कोष (koSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishकोष mn. (-षः-षं)
1. A bud 2. A sheathe, a scabbard, &c.
3. A coat, a
surrounding cover, any investing sheathe.
4. Judicial trial by
oath or ordeal, or by fire, water, poison, the balance, heated balls
of iron, boiling oil, &c. attesting a deity, and touching or drinking
water three times in which some idol has been washed.
5. Gold or
silver, wrought or unwrought as plate, jewellery, &c.
6. Wealth.
7. Accumulated wealth, treasure.
8. A treasury, the apartment
where money or plate is kept.
9. A sacrificial vessel or any drink-
ing vessel. 10 The vulva, the womb.
11. The penis.
12. A test-
icle or the scrotum.
13. An egg.
14. (In composition) A ball or
globe, as सूत्रकोष a ball of thread, नेत्रकोष the eyeball, &c.
15. The
inner part of the Jack-fruit or its like.
16. A nutmeg.
17. A dic-
tionary or vocabulary.
18. A term for the five sheathes or cases
which successively make up the body enveloping the soul. (In
Vedanta Philosophy.)
(-षी)
1. A shoe, a sandal.
2. The beard
of corn: see कोश
कुष् or कोश् to issue, affix घञ् hence the word
is optionally कोष or कोश
the meanings may be mostly resolved
into that, from which something issues or evolves.
Yates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishकोष - koSa - - pocket
विद्युत्-कोष - vidyut-koSa - - battery
कोष - koSa - - bud
कोष - koSa - - store-room
कोष - koSa - - case
कोष - koSa - - treasury
कोष - koSa - - lexicon
कोष - koSa - - trunk
कोष - koSa - - mass
कोष - koSa - - vessel
कोष - koSa - - store
कोष - koSa - - box
कोष koSa lexicon
अभिधान abhidhAna lexicon
अभिधानी abhidhAnI lexicon
हैमकोश haimakoza Hemacandra's lexicon
कोश koza lexicon or vocabulary
हैम haima lexicon of hemacandra
Wilson
Englishकोष
mn. (-षः-षं)
1 A bud.
2 A sheathe, a scabbard, &c.
3 A coat, a surrounding cover, any investing sheathe.
4 Judicial trial by oath or ordeal, or by fire, water, poison, the balance,
heated balls of iron, boiling oil, &c. attesting a deity, and touching or
drinking water three times in which some idol has been washed.
5 Gold or silver, wrought or unwrought, as plate, jewellery, &c.
6 Wealth.
7 Accumulated wealth, treasure.
8 A treasury, the apartment where money or plate is kept.
9 A sacrificial vessel or any drinking vessel.
10 The vulva, the womb.
11 The penis.
12 A testicle or the scrotum.
13 An egg.
14 (In composition, ) A ball or globe, as सूत्रकीष a ball of thread,
नेत्रकोष the eyeball, &c.
15 The inner part of the Jack-fruit or its like.
16 A nutmeg.
17 A dictionary or vocabulary.
(-षी)
1 A shoe, a sandal.
2 The beard of corn: see कोश.
कुश or कुष to issue, affix घञ्
hence the word is optionally
कोष or कोश
the meanings may be mostly resolved into, that from which
something issues or evolves.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishHindi
Hindiएक पोत, बाल्टी, एक बॉक्स, seheath, कवर, दुकान, स्टोर रूम, कोषागार, जायफल, शब्दकोश, शब्दकोश, शब्दावली
Apte Hindi
Hindiकोषः
- "कुष् - घञ्, अच् वा"
"तरल पदार्थों को रखने का बर्तन, बाल्टी"
कोषः
- "कुष् - घञ्, अच् वा"
"डोल, कटोरा"
कोषः
- "कुष् - घञ्, अच् वा"
पात्र
कोषः
- "कुष् - घञ्, अच् वा"
"संदूक, डोली, दराज, ट्रंक"
कोषः
- "कुष् - घञ्, अच् वा"
"म्यान, आवरण"
कोषः
- "कुष् - घञ्, अच् वा"
"पेटी, ढकना, ढक्कन"
कोषः
- "कुष् - घञ्, अच् वा"
"भण्डार, ढेर"
कोषः
- "कुष् - घञ्, अच् वा"
भण्डारगृह
कोषः
- "कुष् - घञ्, अच् वा"
"खजाना, रुपया पैसा रखने का स्थान"
कोषः
- "कुष् - घञ्, अच् वा"
"निधि, रुपया, दौलत"
कोषः
- "कुष् - घञ्, अच् वा"
"सोना, चाँदी"
कोषः
- "कुष् - घञ्, अच् वा"
"शब्दकोश, शब्दार्थ संग्रह, शब्दावली"
कोषः
- "कुष् - घञ्, अच् वा"
"अनखिला फूल, कली"
कोषः
- "कुष् - घञ्, अच् वा"
किसी फल की गिरी
कोषः
- "कुष् - घञ्, अच् वा"
फली
कोषः
- "कुष् - घञ्, अच् वा"
"जायफल, कठोरत्वचा"
कोषः
- "कुष् - घञ्, अच् वा"
रेशम का कोया
कोषः
- "कुष् - घञ्, अच् वा"
"झिल्ली, गर्भाशय"
कोषः
- "कुष् - घञ्, अच् वा"
अण्डा
कोषः
- "कुष् - घञ्, अच् वा"
"अण्डकोश, फोते"
कोषः
- "कुष् - घञ्, अच् वा"
शिश्न
कोषः
- "कुष् - घञ्, अच् वा"
"गेंद, गोला"
कोषः
- "कुष् - घञ्, अच् वा"
"पाँच कोष जो सब मिलकर शरीर रचना करते हैं - जिसमें आत्मा निवास करती है, अन्नमय, प्राणमय आदि"
कोषः
- "कुष् - घञ्, अच् वा"
एक प्रकार की अपराधियों की अग्निपरीक्षा
कोषम्
- "कुष् - घञ्, अच् वा"
"तरल पदार्थों को रखने का बर्तन, बाल्टी"
कोषम्
- "कुष् - घञ्, अच् वा"
"डोल, कटोरा"
कोषम्
- "कुष् - घञ्, अच् वा"
पात्र
कोषम्
- "कुष् - घञ्, अच् वा"
"संदूक, डोली, दराज, ट्रंक"
कोषम्
- "कुष् - घञ्, अच् वा"
"म्यान, आवरण"
कोषम्
- "कुष् - घञ्, अच् वा"
"पेटी, ढकना, ढक्कन"
कोषम्
- "कुष् - घञ्, अच् वा"
"भण्डार, ढेर"
कोषम्
- "कुष् - घञ्, अच् वा"
भण्डारगृह
कोषम्
- "कुष् - घञ्, अच् वा"
"खजाना, रुपया पैसा रखने का स्थान"
कोषम्
- "कुष् - घञ्, अच् वा"
"निधि, रुपया, दौलत"
कोषम्
- "कुष् - घञ्, अच् वा"
"सोना, चाँदी"
कोषम्
- "कुष् - घञ्, अच् वा"
"शब्दकोश, शब्दार्थ संग्रह, शब्दावली"
कोषम्
- "कुष् - घञ्, अच् वा"
"अनखिला फूल, कली"
कोषम्
- "कुष् - घञ्, अच् वा"
किसी फल की गिरी
कोषम्
- "कुष् - घञ्, अच् वा"
फली
कोषम्
- "कुष् - घञ्, अच् वा"
"जायफल, कठोरत्वचा"
कोषम्
- "कुष् - घञ्, अच् वा"
रेशम का कोया
कोषम्
- "कुष् - घञ्, अच् वा"
"झिल्ली, गर्भाशय"
कोषम्
- "कुष् - घञ्, अच् वा"
अण्डा
कोषम्
- "कुष् - घञ्, अच् वा"
"अण्डकोश, फोते"
कोषम्
- "कुष् - घञ्, अच् वा"
शिश्न
कोषम्
- "कुष् - घञ्, अच् वा"
"गेंद, गोला"
कोषम्
- "कुष् - घञ्, अच् वा"
"पाँच कोष जो सब मिलकर शरीर रचना करते हैं - जिसमें आत्मा निवास करती है, अन्नमय, प्राणमय आदि"
कोषम्
- "कुष् - घञ्, अच् वा"
एक प्रकार की अपराधियों की अग्निपरीक्षा
Shabdartha Kaustubha
Kannadaकोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಅಂಡ /ಮೊಟ್ಟೆ
निष्पत्तिः - > कुष (निष्कर्षे) - "घञ्" (३-३-१९)
व्युत्पत्तिः - > कुष्यति निष्क्रामत्यस्मात्
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಪಾನಪಾತ್ರೆ /ಕುಡಿಯುವ ಪಾತ್ರೆ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಕತ್ತಿಯ ಒರೆ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಮುಚ್ಚಳ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಶಬ್ದಕೋಶ /ಅಮರ ಮೊದಲಾದ ನಿಘಂಟು
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಖಜಾನೆ /ಬೊಕ್ಕಸ /ಧನರಾಶಿ
प्रयोगाः - > "तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम्"
उल्लेखाः - > रघु० ५-१
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಸಮೂಹ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಕಾಯಿ ಧಾನ್ಯ ಮೊದಲಾದುವುಗಳ ಸಿಪ್ಪೆ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಕುಡ್ಮಲ /ಮೊಗ್ಗು
प्रयोगाः - > "आसारसिक्तक्षितिबाष्पयोगात् मामक्षिणोद्यत्र विभिन्नकोशैः"
उल्लेखाः - > रघु० १३-२९
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಹಲಸು ತೆಂಗು ಮೊದಲಾದುವುಗಳ ಒಳಭಾಗ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಮೋಡ /ಮೇಘ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ವೇದಾಂತಿಗಳ ಮತದಲ್ಲಿ ಜೀವನಿಗೆ ಆವರಣವಾಗಿರುವ ೧)ಅನ್ನಮಯ ೨)ಪ್ರಾಣಮಯ ೩)ಮನೋಮಯ ೪)ವಿಜ್ಞಾನಮಯ ೫)ಆನಂದಮಯಗಳೆಂಬ ೫ ಕೋಶಗಳು
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಗೋಳ/ವರ್ತುಲ /ಗುಂಡು
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಯೋನಿ /ಸ್ತ್ರೀಯರ ಜನನೇಂದ್ರಿಯ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಜಾಯಿಕಾಯಿ
विस्तारः - > "कोशः कोष इवाण्डके । कुड्मले चषके दिव्येऽर्थचये योनिशिम्बयोः । जातीकोषेऽसिपिधाने" - हेम० ।
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಶಾಸ್ತ್ರ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಗೃಹ /ಮನೆ /ವಾಸಸ್ಥಳ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಪುಸ್ತಕಗಳ ರಾಶಿ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ದೇಹ /ಶರೀರ
विस्तारः - > "कोशोऽस्त्री कुड्मलेऽर्थौघे गुह्येऽङ्गे शास्त्रदिव्ययोः । गृहे देहे पुस्तकौघे पेश्यामसिपिधानके" - नानार्थर० ।
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ರೇಷ್ಮೆ ಹುಳುವಿನ ಗೂಡು
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಗರ್ಭಕೋಶ
कोश (ष)
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ಪರಸ್ಪರ ಸಂಬಂಧವಿಲ್ಲದ ಅನೇಕ ಶ್ಲೋಕಗಳ ಸಮುದಾಯ
कोष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > कोश ಪದದ ಅರ್ಥ
L R Vaidya
EnglishkoSa(za) {% m.n. %} 1. A vessel for holding liquids, a pail, a bucket, a cup
2. a vessel in general
3. a box, a cupboard, a trunk
4. a sheath, a scabbard
5. a case, a cover
6. store, mass, provisions, M.i.99
7. a store-room
8. a treasury, an apartment where money is kept, M.viii.419
9. gold or silver wrought or un-wrought, wealth, treasure, निःशेषविश्राणितकोशजातम् R.v.1
10. a dictionary, a lexicon, a vocabulary
11. a closed flower, a bud, इत्थं विचिंतयति कोशगते द्विरेफे or विभिन्नकोशैः नवकंदलैः R.xiii.29, iii.8
12. the stone of a fruit
13. a nut-meg, a nut-shell
14. the cocoon of a silk-worm, Yaj.iii.147
15. vulva, the womb
16. an egg
17. a testicle or the scrotum
18. the penis
19. a ball, a globe
20. a term for the five sheaths or cases which successively make up the body enveloping the soul (in Vedānta phil.)
21. a kind of ordeal (in law), Yaj.ii.114.
भूतसङ्ख्या
Sanskrit६, अङ्ग, अब्द, अराति अरि, ऋतु, काय, कारक, कार्तिक, काल, कुमार, कुमारवदन, कृत्तिका, कोष, क्ष्माखण्ड, खर, गुहक, गुहवक्त्र, गुहास्य, चक्रार्ध, चमू, चरक, जीव, तर्क, दर्शन, द्रव्य, भार्ध, मासार्ध, रस, राग, रासभ, रिपु, लेख्य, लेश्या, वर्ण, शक्ति, शास्त्र, शिलीमुखपद, शिशु, षट्, षण्मुख, समास, सेना, स्कन्द, स्वाद
Schmidt Nachtrage zum Sanskrit Worterbuch
GermanSanskrit Tibetan
Tibetanke'u tshang
कोष
kha khebs
कोष
kha ma bye
कोष
sgam
१) कोष २) पिट ३) मञ्जूषा
नाममाला
Sanskritमर्मन्, कोष
मर्म कोषं च कलहं परिवादं छलं नयेत् ।
verse 0.1.1.188
page 0089
Vedic Reference
Englishशब्दकल्पद्रुमः
Sanskritकोषः, पुं (कुष्यन्ते आकृष्यन्ते फलपुष्पोत्पादक-मधुमयपरागादयो यस्मिन् । कुष् ग निष्कर्षे +घञकर्त्तरि चेति अधिकरणे घञ् ।) कुद्मलः ।कुँडि इति भाषा । खङ्गपिधानम् । खाप इतिभाषा । (यथा, महाभारते । ४ । ४० । १३-१५ ।“कस्यायं विपुलः खङ्गो गव्ये कोषे समर्पितः ।हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ॥
कस्य पाञ्चनखे कोषे शायको हेमविग्रहः ।प्रमाणरूपसम्पन्नः पीत आकाशसन्निभः ॥
कस्य हेममये कोषे सुतप्ते पावकप्रभे ।निस्त्रिंशोऽयं गुरुः पीतः शैक्यः परमनिर्व्रणः” ॥
)अर्थसमूहः । (यथा, रघौ । ५ । १ ।“तमध्वरे विश्वजिति क्षितीशंनिःशेषविश्राणितकोषजातम्” ॥
)दिव्यम् । (यथा, राजतरङ्गिण्यां । ५ । ३३५ ।“ततो निक्षिप्य चरणं रक्ताक्ते मेषचर्मणि ।कोषं चक्रतुरन्योऽन्यं सखड्गौ नृपडामरौ” ॥
)अण्डम् । कृताकृतं हेमरूप्यम् । इत्यमरः । २ ।९ । ९१ । अस्य विवरणं तालव्यान्ते द्रष्टव्यम् ।पात्रम् । जातीकोषः । जायफल इति भाषा ।(जातीपत्री । जयित्री-अर्थे व्यवहारो । यथा, गर्भचिन्तामणिरसे ।“रसं तालं तथा लौहं प्रत्येकं कर्षमात्रकम् ।कर्षद्वयन्तथाचाभ्रं कर्पूरं वङ्गताम्रकम् ॥
जातीफलं तथा कोषं गोक्षुरञ्च शतावरीम् ।बलातिबलयोर्मूलं प्रत्येकं तोलकं शुभम् ॥
वारिणा वटिका कार्य्या द्विगुञ्जा फलमानतः ।सन्निपातं निहन्त्याशु स्त्रीणाञ्चैव विशेषतः ॥
गर्भिण्या ज्वरदाहञ्च प्रदरं सूतिकामयम्” ॥
इति वैद्यकभैषज्यधन्वन्तरिग्रन्थे स्त्रीरोगाधि-कारे ॥
) शब्दादिसंग्रहः । इति मेदिनी । (यथा, अमरकोषः ॥
) भाण्डागारम् । पानपात्रचषकः ।योनिः । शिम्बा । इति हेमचन्द्रः ॥
पनसादिफल-स्यान्तः । इति धरणी ॥
शब्दान्तरसंयोगे गोलक-वाचकः । यथा सूत्रकोषः नेत्रकोष इत्यादि । प्रत्य-मरटीकायां स्वामी ॥
धनसंहतिः । इति जटाधरः ॥
(यथा, मार्कण्डेयपुराणे देवीमाहात्म्ये ।“कोषो बलञ्चापहृतं तत्रापि स्वपुरे ततः” ॥
)तत्सञ्चयगुणाः ।“कोषो महीपतेर्जीवो न तु प्राणाः कथञ्चन ।द्रव्यं हि राजा भूपस्य न शरीरमिति स्थितिः ॥
धर्म्महेतोः सुखार्थाय भृत्यानां भरणाय च ।आपदर्थञ्च संरक्ष्यः कोषः कोषवता सदा ॥
धनात् कुलं प्रभवति धनाद्धर्म्मः प्रवर्त्तते ।नाधनस्य भवेद्धर्म्मः कामश्चैव कथञ्चन ॥
अधर्म्मान्न धनं कुर्य्यात्तद्धनं गृह्यते परैः ।स्वयं पापस्य पात्रं स्यात् सिंहो हस्तिवधादिव ॥
तादात्मिको मूलहरः कदर्य्यस्त्रिविधोऽर्जकः ।उत्पन्नार्थव्ययकरो यो भविष्यद्धनाशया ॥
स तादात्मिक आख्यातः कल्याणी तस्य नायतिः ।यः पित्राद्यर्ज्जितं वित्तमन्यायेन तु भक्षयेत् ॥
स मूलहर आख्यातस्तदुदर्कोऽपि चाशुभः ।स कदर्य्यस्तु भृत्यात्मपीडनैरर्थसञ्चयी ॥
तद्धनं राजदायादतस्कराणां निधिर्भवेत् ।भिक्षा च राजकोषश्च स्तोकस्तोकेन वर्द्धते ॥
अञ्जनञ्च धनञ्चैव स्तोकस्तोकेन हीयते ।कोवस्य साधनोपायो मुख्यं राष्ट्रमिति स्मृतम् ॥
भूगुणेर्वर्द्धते राष्ट्रं तद्वृद्धिर्नृपवृत्तता ।राज्ञोपायेन संरक्ष्या ग्रामे ग्रामे कृषीतलाः ॥
तेभ्यः कृषिस्ततश्चार्था अर्थेभ्यः सर्व्वसम्पदः ।शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ॥
तथा वर्षेषु वर्षेषु कर्षणात् भूगुणक्षयः ।एकस्यां गुणहीनायां कृषिमन्यत्र कारयेत्” ॥
इति युक्तिकल्पतरुः ॥
* ॥
(वेदान्तशास्त्रोक्तस्थूल-सूक्ष्मादिभेदेन शरीरत्रयावच्छिन्नः अन्नमयः प्राण-मयः मनोमयः विज्ञानमयः आनन्दमयश्च इत्येतेपञ्च कोषवदाच्छादकत्वादात्मनः कोषतयोच्यन्ते ।यथा, पञ्चदश्यां ३ । १-११ ।“गुहाहितं ब्रह्म यत्तत् पञ्चकोषविवेकतः ।बोद्धुं शक्यं ततः कोषपञ्चकं प्रविविच्यते ॥
देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः ।ततः कर्त्ता ततो भोक्ता गुहा सेयं परम्परा ॥
पितृभुक्तान्नजाद्वीर्य्याज्जातोऽन्नेनैव वर्द्धते ।देहः सोऽन्नमयो नात्मा प्राक्चोर्द्ध्वं तदभावतः ॥
पूर्व्वजन्मन्यसत्वे तज्जन्म सम्पादयेत् कथम् ।भाविजन्मन्यसत्कर्म्म न भुञ्जीतेह सञ्चितम् ॥
पूर्णो देहे बलं यच्छन्नक्षाणां यः प्रवर्त्तकः ।वायुः प्राणमयो नासावात्मा चैतन्यवर्ज्जनात् ॥
अहन्तां ममतां देहे गृहादौ च करोति यः ।कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः ॥
लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा ।चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् ॥
कर्तृत्वकरणत्वाभ्यां विक्रियेतान्तरिन्द्रियम् ।विज्ञानमनसी अन्तर्व्वहिश्चैते परस्परम् ॥
काचिदन्तर्मुखा वृत्तिरानन्दप्रतिविम्बभाक् ।पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते ॥
कादाचित्कत्वतो नात्मा स्यादानन्दमयोऽप्ययम् ।विम्बभूतो य आनन्द आत्माऽसौ सर्व्वदास्थितेः ॥
ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु ।माभूदात्मत्वभन्यस्तु न कश्चिदनुभूयते” ॥
)
वाचस्पत्यम्
Sanskritकोश(ष) पुंन० अद्धच्चादि कुश्(ष)--आधारादौ घञ्कर्त्तरि अच् वा । १ अण्डे शब्दर० । कृताकृतयोः२ हेमरूप्ययोः अमरः । ३ कुट्मले मुकुले ४ खङ्गपिधाने ।(खाप) ५ समूहे ६ दिव्यभेदे अमरः । मूर्द्धन्यमध्यस्तुअभिधानरूपे ७ शब्दपर्य्यायज्ञापकग्रन्थे मेदि० ८ धना-द्यागारे ९ पानपात्रे चषके १० शिम्बायां हेमच० ।षनसादिमध्यस्थे (कोया) ख्याते ११ पदार्थे धर० ।शब्दान्तरपूर्व्वस्तु गोलकाकारे १२ पदार्थे यथा “नेत्र-कोषः” क्षीरस्वामी । तत्र खङ्गपिधाने “वैयाघ्रकोषेनिहितो हेमचित्रत्सरुर्म्महान्” । “पृथुलश्चित्रकोशश्च”तस्य हेममये कोषे सुतप्ते षावकप्रभे” भा० वि० ४२ अ० ।बहुशः प्रयोगः । धनागारे “निःशेषविश्राणितकोषजातम्”मुकुले “मामक्षिणोद् यत्र विभिन्नकोशैः” “भिन्नाद्रिगैरिक-तटा इव दन्तकोशाः” रघुः १३ त्वगाद्यावरणे कोषवदाव-रकत्वात् “शरीरकोशाद्यत्तस्याः पार्वत्यानिःसृताम्बिका ।कौशिकीति समाख्याता ततोलोकेषु गीयते” देवीमा० ।१४ पिधानमात्रे “सुजातयोः पङ्कजकोशयोः श्रियम्” रघु ।“कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात्” सुश्रु० “योवा अयंद्वीपः कुवलयकमलकोषाभ्यन्तरकोशः:” भाग० ५ । १६ । ६ ।कोश(ष)पानदिव्यञ्च वीरमि० दर्शितोयथा “अथकोश(ष)विधिः । तत्र “अतः पं प्रवक्ष्यामि कोश(ष)स्यविधिमुत्तमम् । शास्त्रविद्भिर्यथा प्रोक्तं सर्वकाला-विरोधिनम् । पुर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्यच । सशङ्कस्याऽव्यसनिनः कोशपानं विधीयते । इच्छतःश्रद्दधानस्य देवव्राह्मणसन्निधाविति” । सशङ्कस्य असत्येनदिव्यकरणेऽनिष्टशङ्कायुक्तस्य कोशपानम् । उग्रदेवता-स्नानोदकषानं देवतास्नानोदकञ्च प्रसृतित्रर्य ग्राह्यमित्याहचिष्णुः “उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात्प्रसृ-तित्रयं पिबेदिदम्मया न कृतमिति व्याहरन् देवतामिमुखः”इति । याशवक्ल्योऽपि “देवानुग्रान् समभ्यर्च्य तत्स्ना-नोदकमाहरेत् । संश्राव्य पाययेत्तस्माज्जलात्तु प्रसृतित्रय-मिति” । उग्रान्देवान्दुर्गादित्यादीन् । तेषामन्यतमं देवंप्राड्विवाकः सोपवासो गन्धपुष्पादिभिः सम्प्रूज्य स्नापयि-त्वा तत्स्नानोदकं दिव्यदेशन्नयेदित्यर्थः । नीत्वा च तत्रनिधाय धर्मावाहनादि शोध्यशिरसि पत्रारोपणार्न्तं सर्व-दिव्यसाधारणविधिं विधाय देवतायतनसमीपे मण्डलञ्चविधाय तत्र शोध्यं प्राङमुखं स्थापयित्वा तमसत्येनैतद्दि-व्यकरणेऽनिष्टं संश्राव्य जलविधानोक्तेन “तोय! त्वंप्राणिनांप्राणः” इत्यादिना मन्त्रेणाभिमन्त्र्य पूर्वनिहितोदवात् प्रसृतित्रयं पाययेत् । शोध्यश्च जलविधानोक्तेन “सत्यानृत-विभागस्य” इत्यादिना मन्त्रेणाभिमन्त्र्य पिवेत् । तथा चनारदः “तमाहूयाभिशस्तन्तु मण्डलाभ्यन्तरे स्थितम् । आ-दित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयमिति” । पिताम-होऽपि “प्राङ्मुखं कारिणं कृत्वा पाययेत् प्रसृतित्रयम् ।पूर्व्वोक्तेन विधानेन स्नानमात्रोचितं शुचिमिति” । का-रिणं दिव्यकारिणं शोध्यमिति यावत् । पूर्व्वोक्तेन लक-लदिव्यसाधारणतया प्रागुक्तेनेत्यर्थः । नारदोऽपि “अर्च-यित्वा तु तं देवं प्रक्षाल्य सलिलेन तु । एनश्च श्रावयि-त्वा तु पाययेत् प्रसृतित्रयमिति” । एनः पापम् । तच्च तत्-प्रलापाभिधानमुखेन तेनैव दर्शितम् । “स्वेच्छया यः पिबेत्को-शन्न क्वचिद्दूषितो नरः । न संवदेन्नरो लोभात् क्षवी भ-वति दुर्मतिः । जानानः कामकारेण कोशम्पोत्वा विसंव-देत् । दरिद्रो व्याधितो मूर्खः सप्तजन्मनि जायते” इति ।सशिरस्केऽभियोगे अभियोक्तुः श्राव्यमनिष्टमप्याह सए-ब “बलात्कोर्श हि यो दत्त्वा हितमिच्छेत चात्मनः ।स विनाशो भवेत्तस्य तच्च कार्य्यंन सिह्यतीति” । एवं यस्यकस्यचिदुग्रदेवस्य स्नानोदकमाहृथ कोशानुष्ठाने प्राप्ने नि-यमार्थमाह पितामहः “भक्तो यो यस्य देवस्य पाययेत्त-स्य तज्जलम् । समभावे तु देवानामादित्यस्य तु पाय-येत् । दुर्गायाः पाययेच्चौरान् ये च शस्त्रोपजीविनः ।भास्करस्य तु यतोयं ब्राह्मणं तन्न पाययेदिति” । उग्रदे-वतायुधानि स्नापयित्वा तदुदकं स्वल्पेऽपराधे षाययेत् ।तथा च कात्यायनः “स्वल्पेऽपराधे देवानां पाययि-स्वाऽऽयुधीदकम् । पाय्योविकारे चाशुद्धो नियम्यः शुचिर-न्यथेति । पाय्यः पाययितत्यः । नियम्यो दण्ड्यः । आ-युधग्रहणं ताम्रादिनिर्मितादित्यमण्डलस्याप्युपलक्षणम्अतएव वृहस्पतिः “यद्भक्तः सोऽभियुक्तः स्यात्तदेवायुधम-ण्डलम् । प्रक्षाल्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयमिति”अत्र विशेषमाह पितामहः “दुर्गायाः पाययेच्छूलमा-दिव्यस्य तु मण्डलम् । अन्येषागपि देवानां स्नापयेदा-युधानि त्विति” । कृतकोशपानस्य किं तत्कालमेव शुद्धि-र्नेत्याह कात्यायनः “अथ दैवविसंवादस्तिसप्ताहात्तुदापयेत् । अभियुक्तं प्रयत्नेन तमर्थं दण्डमेवचेति” । दैव-विसंवादः दैविकव्याध्युद्भवः । दैविकव्याध्यादीनपि सएव दर्शयति “ज्वरातिसारविस्फोटाः शूलास्थिपरिपी-डनम् । नेत्ररुग्भालरोगश्च तथोन्मादः प्रजायते । सि-रोरुभुजभङ्गश्च दैविका व्याधयोनृणामिति” । शुद्धिकाला-वधिं विष्णुरप्याह “यस्य पश्येद्द्विसप्ताहात् त्रिसप्ताहा-दयापि वा । रोगोऽग्निर्ज्ञातिमरणं राजदण्डमयापि वा ।तमशुद्धं विजानीयात् तथा शुद्धं विवर्द्धयेत् । दिव्ये चशुद्धं पुरुषं सत्कुर्य्याद्धार्मिको नृपः” इति । पितामहोऽ-पि “त्रिरात्रात्सप्तरात्राद्वा द्विसप्ताहादथापि वा । वैकृतंयस्य दृश्येत पापकृत्स तु मानवः । तस्यैकस्य न सर्व्वस्यजनस्य यदि तद्भवेत् । रोगोऽग्निर्ज्ञातिमरणं सैव तस्यविभावनेति” । तदोगवैकृतं कृतकोशपानस्यैकस्य यदि भ-वेत् तदैव स पापकृदिति न, किन्तु तदीयसर्व्वस्य जनस्यमध्येऽपि यदि कस्यचिद्भवेत् तदापीत्यर्थः । अतएव वृहस्पतिः “सप्ताहाद्वा द्विसप्ताहाद्यस्यार्त्तिर्न प्रजायतेपुत्रदारधनानाञ्च स शुद्धः स्यान्न संशयः” इति । याज्ञव-ल्क्योऽपि “अर्वाक्चतुर्दशादङ्गो यस्य नो राजदैविकम् ।व्यसनञ्जायते घोरं स शुद्धः स्यान्न संशयः” इति । एतेषाञ्चत्रिरात्रादीनां पक्षाणाम् अभियीगाल्पत्वमहत्त्वाभ्यां व्य-वस्था ज्ञातव्या । अवधेरूर्द्धन्तु रोगाद्युद्भवेऽपि न परा-जयः तथा च नारदः “ऊर्द्ध्वं यस्य द्विसप्ताहाद्वैकृतन्तुमहद्भवेत् । नाभियोज्यस्तु विदुपा कृतकालव्यतिक्रमादि-ति” । अत्र द्विसप्ताह इत्यवत्बिकालमात्रोपलक्षणम् कृत-कालव्यतिक्रमहेतोरभिधानात् । तेनैकविंशतिरात्रस्याव-धिकालत्वाश्रयणे चतुर्दशरात्रादूर्द्धमपि वैकृतोत्पत्तौ प-राजयः एवं त्रिरात्रसप्तरात्रात् प्रागपि वैकृतोत्पत्तौ-पराजय इति सिद्धम्१५ कोषवदारकेषु वेदान्त प्रसिद्धेषु अन्नमयादिषु पञ्चसु पदार्थे-वु अन्नमय प्राणमयः मनोमयः विज्ञानमयः आनन्दमयःइत्येते पञ्च पदार्था अनात्मकाः तेषाप्तात्मतोविवेकार्थं वेदा-न्तिभिः कल्पिताः । तत्र पञ्चकोषविवृतिः विवेकचूडामणौ“देहोऽयमन्नमवनोऽन्नमयस्तु कोषश्चान्नेन जीवति वि-नश्यति तद्विहीनः । त्वक्चर्म्ममांसरुधिरास्थिपुरीषराशिर्नायं स्वयं भवितुमर्हति नित्यशुद्धः । पूर्व्वं जनेरपिमृतेरधुनायमस्ति जातक्षणः क्षणगुणीऽनियतस्वभावः ।नैकोजडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भाव-विकारवेत्ता । पाणिपादादिमान् देहो नात्मा व्यङ्ग्योऽपिजीवनात् । तत्तच्छक्तेरनाशाच्च न नियम्योनियामकः ।देहतद्धर्म्मतत्कर्म्मतदवस्थादिसाक्षिणः । स्वतएव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः । शल्यराशिर्मांसलिप्तो मल-पूर्णोऽतिकश्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ।त्वङ्मांसमेदोऽस्थिपुरीषराशावहंमतिं मूढजनः करोति ।विलक्षणं वेत्ति विचारशीली निजस्वरूपं परमार्थ-भूतम् । देहोऽहमित्येव जडस्य बुद्धिर्देहे च जीवा-ऽविदुषस्त्वहंधीः । विवेकविज्ञानवतोमहात्मनो व्रह्माह-मित्येव मतिः सदात्मनि । अत्रात्मबुद्धिं त्यज मूढवुद्धे!त्वङ्मासमेदोस्थिपुरीषराशौ । सर्व्वात्मनि ब्रह्मणि नि-र्विकल्पे कुरुष्व शान्तिं परमां भजस्व । देहेन्द्रियादा-वसति भ्रमोदितां विद्वानहन्तां न जहाति यावत् । ता-वन्न तस्यास्ति विमुक्तिवार्त्ताप्यस्त्येष वेदान्तनयान्तदर्शः ।छायाशरीरे प्रतिविम्बगात्रे यत् स्वप्नदेहे हृदि कल्पिता-ङ्गे । यथात्मबुद्धिस्तव नास्ति काचित् जीवच्छरीरे च तथैव मास्तु । देहात्मवीरेव नृणामसद्धियां जन्मादिदुःख-प्रभवस्य वीजम् । यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्तेतु चित्ते न पुनर्भवाशा । कर्म्मेन्द्रियैः पञ्चभिरन्वितोऽयंप्राणो भवेत् प्राणमयस्तु कोषः । येनात्मवानन्नमयोऽन्नपूर्णात् प्रवर्त्त तेऽसौ सकलक्रियासु । नैवात्मापि प्राण-मयो वायुविकारो गन्ता गन्ता वायुवदन्तर्व्धहिरेषः ।यस्मात् किञ्चित् क्वापि न वेत्तीष्टमनिष्टं स्वं वान्यं वाकिञ्चन नित्यं परतन्त्रः । ज्ञानेन्द्रियाणि च मनश्चमनोमयः स्यात् कोषोममाहमिति वस्तुविकल्पहेतुः ।संज्ञादिभेदकलनाकलितो बलीयांस्तत्पूर्व्वकोषमभिपूर्य्यंविजृम्भते यः । पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीय-मानोविषयाज्यधारया । जाज्वल्यमानो बहुवासनेन्धनैर्म-नोमयाग्निर्दहति प्रपञ्चम् । न ह्यस्त्यविद्या मनसोऽतिरिक्तामनोह्यविद्या भवबन्धहेतुः । तस्मिन् विनष्टे सकलंविनष्टं विजृम्भितेऽस्मित् सकलं विजृम्भते । स्वप्नेऽर्थशू-न्ये सृजति स्वशक्त्या भोक्त्रादि विश्वं मनएव सर्व्वम् ।तथैव जाग्रत्यपि नो विशेषस्तत्सर्व्वमेत्न्मनसो विजृम्भ-णम् । सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित्सकलप्रसिद्धेः । अतो मनःकल्पितएव पुंसः संसारएतस्य न वस्तुतोऽस्ति । वायुना चीयते मेघः पुनस्ते-वैव लीयते । मनसा कल्प्यते बन्धोमोक्षस्तेनैव कल्प्यते ।देहादिसर्व्वविषये परिकलप्य रागं बध्नाति तेन पुरुषंपशुवद्गुणेन । वैरस्यमत्र विषवत् सुविधाय पश्चादेनं विमो-चयति तन्मन एव बन्धात् । तस्मान्मन कारणमस्यजन्तोर्बन्धस्य मोक्षस्य च वा विधाने । बन्धस्य हेतुर्मलिनंरजोगुणैर्मोक्षस्य शुद्धं विरजस्तमस्कम् । विवेकवैराग्य-गुणातिरेकाच्छुद्धत्वमासाद्य मनोविमुक्त्यै । भवत्यतो-वुद्धिमतो मुमुक्षोस्ताभ्यां दृढाभ्यां भवितव्यमग्रे । मनोनाम महाव्याघ्रो विषयारण्यभूमिषु । चरत्यत्र नगच्छन्तु साधवो ये मुसुक्षवः । मनः प्रसूते विषयानशेषान्स्थूलात्मना सूक्ष्मतया च भोक्तुः । शरीरवर्णाश्रमजा-तिभेदान् गुणक्रियाहेतुफलानि नित्यम् । असङ्गचिद्रू-पममुं विमोह्य देहेन्द्रियप्राणगुणैर्निबध्य । अहंममेतिभ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु । अध्या-सदोषात् पुरुषस्य संसृतिरध्यासबन्धस्त्वमुनैव कल्पितः ।रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमे-तत् । अतः प्राहुर्भनोऽविद्यां पण्डितास्तत्त्वदर्शिनः ।येनैव भ्राम्यते विश्वं वायुनेवाब्भ्रमण्डलम् । तन्मनःशोधनं कार्य्यं प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते । मोक्षैकसक्त्या विषयेषु रागंनिर्मूल्य संन्यस्य च सर्वकर्म्म । सच्छ्रद्धया यः श्रवणा-दिनिष्ठो रजःस्वभावं स धुनोति बुद्धेः । मनोमयोनापि भवेत् परात्मा ह्याद्यन्तवत्त्वात् परिणामिभावात् ।दुःखात्मकत्वाद्विषयत्वहेतोर्द्रष्टा हि दृश्यात्मतया न दृष्टः ।बुद्धिवुद्धीन्द्रियैः सार्द्धं सवृत्तिः कर्त्तृलक्षणः । विज्ञान-मयकोषः स्यात् पुंसः संसारकारणम् । अनुव्रजेच्चित्प्रति-विम्बशक्तिर्विज्ञानसंज्ञः प्रकृतेर्विकारः । ज्ञानक्रियावान-हमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम् । अनादि-कालोऽयमहंस्वभावो जीवः समस्तव्यवहारवोढा ।करोति कर्म्माण्यथ पूर्ववासनः पुण्यान्यपुण्यानि च तत्फ-लानि । भुङ्क्ते विचित्रास्कपि योनिषु व्रजन्नायातिनिर्यात्यध ऊर्द्ध्वमेषः । अस्यैव विज्ञानमयस्य जाग्रत्स्व-प्नाद्यवस्थासुखदुःखभोगाः । देहादिनिष्ठाश्रमधर्म्मकर्म्मगुणाभिमानः सततं ममेति । विज्ञानकोषोऽथमतिप्रकाशःप्रकृष्टसान्निध्यवशात् परात्मनः । अतोभवत्येव उपाधिरस्ययदात्मधीः संसरति भ्रमान्न । योऽयं विज्ञानमयःप्राणेषु हृदि स्फुरत्ययं ज्योतिः । कूटस्थः सन्नात्माकर्त्ता भोक्ता भवत्युपाधिस्थः । स्वयं परिच्छेदमुपेत्यबुद्धेस्तादात्म्यदोषेण परं मृषात्मनः । सर्व्वात्मकःसन्नपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदोघटानिव ।उपाधिसम्बन्धवशात् परात्मा ह्युपाधिधर्म्माननुयातितद्गुणः । अयोविकारानविकारिबह्निवत् सटैकरूपोऽपिपरः स्वभावात् । शिष्य उवाच । भ्रमेणाप्यन्यथा वाऽस्तुजीवभावः परात्मनः । तदुपाधेरनादित्वान्नानादेर्नाशै-ष्यते । अतोऽस्य जीवभावेऽपि नित्या भवति संसृतिः ॥
न निवर्त्तेत, तन्मोक्षः कथं? भे श्रीगुरो! वद ॥
श्रीगुरुरुवाच । सम्यक् पृष्टं त्वया विद्वत्! सावधानेनतत् शृणु । प्रामाणिकी म भवति भ्रान्त्या मोहितक-ल्पना । भ्रान्तिंविना त्वसङ्गस्य निष्क्रि यस्य निराकृतेः ।न वटेतार्थसम्बन्धो नभसो नीलतादिवत् । स्वस्य द्रष्टु-र्निर्गुणस्याक्रियस्य प्रत्यगबोधानन्दरूपस्य बुद्धेः । भ्रान्त्याप्राप्तो जीवमावो न सत्यो मोहापाये नास्त्यवस्तुस्वभावः । यावद्भ्रान्तिस्तावदेवास्य सत्ता मिथ्याज्ञानो-ज्जृम्मितस्य प्रमादात् । रज्ज्वां सर्पोभ्रान्तिकालीनएवभ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत् । अनादित्वमविद्यायाःकार्य्यस्यापि तथेष्यते । उपन्नायान्तु विद्यायामाविद्यिक-मनाद्यपि । प्रबोधे स्वप्नवत् सर्व्वं सहमूलं विनश्यति ।अनाद्यपीदं नो नित्यं प्रामभाव इव स्फुटम् । अना-देरपि विध्वंसः प्रागभावस्य वीक्षितः । यद्बुद्ध्युपाधि-सन्बन्धात् परिकल्पितमात्मनि । जीवत्वं न ततोऽन्यस्तत्-स्वरूपेण विलक्षणः । सम्बन्धः स्वात्मनो बुद्ध्यामिय्याज्ञानपुरःसरः । विनिवृत्तिर्भवेत्तस्य संम्यग्ज्ञानेननान्यथा । ब्रह्मात्मैकत्वविज्ञानं सम्यक् ज्ञानं श्रुतेर्म्मतम् ।तदात्मानामनोः सम्यग्विवेकेनैव सिध्यति । ततोविवेकःकर्त्तव्यः प्रत्यगात्मसदात्मनोः । जलं पङ्कवदत्यन्तं पङ्का-पाये जलं स्फुटम् । यथा भाति, तथात्मापि दोषाभावेस्फुटप्रभः । असन्निवृत्तौ तु सदात्मना स्फुटं प्रतीतिरेतस्यभवेत् प्रतीचः । ततो निरासः करणीय एव सदात्मनःसाध्वहमादिवस्तुनः । अतीनायं परात्मा स्याद्विज्ञान-मयशब्दभाक् । विकारित्वाज्जडत्वाच्च परिच्छिन्नत्व-हेतुतः । दृश्यत्वात् व्यभिचारित्वात् नानित्योनित्य इष्यते” ।आनन्दमयकोषस्तु आनन्दमयकोषशब्दे ७२६ पृ० उक्तःधननिचयात्मककोषस्य राज्याङ्गतामाह “स्वाम्यमात्यौपुरं राष्ट्रं कोषदण्डौ सुहृत्तथा । सप्त प्रकृतयोह्येताःसप्ताङ्गं राज्यमुच्यते । सप्तानां प्रकृतीनां तु राज्यस्यासांयथाक्रमम् । पूर्व्वं पूर्व्वं गुरुतरं जानीयाद्व्यसनं महत्” मनुः“स्वामी राजा अमात्योमन्त्र्यादिः । पुरं राज्ञः कृतदुर्ग-निवासनगरं, राष्ट्रं देशः, कोषोवित्तनिचयः, दण्डो हस्त्य-श्वरथपादातं, मित्रं त्रिविधं सप्तमाध्यायोक्तमित्येतेसप्त प्रकृतयोऽङ्गानि सप्ताङ्गमिदं राज्यमित्युच्यते ।ततः किमतआह सप्तानामिति । आसां राज्यस्यप्रकृतीनां सप्तानां क्रमिकोक्तानामुत्तरस्याविनाशमपेक्ष्यपूर्व्वस्वाविनाशरूपं व्यसनं गरीयोजानीयात् । तथाहिमित्रव्यसनात् स्वबलव्यसनं गरीयः सम्पन्नबलस्यैव मित्रा-नुग्रहे सामर्थ्यात् । एवं वलात् कोषोगरीयान् कोषनाशेबलस्यापि नाशात् । कोषाद्राष्ट्रं गरीयः राष्ट्रनाशे कुतःकोषोत्पत्तिः । एवं राष्ट्राद्दुर्गं गरीयः दुर्गादेवयवसेन्धनादिसम्पन्नाद्राज्यरक्षासिद्वेः । दुर्गादमात्योगरीयान् प्रधानामात्यनाशे सर्वाङ्गवैकल्यात् । अमात्या-दपि आत्मा सर्वस्यात्मार्थत्वात्” कुल्लू०कोषसञ्चयस्यावश्यकता युक्तिकल्पतरौ दर्शिता यथा“कोषो महीपतेर्जीवो न तु प्राणाःकथञ्चन । द्रव्यं हिदेहो भूपस्य न शरीरभिति स्थितिः । धर्म्महेतोःसुखार्थाय भृत्यानां भरणाय च । आपदर्थञ्च संरक्ष्यःकोषः कोषवता सदा । धनात् कुलं प्रभवति धनाद्धर्म्मःप्रवर्त्तते । नाधनस्य भवेद्धर्म्मः कामश्चैव कथञ्चन ।अधर्म्मान्निधनं कुर्य्यातद्धनं गृह्यते परैः । स्वयं पापस्यपात्र स्यात्सिंहो हस्तिबधादिव । तादात्मिको मूलहरःकदर्य्यस्त्रिबिधो ऽर्जकः । उत्पन्नार्थव्ययकरो यो मवि-ष्यद्धनाशया । स तादात्मिक आख्यातः कल्याणी तस्य ना-यतिः । यः पित्राव्यर्ज्जितं वित्तमन्यायेन तु भक्षयेत् ।स मूलहर आख्यातस्तदुदर्को ऽपि चाशुभः । स कदर्य्यस्तुभृत्यात्मपीडनैरर्थसञ्चयी । तद्वनं राजदायादतस्कराणांनिधिर्भवेत् । भिक्षा च राजकोषश्च स्तोकस्तोवेन वर्द्धते ।अञ्जनञ्च धनञ्चैव स्तोकस्तोकेन हीयते । कोषस्य साध-नोपायो मुख्यं राष्ट्रमिति स्मृतम् । भूगुणैर्वर्द्धते राष्ट्रंतद्वृद्धिर्नृपवृत्तता । राज्ञोपायेन संरक्ष्या ग्रामे ग्रामे कृषी-वलाः । तेभ्यः कृषिस्ततश्चार्था अर्थेभ्यः सर्वसम्पदः ।शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । तथावर्षेषु वर्षेषु कर्षणात् भूगुणक्षयः । एकस्यां गुणहीनायांकृषिमन्यत्र कारयेत्” ।तत्सञ्चयोपायाश्च भा० शा० ८८ अ० दर्शिताः यथा“यदा राजासमर्थोऽपि कोषार्थे स्यान्महामते! ।” इत्यादियुधिष्ठिरप्रश्ने भीष्मोक्तिः “यथादेशं यथाकालं यथा-बुद्धि यथाबलम् अनुशिष्यात् प्रजा राजा धर्म्मार्थीतद्धिते रतः । यथा तासाञ्च मन्येत श्रेय आत्मन एव च ।तथा कर्म्माणि सर्व्वाणि राजा राष्ट्रेषु वर्त्तयेत्” इत्यु-पक्रमे “मदुदोहमित्याद्युक्तं” तच्च करशब्दे १६८७ पृ०दर्शितम् । तत्र ९० अ० इत्युक्तिः प्रामादिकी ८८ अ०इत्येव साधु । ततः परं कियदन्तरे“प्रयोगं कारयेयुस्तान् यथा बलिकरांस्तथा । कृषिगोरक्ष-बाणिज्यं यच्चान्यत् किञ्चिदीदृशम् । पुरुषैः कारयेत्कर्म्म बहुभिः कर्म्मभेदतः । नरश्चेत् कृषिगोरक्षाबा-णिज्यञ्चाप्यनुष्ठितौ । संशयं लभते किञ्चित्तेन राजाविगर्ह्यते । धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः ।बक्तव्याश्चानुगृह्णीध्वं प्रजाः सह मयेति वै । अङ्गमेत-न्महद्राज्ये धनिनो नाम भारत! । ककुदं सर्वभूतानांधनस्थो नात्र संशयः । प्राज्ञः शूरो धनस्थश्च स्वामीधाम्मि क एव च । तपस्वी सत्यवादी च बुद्धिमांश्चापिरक्षति । तस्मात् सर्वेषु भूतेषु प्रीतिमान् भव पार्थिव! ।सयमार्ज्जवमक्रोधमानृशंस्यञ्च पालय । एवं दण्डञ्चकोषञ्च मित्रं भूमिञ्च लप्स्यसे । सत्यार्ज्जवपरो राज-न्मित्रकोषबलान्वितः” । १६ तदाधारे गृहे जटा० (खाज-नाघर) “तस्मात्द्विजेन्धोदत्त्वार्द्धमर्द्धं कोषे निवेशयेत्”मनुः । १७ भेघे निघ० ।
Burnouf
Frenchकोष कोष (कुश्, कुष्) tout contenant refermant
qqc.
toute chose mise en réserve dans un contenant qconque:
trésor, [or ou argent, travaillé ou brut]
trésor [caisse ou
appartement contenant des objets de valeur]
dictionnaire ou
thesaurus
gaine ou fourreau
bouton de fleur, bourgeon non
développé
globe [de l'œil]
matrice
vulve
testicule
pénis
scrotum
œuf
peloton de fil
cocon de ver à soie
vase à
boire, vase sacré, calice
noix de muscade.
-- कोषि
sandale, pantouffle.
Barbe d'épi. -- Cf. कोश, कोशी।
कोषक œuf
testicule.
कोषकार (कृ) canne à sucre [à feuilles en
gaîne].
Ver à soie [faiseur de cocons].
कोषचञ्चु grue indienne
pélican (?).
कोषफल esp. de graine à pulpe odoriférante. -- M.
esp. de plante grimpante
cf. घोषक। -- F. esp. de घोष
à fleurs jaunes.
कोषवृद्धि (वृध्) hydrocèle.
कोषशायिका (शी
sfx. इक) couteau, poignard.
कोषातक (अत्
sfx. अक) cheveux, poils.
la
nuit.
Diverses plantes: trichosanthes diœca, luffa [esp. de
cucurbitacée], achyranthes aspera, घोष।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
