| YouTube Channel

केन्द्रं (kendraM)

 
शब्दकल्पद्रुमः
Sanskrit
केन्द्रं,
क्ली,
लग्नम् लग्नात् चतुर्थसप्तमदशम-स्थानानि तत्पर्य्यायः कण्टकम् यथा, --“लग्नाम्बुद्व्यूनकर्म्माणि केन्द्रमुक्तञ्च कण्टकम् ।चतुष्टयञ्चात्र खेटो बली लग्ने विशेषतः”
इति नीलकण्ठकृतवर्षतन्त्राख्यजातकम्
स्पष्ट-ग्रहानयनार्थं शीघ्रमन्दसंज्ञकाङ्कद्वयम् यथा, --“मृदूच्चेन हीनो ग्रहो मन्दकेन्द्रंचलोच्चं ग्रहाणां भवेच्छीघ्रकेन्द्रम्”
इति भास्करीयसिद्धान्तशिरोमणौ स्पष्टाधिकारः
ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्रात् विशोध्यच शिष्टं केन्द्रम् इति सूर्य्यसिद्धान्तः
गोलस्यमध्यस्थानम् यथा, --“वृत्तस्य मध्यं किल केन्द्रमुक्तम्केन्द्रं ग्रहोच्चान्तरसुच्यतेऽतः ।यवोऽन्तरे तावति तुङ्गदेशा-न्नीचोच्चवृत्तस्य सदैव केन्द्रम्”
इति सिद्धान्तशिरोमणौ गोलाध्यायः
(यात्रा-योगविषेषः यथा, शब्दार्थचिन्तामणिधृतवचने ।“आपोक्लिमगते चन्द्रे केन्द्रस्थे सुरपूजिते ।योगः केन्द्र इति ख्यातो यातुरिष्टार्थसिद्धिदा”
प्रान्तसीमा यथा, योगशास्त्रे ।“पृथिव्या उभयोः केन्द्रयोः स्थितौ द्वावेव योगिनौ ।एकत्र सान्निध्यस्थितिवत् सन्निकर्षस्थिताविव वाअन्योन्यमालपति”
)