| YouTube Channel

केवलं (kevalaM)

 
Hindi
Hindi
(क्रिवि) केवल
शब्दकल्पद्रुमः
Sanskrit
केवलं,
क्ली,
(केवृ सेवने + वृषादित्वात् कलच् ।यद्वा, के शिरसि मूर्द्ध्वावच्छेदे वलयति वल् +अच् अलुक् समासः ।) निर्णीतम् इत्यमरमेदि-नीकरौ
ज्ञानभेदः इति विश्वो हेमचन्द्रश्च
(साङ्ख्यकारिकायां यथा, -- “अविपर्य्ययात् वि-शुद्धं केवलमुत्पद्यते ज्ञानम्”
)शुद्धम् (यथा, रघौ ६३ ।“न केवलानां पयसां प्रसूति-मवेहि मां कामदुघां प्रसन्नाम्”
)कृत्स्नम् (यथा, रघुवंशे १० २९ ।“केवलं स्मरणेनैव पुनासि पुरुषं यतः ।अनेन वृत्तयः शेषा निवेदितफलास्त्वयि”
)असहायः इति संक्षिप्तसारे उणादिवृत्तिः
(अद्वितीयः यथा, कुमारे ८३ ।“न केवलं यो महतोऽपभाषतेशृणोति तस्मादपि यः पापभाक्”
)