| YouTube Channel

क्नूयी (knUyI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्नूय्
मूलधातुः:
क्नूयी
धात्वर्थः:
शब्दे-उन्दने
गणः:
भ्वादिः
कर्मकत्वं:
शब्दे अकर्मकः, उन्दने सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
क्नूयते
अनुबन्धादिविशेषः:
ईदित्
धातुप्रदीपः
Sanskrit
क्नूयीँ क्नूयी शब्दे, उन्दे
- क्नूयते चुक्नूये क्नोपयति चेलक्नोपम् क्नूतः, क्नूतवान् ।। 484 ।।
क्षीरतरङ्गिणी
Sanskrit
क्नूयीँ क्नूयी शब्दे, उन्दने
-(अर्थविवरणम्) उन्दनं क्लेदनम्
क्नूयते क्नूयिता क्नूतः यः (32152) इति युज् नास्ति, अतस्तच्छीलादौ कर्तरि तृन् एव-क्नूयनशीलः क्नूयिता अर्तिह्रीव्ली (7336) इति णौ पुक्-क्नोपयति चेले क्नोपेः (3433) इति णमुल् वस्त्रक्नोपं वृष्टो देवः 473
धातुवृत्तिः
Sanskrit
क्नूयीँ क्नूयी (अर्थः) शब्दे, उन्दे
(क्नूयते) चुक्नूये क्नेयिता ) इत्यादि पूयतिवत् क्रोपयदि"अर्त्तिह्णीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ'' इति पुकि यलोपे "पुगन्तलघूपधस्य च'' इति गुणः (अचुक्नूपत् )कृतेपि गुणे "णौ चङि'' इति ह्रस्वः क्नूयीति सानुबन्धकस्य निर्द्देशाद्यङ्लुकि (चोक्नूयीईति) भवति (चेलक्रोपं वृष्टो देवः) "चेले क्रोपेः''इति ण्यन्तादस्मात् कर्मणिचेल उपपदे वर्षप्रमाणे गम्यमाने णमुल् यावता वर्षेण चेलं क्नूप्यते तावद् वृष्टइत्यर्थः चेलइत्यर्थग्रहणमिति (वस्त्रक्रोपम्) इत्याद्यपि भवतिअस्यापीदित्त्वान्निष्टायामनिट्त्वम् 481
कृदन्तरूपमाला
Sanskrit
1 {@“क्नूयी शब्दे, उन्दने च”@} 2 उन्दनम् = क्लेदनम्।
क्नूयकः-यिका, 3 क्नोपकः-पिका, चुक्नूयिषकः-षिका, चोक्नूयकः-यिका
क्नूयिता-त्री, क्नोपयिता-त्री, चुक्नूयिषिता-त्री, चोक्नूयिता-त्री
-- 4 क्नोपयन्-न्ती, क्नोपयिष्यन्-न्ती-ती
-- क्नूयमानः, क्नोपयमानः, चुक्नूयिषमाणः, चोक्नूयमानः
क्नूयिष्यमाणः, क्नोपयिष्यमाणः, चुक्नूयिषिष्यमाणः, चोक्नूयिष्यमाणः
5 सुक्नूः-सुक्नुवौ-सुक्नुवः
-- -- -- 6 क्नूतम्-तः, क्नोपितः, चुक्नूयिषितः, चोक्नूयितः-तवान्
7 8 क्नूयः, 9 क्नूयिता, क्नोपः, चुक्नूयिषुः, चोक्नूयः
क्नूयितव्यम्, क्नोपयितव्यम्, चुक्नूयिषितव्यम्, चोक्नूयितव्यम्
10 प्रनिक्नूयनीयम्, क्नोपनीयम्, चुक्नूयिषणीयम्, चोक्नूयनीयम्
क्नूय्यम्, क्नोप्यम्, चुक्नूयिष्यम्, चोक्नूय्यम्
ईषत्क्नूयः-दुष्क्नूयः-सुक्नूयः
-- -- क्नूय्यमानः, 11 क्नोप्यमानः, चुक्नूयिष्यमाणः, चोक्नूय्यमानः
क्नूयः, क्नोपः, चुक्नूयिषः, चोक्नूयः
क्नूयितुम्, क्नोपयितुम्, चुक्नूयिषितुम्, चोक्नूयितुम्
12 क्नूया, क्नोपना, चुक्नूयिषा, चोक्नूया
क्नूयनम्, क्नोपनम्, चुक्नूयिषणम्, चोक्नूयनम्
क्नूयित्वा, क्नोपयित्वा, चुक्नूयिषित्वा, चोक्नूयित्वा
प्रक्नूय्य, विक्नोप्य, प्रचुक्नूयिष्य, प्रचोक्नूय्य
13 वस्त्रक्नोपम् 14, 15 चेलक्नोपम्, वसनक्नोपम् 16
क्नूयम् २, क्नूयित्वा २, क्नोपम् २, क्नोपयित्वा २, चुक्नूयिषम् २, चुक्नूयिषित्वा २, चोक्नूयम्
चोक्नूयित्वा २।
प्रासङ्गिक्यः
01
=>
(२६७)
02
=>
(१-भ्वादिः-४८५। सक। सेट्। आत्म।)
03
=>
[[३। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इति णौ पुक्। वलि लोपः (६-१-६६)। ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति गुणः। एवं ण्यन्ते सर्वत्र प्रक्रिया बोध्या।]]
04
=>
[[आ। ‘प्रक्नोपयन्तं मुरलीं महीभरक्ष्मायं बलस्फीतसुपीनदोर्युगम्।’ धा। का। १-६३।]]
05
=>
[[४। ‘लोपो व्योर्वलि’ (६-१-६६) इति यकारलोपः।]]
06
=>
[[५। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्णिषेधः। यलोपः।]]
07
=>
[पृष्ठम्०२७३+ २५]
08
=>
[[१। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः।]]
09
=>
[[२। ‘न यः’ (३-२-१५२) इति निषेधात्, अनुदात्तेल्लक्षणो युज् न। तेन, ‘तृन्’ (३-२-१३५) इति तच्छीलादिषु तृन्नेव।]]
10
=>
[[३। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति पर्युदासाण्णत्वं न।]]
11
=>
[[४। णिनिमित्तके, ‘पुगन्त--’ (७-३-८६) इति गुणे क्नोप्यमान इत्येव।]]
12
=>
[[५। ‘गुरोश्च हलः’ (३-३-१०३) इति अः प्रत्ययः।]]
13
=>
[[६। ‘चेले क्नोपेः’ (३-४-३३) इति ण्यन्तात् णमुल्। चेलपर्यायाणामपि ग्रहणम्-- इति व्याख्यानात् वस्त्रक्नोपमित्यादीनामपि साधुत्वम्।]]
14
=>
[वृष्टो देवः]
15
=>
[[आ। ‘मेघास्सविद्युतोऽवर्षन् चेलक्नोपं शोणितम्।’ भ। का। १७-७४।]]
16
=>
[वा]