तं तथापि शक्तत्वाशक्तत्वविनिर्मुक्तवस्तुमात्रस्य सहकार्य्यपेक्षा स्यात् न्यायस्यास्य त्वयाप्यङ्गी कार्य्य-त्वत् । तथा हि कार्य्यसत्त्वेऽसत्त्वहानिः असत्त्वे चासंब-द्धता कारणबिशेषेण कार्य्यविशेषस्य समवायानिरूपणात् सर्वंसर्वस्मादत्पद्येतेति परेण चोदिते सत्त्वासत्त्वसम्बद्धत्वा-संबद्धत्वविशेषं विमुच्य नियतपूर्व्वभाबि कारणं नियतोत्तरभावि कार्यमिति त्वया निरूपणीयम् अन्वयव्यतिरेकौतत्र निरूपकौ स्त इति चेत् सहकारिण्यपि तौ स्त एव तस्मा-दस्त्येव सहकार्यपेक्षा तत्कृतस्योपकारबिशेषश्चिन्त्यताम् ।यत्त्वत्रेकदेशी मन्यते अन्वयव्यतिरेकसिद्वा भूम्युदकादिसहकारिणो वीजाख्ये कारणे विशेषमुच्छूनताख्यं जनयन्तिततस्तद्वीजमुङ्कुराख्ये कार्ये शक्तम् अन्यथामुपकारी भूम्या-दिर्वीजेन नापेक्ष्येतेति, तदसत् वीजं स्वगतविशेषोत्पत्तौशक्तं न चेत् सहस्रसन्निधानमपि न तं जनयेत् ततो-नाङ्कुरोत्पादनेऽपि शक्ष्यति । अथ शक्तं तदापि यदि स-हकारिसहकृतः विशेषान्तरं प्राप्योच्छूनतायां शक्नुयात्तदाऽनवस्था स्यात् । अथ तदप्राप्यैव तत्र शक्तं तदाङ्कुरेऽपिविशेषमन्तरेणैव शक्तं स्यात् । अथ मतम् अङ्कुरोत्पत्तिरुच्छूनत्वजन्मपूर्व्विका उच्छूनतोत्पत्तिस्तु सहकारिसन्निधिमात्रसाध्या तथैव दृष्टत्वादिति चेत् न तथासतिशक्तिमता कारणेन स्वात्मन्यनुपकुर्वन्नपि सहकार्यपेक्ष्यतइति त्वयैव स्वमतव्याघात आपादितः स्यात् । तस्मान्नैकदेशिपक्षो युक्तिसहः । नन्वत एवास्मन्मतमादरणीयं न हिवयं तद्वत्कारणस्वरूपे सहकार्युपकारं ब्रूमः किं त-र्हि क्षणिकान्मूलकारणादुत्पद्यमानं कार्यं सहकारिणमपेक्षते कार्यस्य बहुकारणसाध्यत्वादिति ब्रूमः ।यद्यपि स्थायिकारणमतेऽप्येतावत् समानं तथापि तन्मतेथावत् कारणसत्त्वं नैरन्तर्य्येण कार्योत्पत्तिर्दुर्वारा नि-यामकाभावात् । न च सहकारिसम्बन्धो नियामकः स-म्बन्धस्यापि यावत्सम्बन्धिसत्त्वं भवितव्यत्वात् । न च तस्यसम्बन्धान्तरं नियामकम् अनवस्थापातात् । न च वाच्यंक्षणिकपक्षेऽपि न कारणसत्त्वक्षणे कार्यंजायते तयोर्यौगपद्यप्रसङ्गात् अन्यदा जन्माङ्गीकारे चानियमापत्तिरिति, कारणान्तरक्षणस्य कार्यनियामकत्वात् अतः क्षणिक-त्वपक्षएव श्रेयान्, मैवं सर्वत्र हि कार्यकारणभावो व्याप्तिबलेन निश्चेतव्यः तत्र किं त्वन्मते कार्य्यकारणव्याप्ति र्धू-माग्निव्यक्त्योः? उत तत्सन्तानयोः? । नाद्यः क्षणिकयोरन्वयव्यतिरेकबुद्धिद्वयकालावस्थानायोगात् । द्वितीयेऽङ्गा-रावस्थादप्यग्नेर्धूमोजायेत तत्सन्तानपातित्वाविशेषात् का-ष्ठाभावात्तदा जन्मनेति चेत् तस्यापि स्वसन्ताने विद्यमान-त्वात् नचाग्निकाष्ठयोः सम्बन्धाभावः सन्तानद्वयनित्य-त्वेन तस्याप्यनिर्व्वाव्यत्वात् । सम्बन्धः सम्बन्धान्तरपूर्व्वकत्वात् न सदातन इति चेत् न अनवस्थापत्तेः त्रिचतुरक-क्षाविश्रान्त्यभ्युपमेन नानवस्था इति चेत् तर्हि स्थायिका-रणाभ्युपगमेऽप्यनवस्थाया । सुपरिहरत्वान्नोक्तदोषः ।ननु स्थिरकारण उपकारकत्वाङ्गीकारे यदि स्थायित्ववादीस्वमतमपि समीकुर्यात् तर्हि तन्नाङ्गीकुर्म्म इति चेत्धूमकाष्ठयोः कार्यसहकारिणोरुपकार्योपकारकभाव-स्यान्वयव्यतिरेकसिद्धस्यावर्ज्जनीयत्वादन्वयव्यतिरेकयोश्चो-पकार्योपकारकभावसाधकत्वं मूलकारणतत्कार्ययोरग्नि-धूमयोर्दृष्टं तस्मादुपकारके सहकारिणि मतद्वयेऽप्यपे-क्षा समाना । तथा च क्षणिकपक्षं यथैकस्य वह्नेः सह-कारिभेदात् देशभेदाच्च युगपदनेककार्यममभ्युपेयते वह्निःस्वदेशे वह्न्यन्तरं जनयति उपरिष्टाद्धूमम्, अधस्ता-द्भस्म, पुरुषे विज्ञानञ्चेति तथा स्थायिपक्षेऽप्येकस्य का-रणस्य कालभेदात् सहकारिभेदाच्चानेककार्यजनकत्वत्तत्र क्रमकारित्वं किं न स्यात् । नचेताबता क्षणिकस्थायिवादिनोर्मतसाङ्कर्यं शङ्कनीपं पूर्वस्य प्रतिकर्म्मव्यव-स्थवादस्यान्ते निराकृतत्वात् । तदेवमतिदुष्टं क्षणिकविज्ञानवादिमतमुपेक्ष्य कूटस्थनित्यचैतन्ये सर्व्वमध्यस्त-तया प्रतीयत इत्ययमेव वेदान्तवादोऽतिनिर्दोषत्वादादर-णीय” इति ।आत्मतत्त्वविवेके च “अथ बाधकं भवदात्मानि क्षणभङ्गो-वेत्यादिना” पञ्चविप्रतिपत्तीनाद्भावितानां मध्ये प्रथम-विप्रप्रतिनिरासेऽस्य विवृतिर्दृश्या
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
