| YouTube Channel

कोशाम्र (kozAmra)

 
Monier Williams Cologne
English
कोशाम्र
m.
Mangifera sylvatica,
Bhpr.
कोशाम्र
n.
the fruit of that plant,
Suśr.
शब्दकल्पद्रुमः
Sanskrit
कोशाम्रः,
पुं,
(कोशे + आम्र इव फलमस्य ।) फल-वृक्षविशेषः कोशाम इति भाषा तत्पर्य्यायः ।कृमिवृक्षः सुकेशकः इति भावप्रकाशः
घनस्कन्धः वनाम्रः जन्तुपादपः क्षुद्राम्रः ७रक्ताम्रः लाक्षावृक्षः सुरक्तकः १० अस्यगुणः कुष्ठशोथास्रपित्तव्रणकफापहत्वम् तत्-फलगुणाः ग्राहित्वम् वातघ्नत्वम् अम्लत्वम् ।उष्णत्वम् गुरुत्वम् पित्तदत्वञ्च इति भाव-प्रकाशः
कफार्त्तिप्रदत्वम् विदाहित्वम् विशोफ-कारित्वञ्च
पक्वस्य तस्य गुणः मधुरत्वम् ।अम्लत्त्वञ्च
पट्वादियुक्तस्य तस्य गुणः दीपनत्वम् ।रुचिपुष्टिबलकारित्वञ्च तत्तैलस्य गुणाः सार-कत्वम् कृमिकुष्ठव्रणापहत्वम् अम्लमधुरत्वम् ।बल्यत्वम् पथ्यत्वम् रोचनत्वम् पाचनत्वञ्च ।इति राजनिर्घण्टः
(रोगविशेषेऽस्य व्यवहारोयथा, सुश्रुते चिकित्सितस्थाने अध्याये
“कारञ्जं वा सार्षपं वा क्षतेषुक्षेप्यं तैलं शिग्रुकोशाम्रयोर्वा”
)
वाचस्पत्यम्
Sanskrit
कोशा(षा)म्र
पु०
को(शे)षे आम्र इव फलप्रधानवृक्षमेदे(कोशाम) “कोशाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः ।तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम् पक्वं तुदीपनं रुच्य लघूष्णं कफवातहृत्” भावप्र० (केओड)२ फलवृक्षे राजवल्लभः