| YouTube Channel

कोटिफल (koTiphala)

 
वाचस्पत्यम्
Sanskrit
कोटिफल
न०
त० त्रिकोणादिक्षेत्रावयवस्य कोटेः फले ।सि० शि० तदायनप्रकारोदर्शतोयथा “स्वेनाहते परिधिनाभुजकोटिजीवे भांशै ३६० र्हृते भुजकोटिफलाह्वयेस्तः” मू० “अत्रोपपत्तिः यावत् केन्द्रप्रतिमण्डले ताव-देव नीचोच्चवृत्ते स्यात् अतः प्रतिमण्डलदोःकोटिज्येअनुपातेन नीचोच्चवृत्ते परिणाम्येते यदिभांशवृत्ते ३६० एतेदोः कोटिज्ये तदा परिध्यंशवृत्ते किमिति अथवा त्रि-ज्याव्यासार्धे एते दोःकोटिज्ये तदान्त्यफलज्याव्यासार्धेकिमिति फलं तुंल्यमेव” प्रमि० ।उक्तञ्च सू० सि० रङ्गनाथाम्यां यथा“तद्गुणे भुजकोटिज्येभगणांशविभाजिते तद्भुजज्याफल-धनुर्मान्दं लिप्तादिकं फलम्” मू० “भुजकोटिज्ये मन्द-शीघ्रान्यतरसम्बन्धेन केन्द्रभुजकोटिज्ये तद्गुणे स्वीयस्फु-टपरिधिना गुणिते मगणांशैः षष्ट्यतिकशतत्रयेण भक्तेभुजफतकोटिफले भवतः मन्दकेन्द्रभुजज्योत्पन्नफलस्यधनुःफलादिकं मान्दं फलं भवदि अत्रोपपत्तिः ।कक्षास्थोच्चस्थानस्थितदेवतया स्वहस्तस्थितसूत्रपोतं ग्रह-विव्वं स्वाभिमुखाकर्पणेन कक्षास्थमध्यग्रहस्थानात् पर-मफलज्यान्तरितस्थाने आकर्षणसूत्रमार्गरूपतिर्यक्कर्ण-मार्गेणाकृयते तेन मध्यग्रहस्थानीयकक्षाप्रदेशादन्त्यफ-लज्याव्यासार्धेनोत्पन्नवृत्ते भगणांशाङ्किते भूमध्यग्रहस्पृ-ग्रेस्वासक्ततद्वृ त्तप्रदेशरूपोच्चस्थानात् केन्द्रान्तरेण कक्षावि-परीतमार्गे तद्वृत्तपरिधौ ग्रहो भवति तस्मिन्नीचोच्च-वृत्ते ऊर्ध्वरेखाग्रहयोस्तिर्यगन्तरसूत्रमर्धज्याकारं पर-मफलज्यानुरुद्धं भुजफलम् तस्मिन्नेव वृत्ते व्यासमित-तिर्यग्नेखाग्रहयोरन्तरमूर्ध्वाधरमर्धज्याकारं परमफल-ज्यानुरुद्धं कोटिफलम् एते तत्र कक्षास्थभुजज्याको-टिज्यावद्भुजकोटिसृपे इति कक्षास्थभगणाशप्रमाणेनैतेभुजज्याकीटिज्यारूपे भुजकोटी तदा कक्षास्थभागप्रमा-णानुरद्धप्रागुक्तनीचोच्चपरिधिभागैः केइत्यनुपातेन फल-वृत्तस्थत्वाद्भुजफलकोटिफले” रङ्गनाथः