| YouTube Channel

कौलीनं (kaulInaM)

 
शब्दकल्पद्रुमः
Sanskrit
कौलीनं,
क्ली,
(कौ पृथिव्यां लीनम् भूलीनपदार्था-नामिव एतेषामप्रकाशतया तथात्वम् ।) गुह्यम् ।जन्यम् कुकर्म्म (कुलीनस्य भावः युवादित्वा-दण् ।) कुलीनत्वम् (यथा, रामायणे ।“सदश्व इव मर्य्यादां कौलीनां नाभ्यवर्त्तत”
)पश्वहिपक्षिणां युद्धम् इति मेदिनी
कौलेय-कः इति विश्वः
(ली भावे क्तः तस्य नत्वम् लीनंलयः कौ पृथिव्यां लीनं लयो यस्मात् कुलीनंभूमिलयमर्हतीति अण् वा ।) लोकवादः ।इत्यमरः ११६ ।(यथा, रघौ १४ ८४ ।“कौलीनभीतेन गृहान्निरस्तान तेन वैदेहसुता मनस्तः”
निन्दा यथा, तत्रैव १४ ३६ ।“कौलीनमात्माश्रयमाचचक्षेतेभ्यः पुनश्चेदमुवाच वाक्यम्”
)