| YouTube Channel

केदारः (kedAraH)

 
Apte
English
केदारः [kēdārḥ], 1 A field under water
meadow
केदारेभ्यस्त्व- पो$गृह्णन्कर्षका दृढसेतुभिः
Bhāg.*
1.2.41
Ms.*
9.38, 44
cf.
the play on words in the Subhās. के दारपोषणरताः ? and the reply is केदारपोषणरताः.
A basin for water round the root of a tree.
A mountain.
A particular mountain forming part of the Himālayas (modern Kedār).
A form of Śiva.
N.
of a Rāga (in music).Comp. -खण्डम् a small dyke, earth raised to keep out water
गच्छ केदारखण्डं बधान
Mb.
* 1.3.22. -नाथः a particular form of Śiva.
Apte 1890
English
केदारः 1 A field under water
meadow.
2 A basin for water round the root of a tree.
3 A mountain.
4 A particular mountain forming part of the Himālayas (modern Kedār).
5 A form of Śiva.
Comp.
खडं a small dyke, earth raised to keep out water.
नाथः a particular form of Śiva.
Apte Hindi
Hindi
केदारः
पुं*
- के शिरसि दारोऽस्य - ब* स*
"पानी भरा हुआ खेत, चरागाह"
केदारः
पुं*
- के शिरसि दारोऽस्य - ब* स*
"थाँवला, आलवाल"
केदारः
पुं*
- के शिरसि दारोऽस्य - ब* स*
पहाड़
केदारः
पुं*
- के शिरसि दारोऽस्य - ब* स*
केदार नामक एक पहाड़ जो हिमालय का एक भाग है
केदारः
पुं*
- के शिरसि दारोऽस्य - ब* स*
शिव का नाम
केदारः
पुं*
- केदार - अण्
"चावल, अनाज"
केदारः
"पुं* , ब*स*" - केन जलेन दारोऽस्य
संगीतशास्त्र में एक राग का नाम
Wordnet
Sanskrit
Synonyms:
केदारः
noun
एकः रागविशेषः यः मेघस्य चतुर्थः पुत्रः।
"केदारः रात्रेः द्वितीये प्रहरे गीयते।"
Synonyms:
कृष्णिका, राजिका, आसुरी, क्षवः, क्षुधाभिजननः, क्षुताभिजननः, सिद्धार्थः, सिद्धार्थकः, केदारः
noun
तैलबीजविशेषः, कृष्णवर्णीयाः वर्तुलाकाराः सर्षपबीजाः आयुर्वेदे अस्य कृमिवातकफकण्ठामयहरत्वादयः गुणाः प्रोक्ताः।
"सागपचनसमये कृष्णिका उपयुज्यते।"
Synonyms:
केदारः
noun
एकः तीर्थः
"केदारस्य वर्णनं महाभारते वर्तते"
Synonyms:
केदारः
noun
नक्षत्रविशेषः
"केदारस्य वर्णनं बृहत्संहितायां वर्तते"
Tamil
Tamil
கேதா3ர: : நீர் பாய்ந்த வயல், மலை, சிவனின் ஒரு பெயர், ஒரு புண்ய க்ஷேத்ரம்.
शब्दकल्पद्रुमः
Sanskrit
केदारः,
पुं,
(के जले दार आदरो यस्य यद्वा केनजलेन द्रियते आद्रियते इति निपातनात्एत्वम् ।) क्षेत्रम् क्षेत् इति भाषा इत्यमरः ।२ ११
(यथा, मनौ ३८ ।“भूमावप्येककेदारे कालोप्तानि कृषीवलैः ।नानारूपाणि जायन्ते वीजानीह स्वभावतः”
क्षेत्रस्थक्षुद्रजलाधारविशेषः यथा, रामायणे३ २२ १८ ।“वृषः पिबति केदारे निश्वासाकुलितं पयः”
)केदारजलगुणाः मधुरत्वम् विपाके गुरुत्वम् ।दोषलत्वम् “तदेव बद्धमुक्तन्तु विशेषाद्दोषदंभवेत्” इति राजनिर्घण्टः
(के मस्तके शिखर-देशे दारः प्रश्रवणादिकारणस्वरूपविदीर्णस्थानंअस्य ।) पर्व्वतविशेषः (के मस्तके शिरःस्थित-जटाभ्यन्तरे गङ्गारूपिणी दाराः पत्नी यस्यसर्व्वत्र निपातनात् एत्वम् ।) शिवः भूमिभेदः ।आलवालम् इति मेदिनी
(भ्रूमध्यस्थानविशेषः ।यथा, हठयोगदीपिकायाम् २४ ।“कालपाशमहाबन्धविमोचनविचक्षणः ।त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः”
“केदारभ्रुवोर्मध्ये शिवस्थानं केदारशब्दवाच्यं तंमनः स्वान्तं प्रापयेत्” इति तट्टीका
तीर्थ-विशेषः यथा, महाभारते ८३ ६६ ।“केदारे चैव राजेन्द्र ! कपिलस्य महात्मनः ।ब्रह्माणमधिगत्वा शुचिः प्रयतमानसः ।सर्व्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते”
*
केदारपर्व्वतस्थलिङ्गभेदः तु लिङ्गमूर्त्त्याकाश्यामाविर्भावात् तन्नाम्ना एवाख्यातः तद्विवरणंयथा, काशीखण्डे ७७ अध्याये ।श्रीपार्व्वत्युवाच ।“नमस्ते देवदेवेश ! प्रणमत्करुणानिधे ! ।वद केदारमाहात्म्यं भक्तानामनुकम्पया
तस्मिन् लिङ्गे सदा प्रीतिस्तव काश्यामनुत्तमा ।तद्भक्ताश्च जना नित्यं देवदेव ! महाधियः
श्रीदेवदेव उवाच ।शृण्वपर्णेऽभिधास्यामि केदारेश्वरसंकथाम् ।समाकर्ण्यापि यां पापोऽप्यपापो जायते क्षणात्
केदारं यातुकामस्य पुंसो निश्चितचेतसः ।आजन्मसञ्चितं पापं तत्क्षणादेव नश्यति
गृहाद्विनिर्गते पुंसि केदारगतिनिश्चिते ।जन्मद्वयार्ज्जितं पापं शरीरादपि निर्व्रजेत्
मध्येमार्गं प्रपन्नस्य त्रिजन्मजनितं त्वघम् ।देहगेहाद्विनिःसृत्य निराशं याति निश्वसत्
सायं केदार केदार केदारेति त्रिरुच्चरन् ।गेहेऽपि निवसन्नूनं यात्राफलमवाप्नुयात्
दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमम्बु ।जन्मजन्मकृतात्पापात् मुच्यते नात्र संशयः
हरपापह्रदे स्नात्वा केदारेशं प्रपूज्य ।कोटिजन्मार्ज्जितैनोभिर्मुच्यते नात्र संशयः
सकृत्प्रणम्य केदारं हरपापकृतोदकः ।स्थाप्य लिङ्गं हृदम्भोजे प्रान्ते मोक्षं गमिष्यति
हरपापह्रदे श्राद्धं श्रद्धया यः करिष्यति ।उद्धृत्य सप्त पुरुषान् मे लोकं गमिष्यति
पुरा रथन्तरे कल्पे यदभूदत्र तत् शृणु ।अपर्णे दत्तकर्णा त्वं वर्णयामि तवाग्रतः
एको ब्राह्मणदायाद उज्जयिन्या इहागतः ।कृतोपनयनः पित्रा ब्रह्मचर्य्यव्रते स्थितः
स्थलीं पाशुपतीं काशीं विलोक्य समन्ततः ।द्विजैः पाशुपतैः कीर्णां जटामुकुटमण्डितैः
कृतलिङ्गसमर्च्चैश्च भूतिभूषितवर्ष्मभिः ।भिक्षाहृतान्नसन्तुष्टैः पुष्टैर्गङ्गोदकामृतैः
बभूवानन्दितमना व्रतं जग्राह चोत्तमम् ।हिरण्यगर्भादाचार्य्यान्महत्पाशुपताभिधम्
शिष्यो वशिष्ठोऽभूत् सर्व्वपाशुपतोत्तमःस्नात्वा ह्रदे हरपापे नित्यं प्रातः समुत्थितः
विभूत्याहरहः स्नाति त्रिकालं लिङ्गमर्च्चयन् ।नान्तरं विजानाति शिवलिङ्गे गुरौ तथा
द्वादशाब्ददेशीयो वशिष्ठो गुरुणा सह ।ययौ केदारयात्रार्थं गिरिं गौरीगुरोर्गुरुम्
यत्र गत्वा शोचन्ति किञ्चित् संसारिणः क्वचित् ।प्राश्योदकं लिङ्गरूपं लिङ्गरूपत्वमागताः ।असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः
गुरुर्हिरण्यगर्भाख्यः पञ्चत्वमगमत् तदा ।पश्यतां तापसानाञ्च विमाने सार्व्वकामिके
आरोप्य तं पारिषदाः कैलासमनयन् मुदा ।यस्तु केदारमुद्दिश्य गेहादर्द्धपथेऽप्यहो
अकातरस्त्यजेत् प्राणान् कैलासे चिरं वसेत् ।तदाश्चर्य्यं समालोक्य वशिष्ठस्तपोधनः
केदारमेव लिङ्गेषु बह्वमंस्त सुनिश्चितम् ।अथ कृत्वा कैदारीं यात्रां वाराणसीमगात्
अग्रहीन्नियमं चापि यथार्थं चाकरोत् पुनः ।प्रतिचैत्रं सदा चैत्र्यां यावज्जीवमहं ध्रुवम्
विलोकयिष्ये केदारं वसन् वाराणसीं पुरीम् ।तेन यात्राः कृताः सम्यक् षष्टिरेकाधिका मुदा
आनन्दकानने नित्यं वसता ब्रह्मचारिणा ।पुनर्यात्रां वै चक्रे मधौ निकटवर्त्मनि
परमोत्साहसन्तुष्टः पलिताकलितोऽप्यलम् ।तपोधनैस्तन्निधनं शङ्कमानैर्निवारितः
कारुण्यपूर्णहृदयैरन्यैरपि सङ्गिभिः ।ततोऽपि तदुत्साहभङ्गोऽभूद्दृढचेतसः
मध्ये मार्गं मृतस्यापि गुरोरिव गतिर्मम ।इति निश्चितचेतस्के वशिष्ठे तापसे शुचौ
अशूद्रान्नपरीपुष्टे तुष्टोऽहं चण्डिकेऽभवम् ।स्वप्ने मया संप्रोक्तो वशिष्टस्तापसोत्तमः ।दृढव्रत ! प्रसन्नोऽस्मि केदारं विद्धि मामिह
अभीष्टञ्च वरं मत्तः प्रार्थयस्वाविचारितम् ।इत्युक्तवत्त्यपि मयि स्वप्नो मिथ्येति सोऽब्रवीत्
ततोऽपि मया प्रोक्तः स्वप्नो मिथ्याशुचिष्मताम् ।भवादृशाममिथ्यैव स्वाध्यायवशवर्त्तिनाम्
वरं ब्रूहि प्रसन्नोऽस्मि स्वप्नशङ्कां त्यज द्विज ! ।तव सत्ववतः किञ्चित् मयाऽदेयं किञ्चन
इत्युक्तं मे समाकर्ण्य वरयामास मामिति ।शिष्यो हिरण्यगर्भस्य तपस्विजनसत्तमः
यदि प्रसन्नो देवेश ! तदा मे सानुगा इमे ।सर्व्वे शूलिन्ननुग्राह्या एष एव वरो मम
देवि ! तस्येदमाकर्ण्य परोपकृतिशालिनः ।वचनं नितरां प्रीतस्तथेति तमुवाच
पुनः परोपकरणात् तत्तपोद्विगुणीकृतम् ।तेन पुण्येन मया पुनः प्रोक्तो वरं वृणु
वशिष्ठो महाप्राज्ञो दृढपाशुपतव्रतः ।देवि ! मे प्रार्थयामास हिमशैलादिहस्थितिम्
ततस्तत्तपसा तुष्टः कलामात्रेण तत्र हि ।हिमशैले स्थितश्चात्र सर्व्वभावेन संस्थितः
ततः प्रभाते संजाते सर्व्वेषां पश्यतामहम् ।हिमाद्रेः प्रस्थितः प्राप्तः स्तूयमानः सुरर्षिभिः
वशिष्ठं पुरतः कृत्वा सर्व्वसार्थसमायुतम् ।हरपापह्रदे तीर्थे स्थितोऽहं तदनुग्रहात्
मत्परिग्रहतः सर्व्वे हरपापे कृतोदकाः ।आराध्य मामनेनैव वपुषा सिद्धिमागताः
तदाप्रभृति लिङ्गेऽस्मिन् स्थितः साधकसिद्धये ।अविमुक्ते परे क्षेत्रे कलिकाले विशेषतः
तुषाराद्रिं समारुह्य केदारं वीक्ष्य यत् फलम् ।तत् फलं सप्तगुणितं काश्यां केदारदर्शने
गौरीकुण्डं यथा तत्र हंसतीर्थञ्च निर्म्मलम् ।यथा मधस्रवा गङ्गा काश्यां तदखिलं तथा
इदं तीथ हरपापं सप्तजन्माघनाशनम् ।गङ्गायां मिलितं पश्चाज्जन्मकोटिकृताघहम्”
केदाराख्यः पर्व्वतश्च तीर्थयात्रिभिः प्रायेणवदर्य्याश्रमात् सप्तदिनैः समागमनीयः
*
)