क्रियायोग (kriyAyoga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English क्रियायोग kriyAyoga employment of expedients or instruments
क्रियायोग kriyAyoga practical form of the yoga philosophy
क्रियायोग kriyAyoga connection with an action or verb
Monier Williams Cologne
EnglishApte Hindi
Hindiक्रियायोगः
क्रिया-योगः -
क्रिया के साथ संबंध
क्रियायोगः
क्रिया-योगः -
तरकीब और साधनों का प्रयोग
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaक्रियायोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾರ್ಯದ ಸಂಬಂಧ
व्युत्पत्तिः - > क्रियाया योगः
क्रियायोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕ್ರಿಯಾಪದದೊಡನೆ ಸಂಬಂಧ
व्युत्पत्तिः - > क्रियया योगः
प्रयोगाः - > "उपसर्गाः क्रियायोगे"
उल्लेखाः - > पा० सू० १-४-५९
क्रियायोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಯೋಗಕ್ಕೆಸಾಧನವಾದ ಕ್ರಿಯೆ /ಅಷ್ಟಾಂಗದ ಯೋಗಕ್ಕೆ ಉಪಾಯವಾದ ವ್ಯಾಪಾರ
व्युत्पत्तिः - > क्रियैव योगः योगोपायः
प्रयोगाः - > "क्रियायोगस्तु योगस्य परमं तच्च कारणम्"
उल्लेखाः - > अग्निपु०
विस्तारः - > "तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः"
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishAbhyankara Grammar
Englishक्रियायोग association with a verbal activity
cf उपसर्गाः क्रियायोगे P.I.4.59.
शब्दकल्पद्रुमः
Sanskritक्रियायोगः, (क्रियैव योगः योग उपायः ।) देवा-राधनतदालयादिकरणरूपपुण्यक्रिया । यथा, --नारद उवाच ।“क्रियायोगः कथं प्रोक्तस्त्वया मे प्रपितामह ! ।तदहं श्रोतुमिच्छामि फलं चास्य यथातथम् ॥
ब्रह्मोवाच ।ज्ञानयोगस्तु योगस्य यस्तु साधनमात्मना ।यस्तु वाह्यार्थसंयोगः क्रियायोगः स उच्यते ॥
प्रधानं कारणं योगो मुक्तेर्मुनिवरोत्तम ! ।क्रियायोगस्तु योगस्य परमं तात ! साधनम् ॥
यदेतद्भवता पृष्टं तदिहैकमनाः शृणु ।यैस्तु देवालयं विष्णोः शुभं दारुमयं कृतम् ॥
कारयेन्मृण्मयं वापि शृणु तस्य फलं मुने ! ।अहन्यहनि योगेन यजतो यन्महाफलम् ॥
प्राप्नोति तत् फलं विष्णोर्यः कारयति मन्दिरम् ।कुलानां शतमागामि समतीतं तथा शतम् ॥
कारयेद्भगवद्धाम नयत्यच्युतमन्दिरम् ।सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥
विष्णोरालयविन्यासप्रारम्भादेव नश्यति ।पतितं पतमानन्तु तथार्द्धपतितं तथा ॥
समुद्धृत्य हरेर्द्धाम द्विगुणं फलमाप्नुयात् ॥
“प्रतिमां लक्षणवतीं यः कुर्य्याच्चैव मानवः ॥
केशवस्य परं लोकमक्षयं प्रतिपद्यते ।अनुज्ञातो मया राज्ये यमो राजाथ किङ्कराः ॥
केवलं ये जगद्धाममनन्तं समुपाश्रिताः ।भवद्भिः परिहार्य्यास्ते तेषां नास्तीह संस्थितिः ॥
नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम् ।यैर्भावभावितैर्दूतास्ते च त्याज्याः सुदूरतः ॥
दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।श्रद्धापुरःसरैर्नित्यं ते च त्याज्याः सुदूरतः” ॥
इत्याद्ये वह्निपुराणे वैष्णवक्रियायोगे यमानुशासन-नामाध्यायः ॥
तथा च पातञ्जले ।“तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः” ॥
)
वाचस्पत्यम्
Sanskritक्रियायोग क्रियैव योगः योगोपायः । “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः” इति पातञ्जलसूत्रमाष्याद्युक्तेयोगोपायभूते क्रियाभेदे । तस्य योगोपायत्वादिदर्शकंतद्वाक्यं कर्म्मयोगशब्दे ४७११ पृ० दर्शितम् । “ज्ञानयोगस्तुयोगस्य यस्तु साधनमात्मना । यस्तु बाह्यार्थसंयोगः क्रि-यायोगः स उच्यते । प्रधानं कारणं योगोमुक्तेर्मुनि-वरोत्तम! । क्रियायोगस्तु योगस्य परमं तच्च साधनम्”अग्निपु० । मत्स्यपु० ५२ अ० विस्तरेणोक्तं यथा“कर्म्मयोगञ्च वक्ष्यामि यथा विष्णुविभाषितम् ।ज्ञानयोगसहस्राद्धि कर्म्मयोगः प्रशस्यते । कर्म्मयोगो-द्भवं ज्ञानं तस्मात्तत्परमम्पदम् । कर्म्मज्ञानोद्भवं ब्रह्मन च ज्ञानमकर्म्मणः । तस्मात कर्म्मणि युक्तात्मा त-त्त्वमाप्नोति शाश्वतम् । वेदोऽखिलो धर्म्ममूलमाचारश्चैवतद्विदाम् । अष्टावात्मगुणास्तस्मिन् प्रधानत्वेन संस्थिताः ।दया सर्वेषु भूतेषु क्षान्तीरक्षाऽऽरतुस्य तु । अनसूयातथा लोके शौचमन्तर्बहिर्द्विजाः! । अनायासेषु कार्येषुमाङ्गल्याचाससेवनम् । न च द्रव्येषु कार्पण्यमार्तेषूपा-र्जितेषु च । तथाऽस्पृहा परद्रव्ये परस्त्रीषु च स-र्व्वदा । अष्ठावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः ।अयमेव क्रियायोगो ज्ञानयोगस्य साधकः । कर्म्मयोगंविना ज्ञानं वस्यचिन्नेह दृश्यते । श्रुतिस्मृत्युदितं धर्म-मुपतिष्ठेत् प्रयत्नतः । देवतानां पितॄणाञ्च मनुष्याणाञ्चसर्व्वदा । कुर्यादहरहर्यज्ञैर्भूतर्षिगणतर्पणम् । स्वाध्या-यैरर्चयेच्चर्षीन् होमैर्विद्वान् यथाविधि । पितॄन् श्राद्धैर-न्नदानैर्भूतानि वलिकर्म्मभिः । पञ्चैते विहिता यज्ञाःपञ्चसूनापनुत्तये । कण्डनी पेषणी चूल्ली जलकुम्भी प्र-मार्जनी । पञ्च सूना गृहस्थस्य तेन स्वर्गे न गच्छति ।तत्पापनाशनायामी पञ्चं यज्ञाः प्रकीर्तिताः । द्वाविंशतिस्तथाष्टौ च ये संस्काराः प्रकीर्त्तिताः । तद्युक्तोऽपि नमोक्षाय यस्त्वात्मगुणवर्जितः । तस्मादात्मगुणोपेतः श्रुति-कर्म्म समाचरेत् । गोब्राह्मणानां वित्तेन सर्वदा भद्रमा-चरेत् । गोभूहिरण्यवासोभिर्गन्धमाल्योदकेन च । पू-जयेद् ब्रह्मविष्ण्वर्करुद्रवस्वात्मकं शिवम् । व्रतोपवासैर्विधिवत् श्रद्धया च विमत्सरः । योऽसावतीन्द्रियः शान्तःसूक्ष्मोऽव्यक्तः सनातनः । वासुदेवो जगन्मूर्त्तिस्तस्य स-म्भूतयो ह्यमो । ब्रह्मा विष्णुश्च भगवान् मार्त्तण्डो वृष-वाहनः । अष्टौ च वसवस्तद्वदेकादशगणाधिपाः । लोक-पालाधिपाश्चैव पितरो मातरस्तथा । इमा विभूतयःप्रोक्ताश्चराचरसमन्विताः । ब्रह्माद्याश्चतुरो मूलमव्यक्ता-धिपतिः स्मृतः । ब्रह्मणा चार्थ सूर्येण विष्णुनाथ शिवेनवा । अभेदात् पूजितेन स्यात् पूजितं सचराचरम ।ब्रह्मादीनां परन्धाम त्रयाणामपि संस्थितिः । वेदमूर्ता-वतः पूषा पूजनीयः प्रयत्नतः । तस्मादग्निद्विजमुखान्कृत्वा सपूजयेदिमान् । दानैर्व्रतोपवासैश्च जपहोमादिनानरः । इति क्रियायोगपरायणस्य वेदान्तशास्त्रस्मृतिवत्-सलस्य । विकर्म्मभीतस्य सदा न किञ्चित् प्राप्तव्यमस्तीहपरे च लोके” । २ क्रियासम्बन्धे “उपसर्गाः क्रियायोगे”पा० पद्मपुराणे क्रियायोगसारे विवृतिः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
