| YouTube Channel

कौषिकी (kauSikI)

 
शब्दकल्पद्रुमः
Sanskrit
कौषिकी,
स्त्री,
(कौशिकी + पृषोदरात् षकारा-देशः ।) कौशिकी इति मेदिनी
कालिका-कायकोषनिःसृतदेवीविशेषः यथा, --“कायकोषान्निःसृता या कालिकायास्तु भैरव ! ।सा कौषिकीति विख्याता चारुरूपा मनोहरा
निःसृता हृदयाद्देव्या रसनाग्रेण चण्डिका ।नैतस्याः सदृशी मूर्त्त्या चारुरूपेण विद्यते
त्रिषु लोकेषु कान्त्या वा नास्यास्तुल्या भविष्यति ।योगनिद्रा महामाया या मूलप्रकृतिः स्मृता
तस्याः प्राणस्वरूपेयं देवी सा कौषिकी स्मृता ।नेत्रवीजं तथैतस्या वीजन्तु परिकीर्त्तितम्
तन्त्रमस्याः प्रवक्ष्यामि सर्व्वकामप्रदं नृणाम् ।समाप्ति नान्त्यदन्त्यस्तु षष्ठवर्गादिविन्दुना
षष्ठस्वरेण संसृष्ठो विन्दुना समलङ्कृतः ।कौषिकीतन्त्रमन्त्रोऽयं धर्म्मकामार्थदायकः
एतस्याः सम्प्रवक्ष्यामि मूर्त्तिरूपञ्च भैरव ! ।शृणुष्वैकमना भूत्वा जगदाह्लादकारकम्
धम्मिल्लसंयतकचा विधोश्चाधोमुखीं कलाम् ।केशान्ते तिलकस्यीर्द्धे दधती सुमनोहरा
मणिकुण्डलसंघृष्टगण्डा मुकुटमण्डिता ।सज्योतिःकर्णपूराभ्यां कर्णमापूर्य्य सङ्गता
सुवर्णमणिमाणिक्यनागहारविराजिता ।सदा सुगन्धिभिः पुष्पैरम्लानैरतिसुन्दरी
मालां बिभर्त्ति ग्रीवायां रत्नकेयूरधारिणी ।मृणालायतवृत्तैस्तु बाहुभिः कोमलैः शुभैः
राजन्ती कञ्चुकोपेतपीनोन्नतपयोधरा ।क्षीणमध्या पीतवस्त्रा त्रिवलीपरिभूषिता
शूलं वज्रञ्च वाणञ्च खड्गं शक्तिं तथैव ।दक्षिणैः पाणिभिर्द्देवी गृहीत्वातिविराजिता
गदां घण्टाञ्च चापञ्च चर्म्म शङ्खं तथैव ।ऊर्द्ध्वादिक्रमतो देवी दधती वामपाणिभिः
सिंहस्योपरि तिष्ठन्ती व्याघ्रचर्म्मणि कौषिकी ।बिभ्रती रूपमतुलं सुरासुरमनोहरम्
एतस्याः शृणु वत्स त्वं याः पूज्या अष्टयोगिनीः ।ताः पूजिताश्च कुर्व्वन्ति चतुर्व्वर्गं नृणां सदा
ब्रह्माणी प्रथमा प्रोक्ता ततो माहेश्वरी परा ।कौमारी वैष्णवी चैव वाराही पञ्चमी तथा
नारसिंही तथैवैन्द्री शिवदूती तथाष्टमी ।एताः पूज्या महाभागा योगिनीः कामदायिनीः”
इति कालिकापुराणे उत्तरतन्त्रे ६० अध्यायः
*
अन्यच्च ।“शरीरकोषतश्चास्याः समुद्भूताब्रवीच्छिवा ।स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः
देवैः समेतैः समरे निशुम्भेन पराजितैः ।शरीरकोषाद्यत्तस्याः पार्व्वत्या निःसृताम्बिका
कौषिकीति समस्तेषु ततो लोकेषु गीयते”
इति मार्कण्डेयपुराणे देवीमाहात्म्ये अध्यायः
अपरा व्युत्पत्तिर्यथा, --“अल्पेनैवोपकारेण यस्माल्लोके सुखप्रदा ।कौषेयधारणाद्वापि सप्रसादाथ कौषिकी”
इति देवीपुराणे देवीनिरुक्ताध्यायः ४५