| YouTube Channel

कौलवः (kaulavaH)

 
शब्दकल्पद्रुमः
Sanskrit
कौलवः,
पुं,
ववाद्येकादशान्तर्गततृतीयकरणम् ।तत्र जातस्य फलं यथा, --“वाग्मी विनीतो नितरां स्वतन्त्रःप्रागल्भ्ययुक्तो मनुजो महौजाः ।सुसम्मतः स्याद्विदुषां कृतघ्न-श्चेत् कौलवाख्यं करणं प्रसूतौ”
इति कोष्ठीप्रदीपः