| YouTube Channel

क्रमिः (kramiH)

 
शब्दकल्पद्रुमः
Sanskrit
क्रमिः,
पुं,
(क्रम् + इन् ।) कृमिः इति भरतोद्विरूपकोषश्च
रोगविशेषः तच्चिकित्सा यथा, “विडङ्गव्योषसंयुक्तमन्नमण्डं पिबेन्नरः ।दीपनं क्रिमिनाशाय जठराग्निविवृद्धये
प्रत्यहं कदुकं तिक्तं भोजनं कफनाशनम् ।क्रिमीणां नाशनं रुच्यमग्निसन्दीपनं परम्
विडङ्गशृतपानीयं विडङ्गेनावधूलितम् ।पीतं क्रिमिहरं दृष्टं क्रिमिजांश्च गदान् जयेत्
लिह्याद्विडङ्गचूर्णं वा मधुना क्रिमिनाशनम् ।पलाशवीजस्य रसं पिबेन्माक्षिकसंयुतम्
पिबेत्तद्वीजकल्कं वा तक्रेण क्रिमिनाशनम् ।काम्पिल्यचूर्णकर्षार्द्धं गुडेन सह भक्षितम्
पातयेत क्रिमीन् सर्व्वानुदरस्थान्न संशयः ।विडङ्गं कौटजं वीजं तथा वीजं पलाशजम्
संचूर्ण्य खादेत् खण्डेन क्रिमीन्नाशयितुं नरः ।निम्बपत्रसमुद्भूतं रसं क्षौद्रयुतं पिबेत्
धूस्तूरपत्रजं वापि क्रिमिनाशमनुत्तमम् ।रसेन्द्रेण समायुक्तो रसो धुस्तूरपत्रजः
ताम्बूलपत्रजो वापि लेपाद्यूकाविनाशनः ।धत्तूरपत्रकल्केन तद्रसेनैव पाचितम्
तैलमभ्यङ्गमात्रेण यूकान्नाशयति क्षणात् ।क्रिमीणां विट्कफोत्थानामेतदुक्तं चिकित्सितम्
रक्तजानान्तु संहारं कुर्य्यात् कुष्ठचिकित्सया
क्षीराणि मांसानि घृतानि वापिदधीनि शाकानि पर्णवन्ति ।अम्लञ्च मिष्टञ्च रसं विशेषात्क्रिमीन् जिघांसुः परिवर्ज्जयेद्धि”
इति क्रिम्यधिकारः इति भावप्रकाशः