| YouTube Channel

क्रतुः (kratuH)

 
Apte
English
क्रतुः [kratuḥ], [कृ-कतु
Uṇ.*
1.77]
A sacrifice
क्रतोरशेषेण फलेन युज्यताम्
R.*
3.65
शतं क्रतूनामपविघ्नमाप सः 3.38
M.*
1.4
Ms.*
7.79.
An epithet of Viṣṇu.
One of the ten Prajāpatis
क्रतुं प्रजापतिमब्रुवन् Maitrī.
Up.*
2.3
Ms.*
1.35.
Intelligence, talent.
Power, ability.
Plan, design, purpose
क्रतो स्मर कृतं स्मर Iśop.17
Bṛi.
Up.*
5.15.1.
Resolution, determination
यत्क्रतुर्भवति तत्कर्म कुरुते Bṛi.
Up.*
4.4.5.
Desire, will.
Fitness, adequacy, efficiency.
Deliberation, consultation.
Inspiration.
Enlightenment.
Offering, worship
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यम- भयस्य पारम् Kaṭh.1.2.11
Personified, as married to क्रिया and father of 6 वालखिल्यs
क्रतोरपि क्रिया भार्या वालखिल्यानसूयत
Bhāg.*
4.1.39.
An Aśvamedha sacrifice (these senses are mostly Vedic).
The month Āṣāḍha.
Excess of fondness or liking.
An organ [cf.
Gr.
kratos
Zend khratu].
Comp.
-अर्थः Something that is meant to subserve the purpose of the sacrifice (opp. पुरुषार्थ q. v. )
पुरुषार्थे लक्षिते तद्विपरीतः क्रत्वर्थः इति क्रत्वर्थस्य लक्षणं सिद्धम् ŚB. on MS.* 4.1.2. -उत्तमः the राजसूय sacrifice. -कर्मन्
n.
-क्रिया a sacrificial ceremony. -द्रुह्, -द्विष्
m.
a demon, goblin,
The epithet of Ravaṇa
ऋणाद् बद्ध इवोन्मुक्तो वियोगेन क्रतुद्विषः
Bk.*
8.12. -ध्वंसिन्
m.
an epithet of Śiva (who destroyed Dakṣa's sacrifice.)-पतिः the performer of a sacrifice. -पशुः a sacrificial horse. -पुरुषः an epithet of Viṣṇu. -फलम् The reward of a sacrifice, its object. -भुज्
m.
a god, deity. -राज्m.
the lord of sacrifices
यथाश्वमेधः क्रतुराट्
Ms.*
9.26.
the राजसूय sacrifice
-राजः the राजसूय sacrifice
क्रतु- राजेन गोविन्द राजसूयेन पावनीः (यक्ष्ये)
Bhāg.*
1.72.3.
Apte 1890
English
क्रतुः [कृ-कतु Uṇ. 1. 77] 1 A sacrifice
क्रतोरशेषेण फलेन युज्यतां R. 3. 65
शतं क्रतूनामपविघ्नमाप सः 3. 38
M. 1. 4
Ms. 7. 79.
2 An epithet of Viṣṇu.
3 One of the ten Prajāpatis
M. 1. 35.
4 Intelligence, talent.
5 Power, ability.
6 Plan, design, purpose.
7 Resolution, determination.
8 Desire, will.
9 Fitness, adequacy, efficiency.
10 Deliberation, consultation.
11 Inspiration.
12 Enlightenment.
13 Offering, worship.
14 An Aśvamedha sacrifice (these senses are mostly Vedic).
15 The month Āṣāḍha.
16 Excess of fondness or liking.
17 An organ. [cf. Gr. kratos
Zend khratu].
Comp.
उत्तमः the राजसूय sacrifice.
कर्मन् n. a sacrificial ceremony.
द्रुह्,
द्विष् m. a demon, goblin.
ध्वंसिन् m. an epithet of Śiva (who destroyed Dakṣa's sacrifice.)
पतिः the performer of a sacrifice.
पशुः a sacrificial horse.
पुरुषः an epithet of Viṣṇu.
भुज् m. a god, deity.
राज् m. {1} the lord of sacrifices
यथाश्वमेधः क्रतुराट् Ms. 9. 260. {2} the राजसूय sacrifice.
राजः the राजसूय sacrifice.
Hindi
Hindi
वैदिक अनुष्ठान
Apte Hindi
Hindi
क्रतुः
पुं*
- कृ + कतु
यज्ञ
क्रतुः
पुं*
- कृ + कतु
विष्णु का विशेषण
क्रतुः
पुं*
- कृ + कतु
दस प्रजापतियों में एक
क्रतुः
पुं*
- कृ + कतु
"प्रज्ञा, बुद्धि"
क्रतुः
पुं*
- कृ + कतु
"शक्ति, योग्यता"
Wordnet
Sanskrit
Synonyms:
क्रतुः
noun
पौराणिकः ऋषिविशेषः।
"क्रतोः विवाहः कपिलमुनेः भगिन्या सह जातः।"
Synonyms:
यज्ञः, यागः, मेधः, क्रतुः, अध्वरः, मखः, इज्या, सवः, इष्टिः, यज्ञकर्म, यजनम्, याजनम्, आहवः, सवनम्, हवः, अभिषवः, होमः, हवनम्, याज्ञिक्यम्, इष्टम्, वितानम्, मन्युः, महः, सप्ततन्तुः, दीक्षा
noun
वैदिकः विधिविशेषः यस्मिन् देवताम् उद्दिश्य वैदिकैः मन्त्रैः सह हविः प्रदीयते।
वैदिककाले यज्ञाः महत्त्वपूर्णाः आसन्। /"अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो इज्यते। यष्टव्यम् एवेति मनः समाधाय सात्विकः॥ [भ.गी. १७।११]"
शब्दकल्पद्रुमः
Sanskrit
क्रतुः,
पुं,
(क्रियतेऽसौ इति कृ + “कृञः क्तुः” ।उणां ७८ इति कर्म्मणि क्तु प्रत्ययः ।) यज्ञःइत्यमरः
सप्तर्ष्यन्तर्गतब्रह्ममानसपुत्त्रमुनिविशषः ।इति मेदिनी अयन्तु ब्रह्मणः कराज्जातः ।(यथा, महाभारते ६५ १० ।“ब्रह्मणो मानसाः पुत्त्रा विदिताः षण्महर्षयः ।मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः”
)एतस्य भार्य्या प्रजापतेः कर्द्दमस्य कन्या क्रिया ।पुत्राः षाष्ठिसहस्रवालिखिल्याख्याङ्गुष्ठमात्रा ऋ-षयः ।(यथा, -- भागवते ३८ ।“क्रतोरपि क्रिया भार्य्या वालखिल्यानसूयत ।ऋषीन् षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा”
विश्वेदेवविशेषः यथा, हरिवंशे ।आत्मार्थे चासृजत्पुत्त्रान् लोककर्त्तॄन् पितामहः
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः”
तत उक्तं “दक्षं मरीचिमत्रिञ्च पुलस्तं पुलहंक्रतुं वशिष्ठं गौतमञ्चैव भृगुमङ्गिरसं म-नुम्” इत्याद्युपक्रम्य ।“अथर्व्वभूता इत्येते ख्याताश्चैव महर्षयः ।त्रयोदशसुता येषां वंशा वै संप्रतिष्ठिताः”
जटाधरेण तु “विश्वेदेवा दशस्मृताः” इत्युक्तंतत्कल्पभेदादविरुद्धम्
यथा, शतपथब्राह्मणे १० ।“यावत् क्रतुरयमस्माल्लोकात् प्रेत्यैवं क्रतुरमुंलोकं प्रेत्य सम्भवति”
यूपसहितः सोमसाध्यो यज्ञः विष्णुः यथा, विष्णुसंहितायाम् ।“यज्ञ ईज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः”
अस्य भाष्यं यथा, --“अस्य सर्व्वयज्ञस्वरूपत्वात् यज्ञः यूपसहितोयज्ञः क्रतुरिति” अतएव विष्णोः सर्व्वयज्ञ-मयत्वात् यज्ञत्वं क्रतुशब्दस्यापि यूपसहितयज्ञ-बोधकत्वं प्रसिद्धम्
तद्यागे शतपथब्राह्मणादा-वुल्लिखिता यूपविशेषाः यथा, तत्र सोमसाध्य-यागाश्च त्रयः क्रतवः तथाहि श्रुतौ “त्रीन्-क्रतूनन्वाहाग्नेयमुषस्यमाश्विनम्” सङ्कल्पः सङ्कल्पस्तु कामनाधीनश्चित्तवृत्तिविशेषः उक्तञ्च“कामः क्रतुः कर्म्म जन्मेत्येवमेषां क्रमो भवेत्” ।पुंसो या विषयापेक्षा काम इति भण्यते ।स एव वर्द्धमानश्चेत् क्रतुत्वं प्रतिपद्यते”
रुचेरातिशय्यम् यथा, --“रुचेरतिशयः काम्ये विषये क्रतुरीर्य्यते”
स्तुत्यादिकर्म्म यथा, ऋग्वेदे २१ १० ।“पुरुष्टुत ! क्रत्वा नः स्वस्ति” “क्रत्वा कर्म्मणास्तुत्यादिहेतुना” इति भाष्यम्
प्रज्ञा यथा, छान्दोग्योपनिषदि “अथ खलुक्रतुमयः पुरषो यथा क्रतुरस्मिन् लोके पुरुषोभवति तथेतः प्रेत्य भवति क्रतुं कुर्व्वीत”
अस्य भाष्यं यथा, --“कथमुपासीत क्रतुं कुर्व्वीत क्रतुर्निश्चयोऽध्य-वसायश्च एवमेव नान्यथेति अविचलः प्रत्ययस्तंक्रतुं कुर्व्वीतोपासीत इत्यनेन व्यवहितेन सम्बन्धः ।किं पुनः क्रतुकरणेन कर्त्तव्यं प्रयोजनम् ? कथंवा क्रतुः कर्त्तव्यः ? क्रतुकरणं वाभिप्रेतार्थसाधनंकथम् ? इत्यस्यार्थस्य प्रतिपादनार्थमथेत्थादि-ग्रन्थः अथ खल्विति हेत्वर्थः यस्मात् क्रतुमयःक्रतूपायोऽध्यवसायात्मकः पुरुषो जीवः यथाक्रतुर्यादृशः क्रतुरस्य सोऽयं यथा क्रतुर्यथाऽध्य-वसायो यादृङ्निश्चयोऽस्मिँल्लोके जीवन्निह पुरुषोभवति तथेतोऽस्याद्देहात् प्रेत्य मृत्वा भवति ।क्रत्वनुरूपफलात्मको भवतीत्यर्थः एव ह्येतच्छा-स्त्रतो दृष्टम् ‘यं यं वापि स्मरन् भावं त्यजत्यन्तेकलेवरमित्यादि’ यत एवं व्यवस्था शास्त्र-दृष्ट्याऽतः एवं जानन् क्रतुं कुर्व्वीत यादृशं क्रतुंवक्ष्यामस्तम् यत एवं शास्त्रप्रामाण्यादुपपद्यतेक्रत्वनुरूपं फलमतः कर्त्तव्यः क्रतुः” आषाढ-मासः अस्मिन्नेव मासे चातुर्मास्यादियागप्रा-चुर्य्यात् तस्य तथात्वम् यथा, यजुर्व्वदे ।१८ २८ ।“वाजाय स्वाहा, प्रसवाय स्वाहा, अपिजाय स्वाहा, क्रतवे स्वाहा, वसवे स्वाहा” इति “क्रतवे याग-रूपाय चातुर्मास्यादियागप्राचुर्य्यात् क्रतुराषाढः”
इति वेददीधितिः
अश्वमेधयज्ञः यथा, मनौ ।७ ७९ ।“यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः ।धर्म्मार्थञ्चैव विप्रेभ्यो दद्याद्भोगान् धनानि च”
)