| YouTube Channel

क्रुध (krudha)

 
शब्दसागरः
English
क्रुध (औ, ऌ) औक्रुधॢ r. 4th cl. (क्रुध्यति) To be wrathful, to be flushed
with anger.
क्रुध
f.
(-क्रुत् or -क्रुद्) Anger, passion.
E.
क्रुध् to be angry, affix क्विप्
also
with अङ and टाप् affixes, क्रुधा.
Wilson
English
क्रुध (औ, ऌ) औक्रुधॢ r. 4th cl. (क्रुध्यति) To be
wrathful, to be flushed with anger.
Shabdartha Kaustubha
Kannada
क्रुध - क्रोधे (दिवा० पर० अक० अनि०) क्रुध्यति
पदविभागः - > धातुः
कन्नडार्थः - > ಕೋಪಗೊಳ್ಳು /ಸಿಟ್ಟುಮಾಡಿಕೋ
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्रुध्
मूलधातुः:
क्रुध
धात्वर्थः:
कोपे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
क्रुध्यति
धातुप्रदीपः
Sanskrit
क्रुधँ क्रुध कोपे
- क्रुध्यति चुक्रोध क्रोद्धा क्रोत्स्यति अक्रुधत् क्रोधनः क्रुद्धा क्रुद्धः क्रोधः 83
शब्दकल्पद्रुमः
Sanskrit
क्रुध, कोपे इति कविकल्पद्रुमः
(दिवां-परं-अकं-अनिट् ।) ऌ, अक्रुधत् य, क्रुध्य-ति लोकः शिशवे औ, क्रोद्धा इति दुर्गा-दासः
*
रेलते हेलते भ्रामते भृणी-यते भ्रीणाति भ्रेयति दोधति वनय्यति८ कम्पते भोजते १० इति दश क्रुध्यति-कर्म्माणः इति वेदनिघण्टौ अध्यायः
वाचस्पत्यम्
Sanskrit
क्रुध कोपे दिवा०
पर०
अक० सोपसर्गः
सक०
अनिट् क्रु-ध्यति मृत्यभभिक्रुध्यति ऌदित् अक्रुधत् चुक्रोध--क्रोद्धाक्रीत्स्यति क्रोद्धव्यम् क्रोध्यम् क्रोधनीयम् क्रोद्धा क्रोधीक्रुद्धः क्रुध्यन् क्रोधः क्रुद्ध्वा संक्रुध्य “चुक्रोध पुरुषा-दकः” भा० आ० १५३ अ० “द्रुमेभ्यः क्रुध्यमानास्ते तपो-दीपितमन्यवः” भाग० ६, ४, ५, अत्र तङ् आर्षः शक्त्यादौ-चानश् वा “क्रुध्यन् कुलं धक्ष्यति विप्रवह्निः” भट्टिः “क्रोधंविभो! संहर संहरेति” कुमा० “क्रुधद्रुहेर्य्या-सूयार्थानां यं प्रति कोपः” पा० कोपविषयस्य संपदा-नता अरये क्रुध्यति “क्रुधद्रुहोरुपसृष्टयोः कर्म्म” पा०सोपसर्गस्य तस्य सम्प्रदानस्य कर्म्मता “कुध्यन्तं नप्रतिक्रुध्येत्” मनुः “भृत्यमभिक्रुध्यति” सि० कौ०अन्वाद्युपसर्गात् परस्तु तत्तदुपसर्गद्योत्यार्थयुक्तक्रोधे
सक०
प्रति + वैपरीत्येन क्रोधने
सक०
“क्रुध्यन्तं प्रतिक्रुध्येत्” मनुः
क्षीरतरङ्गिणी
Sanskrit
क्रुधँ क्रुध कोपे
- चैत्राय क्रुध्यति क्रुधद्रुहेर्ष्या (1437) इतिसम्प्रदानम् अक्रुधत्, क्रोद्धा क्रुधमण्डार्थेभ्यश्च (32151) इति युच्-क्रोधनः 77
धातुवृत्तिः
Sanskrit
क्रुधँ क्रुध (अर्थः) कोपे
( देवदत्ताय क्रुध्यति, ) "क्रुधद्रुह'' इति कोपविषये सम्प्रदानत्वम् तस्येव "क्रुधद्रुहोरुपसृष्टयोः कर्म'' इति कर्मत्वे, देवदत्तमभिकृध्यतीति ( चुक्रोध, चुक्रोधिथ, चुक्रुधिव क्रोद्धा) इत्यादि ( क्रोधनः ) "क्रुधमण्डार्थेभ्यश्च'' इति युच् 81
कृदन्तरूपमाला
Sanskrit
1 {@“क्रुध क्रोधे”@} 2 क्रोधकः-धिका, क्रोधकः-धिका, 3 चुक्रुत्सकः-त्सिका, चोक्रुधकः-धिका
क्रोद्धा-त्री, क्रोधयिता-त्री, चुक्रुत्सिता-त्री, चोक्रुधिता-त्री
4 क्रुध्यन् 5 -न्ती, 6 क्रोधयन्-न्ती, चुक्रुत्सन्-न्ती
-- क्रोत्स्यन्-न्ती-ती, क्रोधयिष्यन्-न्ती-ती, चुक्रुत्सिष्यन्-न्ती-ती
-- 7 व्यतिक्रुध्यमानः, -- व्यतिचुक्रुत्सिष्यमाणः, चोक्रुध्यमानः
व्यतिक्रोत्स्यमानः, -- -- चोक्रुधिष्यमाणः
क्रुत्-क्रुधौ-क्रुधः
-- -- -- क्रुद्धम्-क्रुद्धः-क्रुद्धवान्, क्रोधितः, चुक्रुत्सितः, चोक्रुधितः-तवान्
8 क्रुधः 9 - 10 क्रोधनः, क्रोधः, चुक्रुत्सुः, चोक्रुधः
क्रोद्धव्यम्, क्रोधयितव्यम्, चुक्रुत्सितव्यम्, चोक्रुधितव्यम्
11 क्रोधनीयम्, क्रोधनीयम्, चुक्रुत्सनीयम्, चोक्रुधनीयम्
क्रोध्यम्, क्रोध्यम्, चुक्रुत्स्यम्, चोक्रुध्यम्
ईषत्क्रोधः-दुष्क्रोधः-सुक्रोधः
-- -- क्रुध्यमानः, क्रोध्यमानः, चुक्रुत्स्यमानः, चोक्रुध्यमानः
क्रोधः, क्रोधः, चुक्रुत्सः, चोक्रुधः
क्रोद्धुम्, क्रोधयितुम्, चुक्रुत्सितुम्, चोक्रुधितुम्
क्रुद्धिः, 12 क्रुत् 13, क्रोधना, चुक्रुत्सा, चोक्रुधा
क्रोधनम्, क्रोधनम्, चुक्रुत्सनम्, चोक्रुधनम्
क्रुद्ध्वा, क्रोधयित्वा, चुक्रुत्सित्वा, चोक्रुधित्वा
सङ्क्रुध्य, सङ्क्रोध्य, सञ्चुक्रुत्स्य, सञ्चोक्रुध्य
क्रोधम् २, क्रुध्वा २, क्रोधम् २, क्रोधयित्वा २, चुक्रुत्सम् २, चुक्रुत्सित्वा २। चोक्रुधम्
चोक्रुधित्वा २।
प्रासङ्गिक्यः
01
=>
(२७७)
02
=>
(४-दिवादिः-११८९। अक। अनि। पर।)
03
=>
[[२। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। उपदेशे एकाच्त्वात् इण्ण।]]
04
=>
[[३। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनः ङिद्वद्भावान्नाङ्गस्य लघूपधगुणः।]]
05
=>
[[B। ‘क्रुध्यन् कुलं धक्ष्यति विप्रवह्निः यास्यन् सुतः तप्स्यति मां समन्युम्।’ भ। का। १-२३।]]
06
=>
[[४। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् शतैव।]]
07
=>
[[५। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
08
=>
[[६। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
09
=>
[[C। ‘शक्यन् गर्वमशक्यमानमनसां आस्विद्यदास्योऽक्रुधं क्षुध्यद्भक्तदमाप मालिकवरं शुद्धं सिंद्धेप्सितम्।।’ धा। का। २-६३।]]
10
=>
[[७। ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इति ताच्छीलिको युच्।]]
11
=>
[पृष्ठम्०२८८+ २६]
12
=>
[[१। ‘संपदादिभ्यः क्विप्’ (वा। ३-३-९४) इति क्तिनोऽपवादः क्विप्। क्तिन्नपि बाहुलकात्।]]
13
=>
[[आ। ‘संशृण्वतः तामवृधत् गिरं हृदि क्रुदारत् अक्षिद्वयमाशु रक्तिमा।’ वा। वि। १-४०।]]
Capeller
German
2. क्रुध
f.
Zorn.
क्रुध = 1. क्रुध् (g.).