केतुः (ketuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishकेतुः [kētuḥ], [चाय्-तु की आदेशः 1.73]
A flag, banner
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य 1.33
A chief, head, leader, foremost, any eminent person (oft . at the end of )
मनुष्यवाचा मनुवंशकेतुम् 2.33
14.7
कुलस्य केतुः स्फीतस्य (राघवः) Rām.
A comet, meteor
2.6.15
1.38.
A sign, mark.
Brightness, clearness.
A ray of light
प्रययौ कान्तिमिव द्रुमाब्जकेतुम् Bu. Ch.5.3
8.6.15. also 'केतुर्द्युतौ पताकायाम्' इति विश्वः.
The descending node considered as the ninth planet, and the body or trunk of the demon सैंहिकेय (the head being regarded as Rāhu)
क्रूर- ग्रहः स केतुश्चन्द्रं संपूर्णमण्डलमिदानीम् 1.6.
Day-time.
Apparition, form, shape.
Intellect, judgement
नि केतुना जनानां चिकेथे पूतदक्षसा 5.66.4.
A pigmy race.
A disease.
An enemy. -ग्रहः the descending node. -चक्रम् a kind of diagram. -तारा a comet. -भः a cloud. -मालः, -मालम् one of the nine great divisions of the known world (the western portion of जम्बुद्वीप.) -यष्टिः a flag-staff
नामाङ्करावणशराङ्कितके- तुयष्टिमूर्ध्वं रथं हरिसहस्रयुजं निनाय 12.13. -रत्नम् lapis lazuli, (also called वैडूर्य). -वसनम् a flag.
Apte 1890
Englishकेतुः [चाय्-तु क्यादेशः Uṇ. 1. 73] 1 A flag, banner
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य Ś. 1. 34.
2 A chief, head, leader, foremost, any eminent person (oft. at the end of comp.)
मनुष्यवाचा मनुवंशकेतुं R. 2. 33, 14. 7
कुलस्य केतुः स्फीतस्य (राघवः) Rām.
3 A comet, meteor
Ms. 1. 38.
4 A sign, mark.
5 Brightness, clearness.
6 A ray of light.
7 The descending node considered as the ninth planet, and the body or trunk of the demon सैंहिकेय (the head being regarded as Rāhu)
क्रूरग्रहः स केतुश्चंद्रमसंपूर्णमंडलमिदानीं Mu. 1. 6.
8 Day-time.
9 Apparition, form, shape.
10 Intellect, judgment.
11 A pigmy race.
12 A disease.
13 An enemy.
Comp.
ग्रहः the descending node.
तारा a comet.
भः a cloud.
यष्टिः f. a flagstaff
R. 12. 103.
रत्नं lapis lazuli, (also called वैदूर्य).
वसनं a flag.
Apte Hindi
Hindiकेतुः
- "चाय् - तु, की आदेशः"
"पताका, झण्डा"
केतुः
- "चाय् - तु, की आदेशः"
"मुख्य, प्रधान, नेता, प्रमुख, विशिष्ट व्यक्ति"
केतुः
- "चाय् - तु, की आदेशः"
"पुच्छलतारा, धूमकेतु"
केतुः
- "चाय् - तु, की आदेशः"
"चिह्न, अंक"
केतुः
- "चाय् - तु, की आदेशः"
"उज्जवलता, स्वच्छता"
केतुः
- "चाय् - तु, की आदेशः"
प्रकाश की किरण
केतुः
- "चाय् - तु, की आदेशः"
सौरमण्डल का नवाग्रह
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit केतुः, शिखी
नवग्रहान्तर्गतग्रहविशेषः।
"केतुः पापग्रहः अस्ति जनाः मन्यन्ते।"
चिह्नम्, लक्षणम्, व्यञ्जनम्, लिङ्गम्, प्रतिमा, प्रतिरूपम्, सङ्केतः, केतुः, ध्वजः, पताका
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
"प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।"
केतुः, शिखी, केतुः
नवग्रहान्तर्गतः एकः ग्रहः यः पुराणानुसारेण राक्षसः अस्ति।
"शास्त्रानुसारेण केतुः सूर्यम् अतिक्रामति अतः सूर्यग्रहणं भवति।"
धूमकेतुः, केतुतारा, केतुः, अग्न्युत्पातः, शिखावज्ज्योतिः, उत्पातः, उपग्रहः
उत्पातविशेषः सौरमण्डलीय धूमाभा तारका या ग्रहः इव सूर्यं परितः भ्रमति।
"धूमकेतुः क्वचित् एव दृश्यते।"
ध्वजः, पताका, ध्वजपटः, ध्वजांशुकः, केतनम्, केतुः, केतुवसनः, वैजयन्तिका, वैजयन्ती, जयन्तः, कदली, कदलिका, उच्छलः
दण्डस्य आधारेण समुत्थिता नानावर्णीया विशिष्टवर्णीया वा पट्टिका यया कस्यापि सत्ता कोऽपि उत्सवः सङ्केतः वा सूच्यते।
"भारतदेशस्य ध्वजः चक्राङ्कितः अस्ति।"
शब्दकल्पद्रुमः
Sanskritकेतुः, नवग्रहान्तग्रहविशेषः । स तु राहोःशरीरम् । तत्पर्य्यायः । शिखी २ । इति दीपिका ॥
अयं पापग्रहः । यथा, --“अर्द्धो नेन्द्वर्कसौराराः पापाः सौम्यास्तथापरे ।पापयुक्तो बुधः पापो राहुकेतू च पापदौ” ॥
इति ॥
अयन्तु जन्मराश्यपेक्षया षष्ठत्रिदशमैकादश-स्थानस्थितश्चेत् शुभः । यथा, --“केतूपप्लवभौममन्दगतयः षष्ठत्रिसंस्थाः शुभा-श्चन्द्रार्कावपि ते च तौ च दशमौ चन्द्रः पुनः सप्तमः ।जीवः सप्तनवद्विपञ्चमगतो युग्मेषु सोमात्मजःशुक्रः षड्दशसप्तवर्जमितरे सर्व्वेऽप्युपान्त्ये शुभाः” ॥
इति ॥
* ॥
अस्य त्रिकोण उच्चस्वगृहशत्रुमित्र-समनीचा यथा, --“सिंहस्त्रिकोणं धनुरुच्चसंज्ञंमीनो गृहं शुक्रशनी विपक्षौ ।सूर्य्यारचन्द्राः सुहृदः समानौजीवेन्दुजौ षट् शिखिनः परांशाः” ॥
इति ॥
“स्वोच्चाच्च सप्तमं नीचं प्राग्वद्भावैर्विनिर्द्दिशेत्” ॥
इति ॥
* ॥
अस्य रिष्टिर्यथा, --“केतुर्यस्मिन्नृक्षेऽभ्युदितस्तस्मिन् प्रसूयते जन्तुः ।रौद्रे सर्पमुहूर्त्ते वा प्राणैः संत्यज्यते चाशु” ॥
इति च ज्योतिस्तत्त्वम् ॥
* ॥
अस्य दशाफलंकेरलीनामग्रन्थे द्रष्टव्यम् ॥
* ॥
अथातः केतुचा-राध्यायो व्याख्यायते । तत्रादावेवागमप्रदर्शनार्थ-माह ।“गार्गीयं शिखिचारं पराशरमसितदेवलकृतञ्च ।अन्यांश्च बहून्दृष्ट्वा क्रियतेऽयमनाकुलश्चारः” ॥
गार्गीयं गर्गप्रोक्तं केतूनां चार तत् पराशरेण कृतंअसितनामाचार्य्येण कृतं देवलविरचितं एतान्केतुचारान् अवलोक्य तथान्यानपि कश्यपऋषि-पुत्त्रनारदवज्रादिरचितान् बहून् दृष्ट्वा मया अयंअनाकुलो निःसन्देहः केतुचारः क्रियते ॥
* ॥
अथोदयास्तमयलक्षणं आह ।“दर्शनमस्तमयो वा न गणितविधिनास्य शक्यतेज्ञातुम् । दिव्यान्तरीक्षभौमास्त्रिविधाः स्युः केतवोयस्मात्” ॥
अस्य केतोर्दर्शनं उदयः अस्तमयोऽदर्शनं गणित-विधानेन ज्ञातुं न शक्यते । यस्मात् केतवस्त्रि-विधास्त्रिप्रकाराः । दिवि आकाशे भवा दिव्याः ।अन्तरीक्षे भवा आन्तरीक्षाः । ग्रहनक्षत्रस्थानंविहायान्यत्र आकाशे ये दृश्यन्ते ते आन्त-रीक्षाः । भूमौ भवाः भौमाः । इति हेतोरूत्पात-रूपत्वात् एषामुदयास्तमयौ न ज्ञायेते इति ॥
* ॥
अथ केतूनां दिव्यवर्ज्जितानां अन्येषां स्वरूपमाह ।“अहुताशेऽनलरूपं यस्मिंस्तत्केतुरूपमेवोक्तम् ।खद्योतपिशाचालयमणिरत्नादीन् परित्यज्य” ॥
अहुताशे अनलवर्ज्जिते यस्मिन् देशे अनलरूप-मग्निरूपं दृश्यतेयत् तदेव केतुरूपमुक्तम् । किन्तुखद्योत इन्द्रगोपककृमिविशेषः । पिशाचालयंयक्षस्थानम् । मणयश्चन्द्रकान्तप्रभृतयः । रत्नानिमरकतप्रभृतीनि । आदिग्रहणादन्यान्यपि काष्ठ-प्रभृतीनि तेजोरूपाणि एतान् त्यक्त्वा । यत एषांखभावादेवानलरूपमहुताशे दृश्यते अतो न तत्केतुरूपमिति ॥
* ॥
अथ दिव्यान्तरीक्षभौमानां केतूनां लक्षणमाह ।“ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वान्तरीक्षास्ते ।दिव्या नक्षत्रस्था भौमाः स्युरतोऽन्यथा शिखिनः” ॥
ध्वजश्चिह्नम् । शस्त्रमायुधादि । भवनं गृहम् ।तरुर्वृक्षः । तुरगोऽश्वः । कुञ्जरो हस्ती । आदिग्रह-णादन्येषु चतुष्पदेषु ये दृश्यन्ते ते आन्तरीक्षाः ।दिव्या नक्षत्रस्थाः । अतोऽस्मादुक्तादन्यथा भूमौये दृश्यन्ते ते भौमाः । शिखिनः केतवः इति ॥
* ॥
अथ केतूनां संस्थानं मतान्तरेणाह ।“शतमेकाधिकमेके सहस्रमपरे वदन्ति केतूनाम् ।बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम्” ॥
एके पराशरादयः एकाधिकं शतं केतूनां कथ-यन्ति । तथा च पराशरः । “शतमेकोत्तरं केतूनांभवन्ति तेषां षोडश मृत्युनिश्वासजाः । द्वादशा-दित्थसम्भवाः । दश दक्षमखविलयने रुद्रक्रोधजाः ।सप्त पैतामहाः । पञ्चदश ऋषेरौद्दालिकस्य पुत्त्राः ।सप्तदश मरीचिकश्यपललाटजाः । पञ्च च प्रजा-पतिसहजाः । त्रयोविभावसुजाः । धूमोद्भवश्चैकः ।चतुर्दश मथ्यमानेऽमृते सोमेन सह सम्भूताः ।एकस्तु ब्रह्मकोपजः” इति ॥
* ॥
अपरे गर्गादयःसहस्रं केतूनां वदन्ति ।तथा च गर्गः ।“अनित्योदयचाराणामशुभानाञ्च दर्शनम् ।आगन्तूनां सहस्रं स्यात् ग्रहाणां सन्निबोध मे” ॥
बहुरूपमेकमेवेति नारदाख्यो मुनिरेकमेवकेतुं बहुरूपं प्राह । तन्मते एक एव केतुस्तस्यबहूनि रूपाणि स एव दिव्यान्तरीक्षभौम इत्यर्थः ।तथा च नारदः ।“दिव्यान्तरीक्षभौमस्थ एकः केतुः प्रकीर्त्तितः ।शुभाशुभफलं लोके ददात्यस्तमयोदयैः” इति ॥
* ॥
एवं मतान्तराण्युक्त्वा स्वसिद्धान्तमाह ।“यद्येको यदि बहवः किमनेन फलन्तु सर्व्वथावाच्यम् । उदयास्तमयैः स्थानैः स्पर्शैराधूपनैर्वर्णैः”यद्येक एव केतुः यदि वा बहवः केतवः किम-नेन । सर्व्वथा तेषामुदयास्तमयैः स्थानैः स्पर्शैरा-धूपनैवर्णैश्च शुभाशुभं फलं पुनर्वक्तव्यम् । उदयःकस्यां दिश्युदितः । अस्तमयः कस्यामेवास्तमितः ।स्थानं यथा कस्मिन्नाकाशमागे कस्य नक्षत्रस्यवा समीपे उदितोऽस्तमितश्च । स्पर्शनं कस्तेनग्रहो नक्षत्रं वा स्पृष्टम् । आधूपनं कोऽपि शि-खयाभिधूपितः । वर्णाः सितरक्तपीतकष्णादिकाः ।एवमादिभिस्तस्य फलं वाच्यं तस्मादेको बहवो वाभवन्तु का नः क्षतिरिति ॥
* ॥
अथ केतुचारे येषां केतूनामभिदृष्टानां कियन्तंकालं यावत् फलपाको भवति तेषां फलपाक-नियमार्थमाह ।“यावन्त्यहानि दृश्यो मासास्तावन्त एव फलपाकः ।मासैरब्दांश्च वदेत् प्रथमात् पक्षत्रयात् परतः” ॥
दृश्यः केतुरिति सम्बध्यते । फलस्य पाकः फल-पाकः । यः केतुर्यावन्त्यहानि दृश्यो भवति तस्यतावन्तो मासास्तस्य केतोस्तावतो मासान् फल-पाको ब्रूयात् । यावत्सङ्ख्यकानि दिनानि दृष्टोभवति तत्तुल्यान् मासान् तस्य फलपाको वदेत् ।मासैस्तु पुनरब्दान् संवत्सरान् ब्रूयात् । मास-सङ्ख्यादर्शने मासतुल्यानि वर्षाणि च वदेत् ।यावत् सङ्ख्यान्मासान् दृश्यो भवति तावत्सङ्ख्यानिवर्षाणि तस्य फलपाको वदेत् । कस्मात् कालात्प्रभृतिरित्यत आह प्रथमात् पक्षत्रयात् परतः ।सर्व्वेषां केतूनां दिनसाम्यत्वम् । यावन्ति दिनानिदृश्यः केतुस्तस्माद्दर्शनादूर्द्ध्वं प्रथमं पक्षत्रयं पञ्च-चत्वारिंशद्दिनानि यावत् निष्फलानि तस्मात्पक्षत्रयात् परतः तावतो मासान् फलपाकः ।अथ मासान् दृश्यते तदा तस्मादेव दर्शनात्परतः पक्षत्त्रयमतिक्रम्य मासतुल्यानि वर्षाणिवदेत् । प्रथमात् पक्षत्रयात् परतः तत्र पक्षत्त्रयंयावद्दिनसङ्ख्या गृह्यते । पक्षत्त्रयादूर्द्ध्वं यदा दृश्यतेकेतुस्तदा मासतुल्यानि वर्षाणि वदेत् । अत्रसन्देहव्युदासार्थं गर्गोक्तं नियमकमभिलिख्यते ।तथा च गर्गः ।“यावन्त्यहानि दृश्यः स्यात्तावन्मासान् फलं भवेत् ।मासांस्तु यावद्दृश्येत तावतोऽब्दांस्तु वैकृतान् ॥
त्रिपक्षात् परतः कर्म्म पचेत्तस्य शुभाशुभम् ।यद्दिष्टमुदिते केतौ फलं नेहादिशेद्बुधः” ॥
तथा वृद्धगर्गः ।“यावतो दिवसांस्तिष्ठेत्तावन्मासान् विनिर्दिशेत् ।त्रिपक्षात् परतश्चापि कर्म्म केतोः प्रपच्यते ॥
तस्मात् कालात् परं ब्रूयात् फलमस्य शुभाशुभम् ।यद्दिष्टमुदये केतोः फलं नेहादिशेद्बुधः” ॥
यद्येवं तदा द्वितीयव्याख्यानमत्र न घटते प्रथम-व्याख्यानमेव ज्याय इति । यथा प्रथमात् पक्ष-त्रयात् परतः दर्शनादूर्द्ध्वं पक्षत्रयं यावन्निष्फलंपक्षत्रयात् परतः फलपाकस्य कालसङ्ख्या प्रवर्त्ततेतस्मादुक्तं यद्दिष्टमुदये केतोः फलं नेहादिशेद्बुधःइति । यदुक्तं मासैरब्दांश्च वदेत् तदेकदेशेनापिप्रतिमासमेकद्वित्रिदिनदर्शनेन माससङ्ख्या लभ्यतएवेत्यर्थः । सर्व्वथा किमनेनास्माकमसद्विकल्पेन ।दिवसैः पक्षत्रयात् परतो मासान् वदेत् । मासै-स्तस्मादेव पक्षत्रयात् परतोऽब्दान् वदेत् । मा-सात् परतो दिनाधिक्यं दृष्ट्यनुपातवशात् वाच्यम् ।यथा यदि दिनत्रिंशता वर्षं लभ्यते तद्दृष्ट्या दिनै-केन मासैकमिति ।तथा च समाससंहितायाम् ।“केचित् केतुसहस्रं शतमेकसमन्वितं वदन्त्येके ।नारदमतमेकोऽयं त्रिस्थानसमुद्भवो विविधरूपः ॥
दिव्या ग्रहर्क्षजातास्तीव्रफलकरा भौमाः ।प्राणिध्वजादितुङ्गेषु चान्तरीक्षा न चात्यशुभाः ॥
उदयास्तमयाधूपनसंयोगाकारमार्गदिक्पातैः ।फलानि दिवसैर्म्मासान् मासैस्तु वर्षाणि सन्दि-शेत् केतोः” ॥
* ॥
अथ शुभस्य केतोर्लक्षणमाह ।“ह्रस्वतनुः प्रसन्नः स्निग्ध ऋजुरचिरसंस्थितः शुक्लः ।उदितो वाप्यभिदृष्टः सुभिक्षसौख्यावहः केतुः” ॥
ऋजुरकुटिलः । अचिरसंस्थितः शीघ्रमेवा-दर्शनं याति । शुक्लः श्वेतः । उदितो-वाप्यभिदृष्टःअथवोदित एवाभिदृष्टस्तस्मिंस्तु उदितमात्रे यदिदृष्टिर्भवति तदा शुभः । अन्यथा अशुभः ॥
अशुभस्य केतोर्लक्षणमाह ।“उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः ।इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा” ॥
ह्रस्वतनुः प्रसन्न इत्यस्मादुक्तात् यो विपरीतरूपःकेतुरुत्पन्नः स धूमकेतुः । स च न शुभकरः पापंकरोतीत्यर्थः । इन्द्रधनुःसदृशो न शुभकर एव ।तथा द्विशिखस्त्रिशिखश्च विशेषतः पापफलदः ।तथा च समाससंहितायाम् ।“अचिरस्थितोऽभिदृष्टस्त्वजुः सितः स्निग्धमूर्त्ति-रुदगुदितः । ह्रस्वतनुः प्रसन्नः केतुर्लोकस्य भवाय ॥
न शुभो विपरीतो विशेषतः शक्रचापसंकाशः ।द्वित्रिचतुश्चूलो वा दक्षिणसंस्थश्च मृत्युकरः” ॥
* ॥
अधुना केतुसहस्रलक्षणं विवक्षुस्तत्रादावेव रविजाःपञ्चविंशतिः केतवो भवन्ति । तेषां लक्षणमाह ।“हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिःसशिखाः । प्रागपरदिशोर्दृश्या नृपतिविरोधा-वहा रविजाः” ॥
हारो मुक्ताहारः । मणयश्चन्द्र-कान्तप्रभृतयः । हेम सुवर्णम् । तत्समानवर्णा येकेतवस्ते किरणाख्याः किरणसंज्ञाः । सशिखाःसचूलाः । ते च पञ्चविंशती रविजाः सूर्य्यसुताःप्रागपरयोश्च दिशोर्दृश्याः । प्राक् पूर्व्वस्याम-परस्यां पश्चिमायां दिशि दृश्यन्ते । एतेषां मध्या-देक एव दृश्यते न सर्व्वे युगपदिति । सर्व्वत्रेयंपरिभाषा । ते च नृपते राज्ञो विरोधप्रदाः अ-निष्टा इत्यर्थः ।तथा च गर्ग“शुद्धस्फटिकसंकाशा मृणालरजतप्रभाः ॥
मुक्ताहारसुवर्णाभाः सशिखाः पञ्चविंशतिः ॥
किरणाख्या रवेः पुत्त्रा दृश्यन्ते प्राग्दिशि स्थिताः ।तथा च परभागस्था नृपतेर्मयदाश्च ते” ॥
* ॥
अथाग्निपुत्त्रास्तावन्त आह ।“शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः ।आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिनो भयदाः” ॥
शुकपक्षी नीलपीतवर्णः । दहनोऽग्निः । बन्धु-जीवकः पुष्पविशेषोऽतिलोहितः । लाक्षा वृक्ष-निर्यासः । क्षतजं रक्तम् । तदुपमास्तत्तुल्यवर्णाः ।ते च तावन्तः पञ्चविंशतिः आग्निय्यां दिशि दृश्य-न्ते । ते च हुताशसुताः अग्निपुत्त्राः अग्निभयदाः ।तथा च गर्गः ।“नानावर्णाग्निसङ्काशा दीप्तिमन्तोऽपि चूलिनः ।सृजन्त्यग्निमिवाकाशात् सर्व्वज्योतिषनाशनाः ॥
तेऽग्निपुत्त्रा ग्रहा ज्ञेया लोकेऽग्निभयवेदिनः ।आग्नेय्यां दिशि दृश्यन्ते पञ्चविंशाः प्रकीर्त्तिताः” ॥
अथ मृत्युसुतास्तावन्त एवाह ।“वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च तेऽपि तावन्तः ।दृश्यन्ते याम्यायां जनमरकावेदिनस्ते च” ॥
वक्रशिखाः अस्पष्टचूडाः । ते च रूक्षा अस्नि-ग्धास्तेऽपि पञ्चविंशतिरेव । ते च मृत्योः पुत्त्रादक्षिणस्यां दिशि दृश्यन्ते । ते च जनानां मरकंआवेदयन्ति ।तथा च गर्गः ॥
“कृष्णा रूक्षा वक्रशिखा ट्टश्यन्ते याम्यदिक्स्थिताः ।पञ्चविंशा मृत्युसुताः प्रजाक्षयकराः स्मृताः” ॥
अथ भूपुत्त्रा द्वाविंशतिरेवाह ।“दर्पणवृत्ताकारा विशिखाः किरणान्विता धरा-तनयाः । क्षुद्भयदा द्वाविंशतिरैशान्यामम्बुतैल-निभाः” ॥
दर्पणवत् वृत्तं वर्त्तुलं आकारो येषांते विशिखा विचूलाः रश्मिसंयुक्ताः भूमेः पुत्त्राः ।ते च द्वाविंशतिरैशान्यां दृश्यन्ते । जलस्य तैलस्यच सदृशकान्तयः । एते दृष्टा दुर्भिक्षं ददति ॥
तथा च गर्गः ।“समन्तवृत्ता विशिखा रश्मिभिः परिवारिताः ।अम्बुतैलप्रतीकाशा द्वाविंशा भूसुताः स्मृताः ।ऐशान्यां दिशि दृश्यन्ते दुर्भिक्षभयदाश्च ते” ॥
* ॥
अथ चन्द्रसुतास्त्रय आह । “शशिकिरणहिम-रजतकुमुदकुन्दकुसुमोपमाः सुताः शशिनः । उत्त-रतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः” ॥
एतेसौम्यायां दिशि दृश्यन्ते । ते च सुभिक्षं कुर्व्वन्ति ।तथा च गर्गः ।“चन्द्ररश्मिसुवर्णाभा हिमकुन्देन्दुसुप्रभाः ।त्रयस्ते शशिनः पुत्त्राः सौम्याशास्थाः शुभावहाः” ॥
अथ ब्रह्मदण्डाख्यस्य लक्षणमाह ।“ब्रह्मसुत एक एव त्रिशिखो वर्णैस्त्रिभिर्युगान्तकरः ।अनियतदिकसंप्रभवो विज्ञेयो ब्रह्मदण्डाख्यः” ॥
ब्रह्मपुत्त्र एक एव । स च त्रिचूडः । वर्णैः सिता-दिमिश्चोपलक्षितः । स तु ब्रह्मदण्डसंज्ञो ज्ञेयः ।अनियतायां अनिश्चितायां दिशि संप्रभवः उत्पद्यतेसर्व्वासु दिक्षु दृश्यत इत्यर्थः । स तु युगस्यान्तंकरोति सर्व्वक्षयकरः इत्यर्थः ।तथा च गर्गः ।“एको ब्रह्मसुतः क्रूरस्त्रिवर्णस्त्रिशिखान्वितः ।सर्व्वास्वाशासु दृश्यः स्यात् ब्रह्मदण्डः क्षयावहः” ॥
एकाधिकं शतं कथितं अन्यानि नवशतान्येको-नानि कथनीयानि इत्यत आह ।“शतमभिहितमेकसमेतमेकाधिकाच्छतात्परतः ।एकोनानि नवशतानि केतूनां स्पष्टैर्लक्षणैः कथयिष्ये” ॥
शतमभिहितमेकसमेतं एकेनाधिकं केतूनांशतमभिहितमुक्तम् । तस्मादेकाधिकाच्छतात्परतः एकोनानि एकेन विरहितानि नवशतानिकेतूनां स्पष्टैर्व्यक्तैर्लक्षणैश्चिह्नैः कथयिष्ये ॥
अथ शुक्रपुत्त्राश्चतुरशीतिसंज्ञाश्चाह ।“शुक्रसुता विसर्पकाः सौम्यैशान्योरुदयं यान्तिचतुरशीत्याख्याः । विपुलसिततारकास्ते स्निग्धाश्चभवन्ति तीव्रफलाः” ॥
सौम्या उत्तरा । ऐशानी ईशा-नदिक् । तयोरुदयं दर्शनं गच्छन्ति ! ते च विपुलाविस्तीर्णाः सिताः शुक्लाः तारका येषाम् । स्निग्धानिर्म्मलदेहाः ते च तीव्रफला अनिष्टफला इति ।तथा च गर्गः ।“स्थूलैकतारकाः श्वेताः स्नेहवन्तश्च सुप्रभाः ।अर्च्चिष्मन्तः प्रसन्नाश्च तीव्रेण च सुखान्विताः ॥
एते विसर्पका नाम शुक्रपुत्त्राः पुरोदयाः ।अशीतिश्चतुरश्चैव लोकक्षयकराः स्मृताः” ॥
* ॥
अथ षष्टिशनैश्चरपुत्त्रानाह ।“स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्चरा-ङ्गरुहाः । अतिकष्टफला दृश्याः सर्व्वत्रैते कनक-संज्ञाः” ॥
ईदृशाःषष्टिः शनैश्चरपुत्त्राः कनककेतवःसर्व्वत्र सर्व्वासु दिक्षु दृष्टाः अत्यशुभफलाश्च ते ।तथा च गर्गः ।“सुस्निग्धा रश्मिसंयुक्ता द्विशिखाः सिततारकाः ।षष्ठिस्ते कनका घोराः शनैश्चरसुता ग्रहाः” ॥
* ॥
अथ गुरुसुताः पञ्चषष्टिराह ।“विकचा नाम गुरुसुताः सितैकताराः शिखाप-रित्यक्ताः । षष्टिपञ्चभिरधिकाः स्निग्धा याम्या-श्रिताः पापाः” ॥
पञ्चषष्टिः केतवो विकचा नाम वृहस्पतिपुत्त्राः ।ते च सितः श्वेतः एकस्तारको येषां चूडारहिताः ।ते च दक्षिणस्यां दृश्यन्ते पापा अनिष्टफलदाइत्यर्थः ।तथा च गर्गः ।“स्निग्धाः शुक्लाः प्रसन्नाश्च महारूपाः प्रभान्विताः ।एकतारा वपुष्मन्तो विशिखा रश्मिभिर्वृताः ॥
एते वृहस्पतेः पुत्त्राः प्रायशो दक्षिणाश्रयाः ।नामतो विकचा घोराः पञ्चषष्टिर्भयावहाः” ॥
अथैकपञ्च शद्बुधपुत्त्रानाह ।“नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिक्प्रभवाः ।बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत्” ॥
तस्करनामान एकपञ्चाशत् केतवो बुधस्यपुत्त्राः । नातिस्फुटाः अल्पदेहाः यथेष्टायां दिशिप्रभव उत्पत्तिर्येषां सर्व्वासु दिक्षु दृंश्यन्त इत्यर्थः ।ते चानिष्टफलाः ।तथा च गर्गः ।“अरुन्धतिसमा व्यक्ताः केचिदव्यक्ततारकाः ।पाण्डुवर्णाः सुदीर्घाश्च सूक्ष्मा रश्मिभिरावृताः ॥
एते बुधात्मजा ज्ञेयास्तस्कराख्या भयावहाः ।एकाधिकास्ते पञ्चाशदथोऽत्यर्थचरा ग्रहाः” ॥
* ॥
अथ षष्टिभौमपुत्त्रानाह ।“क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाःषष्टिः । नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताःपापाः” ॥
कौङ्कुमनामानः षष्टिकेतवो मङ्गलपुत्त्राःरक्तवह्निसदृशाः लोहिता इत्यर्थः । त्रिचूला-स्त्रिशिखास्तारा येषां ते च उत्तरस्यां दृश्यन्तेपापफलाश्च ।तथा च गर्गः ।“त्रिशिखाश्च त्रिताराश्च रक्तलोहितरश्मयः ।प्रायशस्तूत्तरामाशां सेवन्ते नित्यमेव ते ॥
लोहिताङ्गात्मजा ज्ञेया ग्रहाः षष्टिः समासतः ।नामतः कौङ्कुमा ज्ञेया राज्ञां संग्रामकारकाः” ॥
* ॥
अथ त्रयस्त्रिंशद्राहुपुत्त्रानाह ।“त्रिंशत्तु त्र्यधिका राहोस्ते तामसकीलका इतिख्याताः । रविशशिना दृश्यन्ते तेषां फलमर्कचा-रोक्तम्” ॥
त्रयस्त्रिंशत् स्वर्भानुपुत्त्रास्ते च नामतः तामस-कीलका इति प्रसिद्धाः । ते च अर्कचन्द्रमण्डलस्थादृश्यन्ते तेषाञ्च फलं सूर्य्यचारे कथितं तामस-कीलकसंज्ञा राहुसुता इति ।तथा च गर्गः ।“कृष्णाभाः कृष्णपर्य्यन्ताः संकुलाः कृष्णरश्मयः ।राहुपुत्त्रास्त्रयस्त्रिंशत् कीलकाश्चातिदारुणाः ॥
रविमण्डलगाश्चैते दृश्यन्ते चन्द्रगास्तथा” ॥
तथा च पराशरः ।“अपर्व्वण्येव दृश्यन्ते ह्यङ्गिराः काककीलकाः ।रवेरिवाङ्गिरामध्ये ह्युभयोः काककीलकौ ॥
अङ्गिराः सरथो वापि दृश्यते पुरुषाकृतिः ।काकः काकाकृतिर्घोरस्त्रिकोणो वाथ लक्ष्यते ॥
मण्डलं कीलको मध्ये मण्डलस्यासितो ग्रहः ।महानृपविरोधाय यस्यर्क्षं तस्य मृत्यवे” इति ॥
* ॥
अथ विंशत्यधिकं शतमग्निपुत्त्रानाह ।“विंशत्यधिकमन्यच्छतमग्नेर्व्विश्वरूपसंज्ञानाम् ।तीव्रानलभयदानां ज्वालामालाकुलतनूनाम्” ॥
अन्यत् अपरं शतं विंशत्यधिकं केतूनामग्नेःसुतानां विश्वरूपनाम्नां कीदृशानां ज्वालामाला-भिराकुला व्याप्तास्तनवो मूर्त्तयो येषाम् । तथातीव्रं घोरमग्निभयं ददति ।तथा च गर्गः ।“नानावर्णा हुताशाभा दीप्तिमन्तो विचूलिनः ।सृजन्त्यग्निमिवाकाशे सर्व्वज्योतिर्व्विनाशनाः ॥
तेऽग्निपुत्त्रा ग्रहा ज्ञेया लोकेऽग्निभयवेदिनः ।विंशं ग्रहशतं घोरं विश्वरूपेति विश्रुतम्” ॥
* ॥
अथ सप्तसप्ततिवायुपुत्त्रानाह ।“श्यावारुणा विताराश्चामररूपा विकीर्णदीधितयः ।अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः” ॥
अरुणसंज्ञा वायोः पुत्त्राः श्यावलोहित-वर्णाः तारकवर्जिताश्चामररूपा वालव्यजनाकृतयःव्याक्षिप्तरश्मयः रूक्षाः दुष्टफलप्रदाः । अत्र येषांदिङ्नियमो नास्ति तेऽनियतदर्शनाः सर्व्वास्वपिदिक्षु दृश्यन्ते ।तथा च गर्गः ।“अताररूपप्रतिमाः श्यावरक्तसुवर्णिनः ।वालरूपा इवाभान्ति शुक्लविस्तीर्णरश्मयः ॥
सप्तसप्तति चैवान्ये वायोः पुत्त्राः प्रचक्षते ।लोकविध्वंसना वृक्षा नामतस्त्वरुणा ग्रहाः” ॥
* ॥
अथाष्टौ प्रजापतिसुता द्वे च शते चतुरधिकेब्रह्मणः पुत्त्रास्तानाह ।“तारापुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ ।द्वे च शते चतुरधिके चतुरस्रा ब्रह्मसन्तानाः ॥
अष्टौ केतवो गणका नाम प्रजापतेः पुत्त्राः” ।ते च ताराणां नक्षत्राणां पुञ्जः समूहस्तदाकाराः ।ते च अशुभदायिनः । तथा च । द्वे शते चतुर-धिके केतूनां ते च चतुरस्रसंज्ञाः चतुराकृतयस्तेच ब्रह्मणः पुत्त्राः पापफला एव ज्ञेयाः ते चाग्नेय-दिग्भवाः । तथा च गर्गः ।“तारापुञ्जप्रतीकाशा व्योममण्डलसंस्थिताः ।प्राजापत्या ग्रहास्त्वष्टौ गणका भयवेदिनः ॥
त्र्यस्राश्च चतुरस्रा वा सशिखाः श्वेतरश्मयः ।द्वे शते चतुरश्चैव ब्रह्मजा भयदाश्च ते” ॥
* ॥
अथ द्वात्रिंशद्वरुणपुत्त्रानाह ।“कङ्का नाम वरुणजा द्वात्रिंशत् गुल्मसंस्थानाः ।शशिवत्प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः” ॥
ते वरुणपुत्त्राः वंशगुल्मवत् संस्थानमाकृति-र्येषां । गुल्म एकमूलजो लतासमूहः । शशिवत्चन्द्रवत् प्रभया कान्त्या समेतास्ते च तीव्रफलाःकष्टफलाः प्रोक्ताः कथितास्ते चानियतदिक्-प्रभवाः । तथा च गर्गः ।“वंशगुल्मप्रतीकाशा महान्तः पूर्णरश्मयः ।काकतुण्डनिभैश्चाभि रश्मिभिः केचिदावृताः ॥
मयूखानुन्मृजन्तीव स्निग्धत्वात् सौम्यदर्शनाः ।एते कष्टफलाः कङ्का द्वात्रिंशद्वारुणा ग्रहाः” ॥
* ॥
अथ षण्णवतिकालपुत्त्रानाह ।“षण्णवतिः कालसूताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।पुण्ड्राऽभयप्रदाः स्युर्व्विरूपतारास्ते शिखिनः” ॥
कालपुत्त्राः कबन्धसंस्थानाः षण्णवतिः । कबन्ध-श्छिन्नशिरःपुरुषस्तद्वत् संस्थानमाकृतिर्येषां तेच विरूपा अस्फुटास्तारका येषां ते शिखिनःकेतवः पुण्डा नाम जनपदास्तेषां श्रेयस्कराः स्युः ।अन्यत्र पुनर्भयदास्ते चानियतदिकसंप्रभवाः ।तथा च गर्गः ।“तारापुञ्जविरूपाश्च कबन्धाकृतिसंस्थिताः ।पीतारुणाः सवर्णाश्च भस्मकर्पूररश्मयः ॥
कालपुत्त्राः कबन्धाश्च नबतिः षट् प्रकीर्त्तिताः ।लोकरोगकरा घोराः पुण्ड्राणामभयप्रदाः” ॥
* ॥
अथ नवविदिक्पुत्त्राः सर्व्वेषाञ्च संख्यामन्येषाञ्चवक्ष्यामीत्येतदाह ।“शुक्लविपुलैकतारा नवविदिशां केतवः समुत्पन्नाः ।एवं केतुसहस्रं विशेषमेषामतो वक्ष्ये” ॥
विदिशां दिगन्तराणाञ्च नव केतवः समुत्पन्नाःविदिक्पुत्त्रा इत्यर्थः । किम्भूताः शुक्लः श्वेतवर्णोविपुलो विस्तीर्ण एकतारो येषां ते विदिक्केतवोदृश्यन्ते दृष्टाश्च पापफलाः ।तथा च गर्गः ।“शुक्लैकतारा विपुला विदिक्पुत्त्रा नवग्रहाः ।विदिक्षु संस्थिता एव दृश्यन्ते भयदायकाः” ॥
एवं केतुसहस्रमिति । एवं केतूनां सहस्रं उक्तंएषामेव विशेषलक्षणं वक्ष्ये । एषां मध्यात्केचित् दृश्यन्ते न सर्व्व एव । तत्र ये दृश्यन्तेतेषां लक्षणं वक्तुकामस्तत्रादावेव केतोर्लक्षण-माह ॥
* ॥
“उदगायतो महान् स्निग्धमूर्त्तिरपरोदयी वसाकेतुः । सद्यः करोति मरकं सुभिक्षमप्युत्तमंकुरुते” ॥
उदगायत उत्तरस्यां दिश्यायतो दीर्घःमहानतिस्थूलः निर्म्मलतनुः अपरोदयी पश्चि-मायां दिश्युदयं याति । स च नाम्ना वसाकेतुर्दृष्टःसद्य एव तस्मिन्नहनि मरणं करोति । उत्तममपिप्रधानं सुभिक्षञ्च कुरुते ॥
* ॥
अथास्थिकेतोः शस्त्राख्यस्य च लक्षणमाह ।“तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तःस्निग्धस्तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय” ॥
तदित्यनेन वसाकेतोः परामर्शः । अस्थिकेतुश्चतल्लक्षणैर्वसाकेतुसदृशैर्युक्तः । उदगायत इत्यादिकिन्त्वयं विशेषः स तु रूक्षः स्नेहरहितः दृष्टश्चक्षुद्भयावहः कथितः । स्निग्धस्तादृगिति तादृग्व-साकेतुसदृशोऽन्यः स्निग्धो निर्म्मलदेहः प्राच्यांदृश्यते । स तु शस्त्रनामा केतर्दृष्टः डमरं शस्त्र-कलहं मरकञ्च करोति । तथा च पराशरः ।“एभिः षड्विंशतिरुदयैः फलमावेदयन्ति ।तन्नामतो रूपतः फलतः कालतोऽभिधास्यामः” ॥
तत्र मार्त्तिवास्त्रय उदयं यान्ति । एकैकशोवसास्थिशस्त्रकेतुर्व्वा । तत्र वसाकेतुः स्निग्धोमहानुदगायतशिखस्त्रिंशद्वर्षशतं प्रोष्य संप्लवेयुगे पश्चिमोदितः सद्यो मरकफलः सौभिक्षकरःरूक्षोऽस्थिकेतुः सौभिक्षकरस्तुल्यप्रवासकालफलःपूर्व्वेण स्निग्ध एव शस्त्रकेतूराजविरोधमरकफलःसमोदयः ॥
* ॥
अथ कपालकेतोर्लक्षणमाह ।“दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः ।प्राङ्नभसोऽर्द्धविचारी क्षुन्मरकावृष्टिरोगकरः” ॥
कपालकेतुर्नाम अमावस्यायां दृश्यते पूर्व्वदिशिउद्यं याति । कीदृशः सधूम्रा रश्मिशिखा यस्यकिरणकान्तिर्धूम्रवर्णेत्यर्थः । नभस आकाशस्यअर्द्धं यावद्विचरति । स च दुर्भिक्षमरकावर्षण-रोगप्रदः ।तथा च पराशरः ।“अथादित्यजानां कपालकेतुरुदयते अमावास्यायांपूर्व्वस्यां दिशि सधूम्रार्च्चिशिखो नभसो विषयार्द्ध-चरो दृश्यते । पञ्चविंशवर्षशतं प्रोष्य त्रींश्चपक्षान् सृतिर्यस्य कुमुदकेतोश्चारान्ते स दृष्ट एव ।दुर्भिक्षानावृष्टिव्याधिभयं प्रत्युपद्रवान् सृजति ।यावतो दिवसान् दृश्यते तावन्मासान्मासैः संव-त्सरान् पञ्चप्रस्थं वर्षाधान्यस्यार्घ्यं कृत्वा प्रजाना-मेकमुपयुङ्क्ते” ॥
अथ रौद्रकेतोर्लक्षणमाह ।“प्राग्वैश्वानरमार्गे शूलाग्रः श्यावरूक्षताम्रार्च्चिः ।नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः” ॥
रौद्रनामा केतुः पूर्व्वस्यां दिशि वैश्वानरमार्गेदहनवीथ्यां दृश्यते । पूर्व्वाषाढोत्तराषाढयोःसमीप इत्यर्थः । कीदृशः शूलाग्रः शूलाकृतिरग्रंयस्य केतोः स शूलाग्रः त्रिशिख इत्यर्थः । तस्यैवविशेषणं श्यावरूक्षताम्रार्च्चिः श्यावरूक्षं ताम्रंचार्च्चिस्तेजो यस्य स श्यावरूक्षताम्रार्च्चिः । नभसआकाशस्य त्रिभागगमनशीलः । स च कपाल-केतोः समफलः । एतदुक्तं भवति क्षुन्मरकावृष्टि-रोगकृत् । आचार्य्येण शुक्राचारे वैश्वानरमार्गःप्रदर्शित एव आषाढाद्वयं दहन इति ।तथा च पराशरः ।“अथ दक्षयज्ञे रुद्रक्रोधोद्भवः कालकेतुस्त्रीणिवर्षशतानि नव च मासान् प्रोष्य उदयते । पूर्व्वेणवैश्वानरमार्गे इत्यमृतमयस्य मणिकेतोश्चारान्तेश्यावरूक्षताम्रारुणां शूलाकारसदृशीं शिखांकृत्वा नभसस्त्रिभागचारी स शस्त्रभयरोगदुर्भि-क्षावृष्टिमरकैर्यावन्मासान् दृश्यते तावद्वर्षाणित्रिभागशेषां प्रजां कृत्वा” ॥
शारदधान्यस्याढक-मर्धं कृत्वा चास्तं व्रजति ।तथा च वृद्धगर्गः ।“ज्यैष्ठमूलमनुराधा या वीथी संप्रकीर्त्तिता ।ताञ्च वीर्थी समारुह्य केतुश्चेत् क्रीडते भृशम् ॥
दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्कराम् ।शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् ॥
पूर्व्वेण उदितश्चैव नक्षत्राण्युपधूपयेत् ।घोरं प्रजासूत्सृजति फलं मासे त्रयोदशे ॥
त्रिभागं नभसो गत्वा ततो गच्छत्यदर्शनम् ।यावतो दिवसांस्तिष्ठेत् तावद्वर्षाणि तद्भयम् ॥
शास्त्राग्निभयरोगैश्च दुर्भिक्षमरकैर्हताः ।घूर्णमानाः प्रजाः सर्व्वा विद्रवन्ति दिशो दश” ॥
* ॥
अथ चलकेतोर्लक्षणमाह ।“अपरस्यां चलकेतुः शिखया याम्याग्रयाङ्गुलोच्छ्रि-तया । गच्छेत् यथोदक् तथा तया दैर्घ्यमायाति ॥
सप्तमुनीन् संस्पृश्य ध्रुवमभिजितमेव प्रतिनि-वृत्तः स्यात् । नभसोऽर्द्धभागमित्वा याम्येनास्तसमुपयाति ॥
हन्यात् प्रयागकूलात् यावदवन्तीञ्चपुष्करारण्यम् । उदगपि च देविकामपि भूयिष्ठंमध्यदेशाख्यम् ॥
अन्यानपि च स देशान् क्वचित्क्वचिद्धन्ति रोगदुर्भिक्षैः । दश मासान् फलपाकोऽस्य कैश्चिदष्टादश प्रोक्तः” ॥
अपरस्यामिति पश्चियामां दिशि चलकेतुनामाकेतुर्दृश्यते । स च कीदृशः याम्यायां दिशि अग्रंयस्याः तया अङ्गुलप्रमाणोच्छ्रितया यथा येनप्रकारेण उदक उत्तरस्यां दिशि याति तथातेनैव प्रकारेण दैर्घ्यं दीर्घतां प्राप्नोति । सप्तमुनीत्वशिष्ठादीन् संस्पृश्य तथा ध्रुवं ध्रुवतारकं अभि-जितञ्च नक्षत्रं संस्पृश्य ततः प्रतिनिवृत्तः प्रत्या-गतः नभस आकाशस्य अर्द्धभागमित्वा गत्वाप्राप्य याम्येन दक्षिणस्यां दिशि अदर्शनं याति ।स एव चलकेतुः प्रयागकूलादारभ्य यावदवन्तींपुष्करारण्यनामस्थानं तावत् नाशयेत् । उदगपिचोत्तरस्यां दिश्यपि च यावत् देविकां नदीं ताव-द्धन्यात् । मध्यदेशाख्यं मध्यदेशं भूयिष्ठमतिशयेनहन्यात् । अन्यानपि च स देशानिति । स चल-केतुः अन्यान् अपरान् देशानपि रोगदुर्भिक्षैःक्वचित् क्वचित् नाशयति न सर्व्वत्र । अस्य केतो-र्दशमासान् यावत् फलपाकः । अदर्शनात् त्रिप-क्षात् परतो यावद्दश मासांस्तावदशुभं फलंददादि । कैश्चिदन्यैर्गर्गादिभिरष्टादश मासान्यावत् फलपाकः प्रोक्तः । तथा च पराशरः ।“अथ पैतामहश्चलकेतुः पञ्चदशवर्षशतं प्रोष्यउदितः पश्चिमेनाङ्गुलिपर्व्वमात्रां शिखां दक्षिणा-भिनतां कृत्वा चलकेतुश्चारान्ते नभसस्त्रिभाग-मनुचरन् यथा यथोत्तरां व्रजति तथा तथा शूलाग्राकारां शिखां दर्शयन् ब्राह्मं नक्षत्रमुपसृत्यमनाक् ध्रुवं व्रजराशिं सप्तर्षीन् संस्पृश्य नभसो-ऽर्द्धमात्रं दक्षिणमनुपरिक्रम्य अस्तं व्रजति । सस्वर्गे दारुणकर्म्मा स्वर्गप्राप्तित्वादेव वक्रास्तमभि-निहन्ति लोकमपि च । भूमिं कम्पयित्वा दशमासान् मध्यदेशे भूयिष्ठं जनपदमवशेषं कुरुते ।तेष्वपि च क्वचित् क्वचित् शस्त्रदुर्भिक्षमरक-व्याधिभयैः क्लिष्णात्यष्टादशमासानिति ॥
तथा च गर्गः ।“क्षुच्छस्त्रमरकव्याधिभयैः संपीडयेत् प्रजाः ।मासान् दश तथाष्टौ च चलकेतुः सुदारुणः” ॥
* ॥
तत श्वेतकेतोर्लक्षणमाह ।“प्रागर्द्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च ।क इति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ ॥
स्निग्धौ मुभिक्षशिवदौ अथाधिकं दृश्यते कनामायः । दशवर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतं ॥
प्रागर्द्धरात्रदृश्य इति । श्वेतकेतुनामा केतुः प्राक्पूर्व्वस्यां दिशि अर्द्धरात्रकाले दृश्यते याम्याग्रोदक्षिणशिखः अन्यश्च द्वितीयः क इति कनामाकेतुरपरे पश्चिमायां दिशि दृश्यते । युगाकृतिःयुगसंस्थानाकारः तौ द्वावपि युगपत्तुल्यकालंसप्त दिवसान् दृश्येते । तौ च द्वावपि स्निग्धावतिनिर्म्मलौ दृश्यौ च सुभिक्षशिवदौ । अथ यःकनामा स यदि सप्तभ्योऽधिकं दृश्यते तदा शस्त्र-प्रकोपजं संग्रामजमुपतापं जनयति ।तथा च पराशरः ।“अथोद्दालकः श्वेतकेतुर्द्दशोत्तरं वर्षशतं प्रोष्यभटकेतोश्चारान्ते पूर्व्वस्यां दक्षिणाभिनतशिखो-ऽर्द्धरात्रकाले दृश्यस्तेनैव सह द्वितीयः कः प्रजा-पतिपुत्त्रः । पश्चिमकेन गृहकेतुर्यूपसंस्थायी-युगपद्दृश्येत । ततस्तावुमौ सप्तरात्रदृश्यौ दश-वर्षाणि प्रजाः पीडयेते । कः प्रजापतिपुत्त्रो यद्य-धिकं दृश्यते तदा दारुणतरं प्रजानां शस्त्रकोपंकुर्य्यात् । तथैव स्नेहवर्णयुक्तौ क्षेमारोग्यसुभिक्षदौभवतः” ॥
अथ श्वेतस्य लक्षणमाह ।“श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभाग-गतिः । विनिवर्त्ततेऽपसव्यं त्रिभागशेषाः प्रजाःकुरुते” ॥
श्वेतनामा केतुः जटाकारो जटासदृशः श्यावःकृष्णवर्णः वियत्याकाशे त्रिभागं यावद्गच्छति ततो-ऽपसव्यं प्रदक्षिणं वामभागे निवर्त्तते तृतीयांशा-वशेषाः प्रजाः कुरुते ।तथा च पराशरः ।“अथ काश्यपः श्वेतकेतुः पञ्चदशवर्षशतं प्रो-ष्योग्रः सोमसहजस्य वप्रकेतोश्चारान्ते श्यावरूक्षोनभसस्त्रिभागमाक्रम्यापसव्यं निवृत्योर्द्ध्वं प्रदक्षिण-जटाकारशिखः स यावन्मासान् दृश्यते तावद्-वर्षाणि सुभिक्षमावहति । मध्यदेशे आर्य्यगणानामदो नामोदीच्यैर्भूमिष्ठस्त्रिभागशेषां प्रजाम-वशेषयति” ॥
* ॥
अथ रश्मिकेतोर्लक्षणमाह ।“आधूम्रयातिशिखया दर्शनमायाति कृत्तिका-संस्थः । ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते” ॥
यः केतुराधूम्रवर्णया शिखयोपलक्षितस्तथा कृत्ति-कासंस्थः कविकानां समीपे दर्शनं गच्छति सरश्मिकेतुः श्वेतकेतोः सदृशं फलं धत्ते ।तथा च पराशरः ।“अथ रश्मिकेतुर्व्विभावसुजः प्रोष्यवर्षशत-मावर्त्तकेतोः । उदितश्चारान्ते कृत्तिकासु धूम्र-केतुः” ॥
* ॥
ध्रुवकेतोर्लक्षणमाह ।“ध्रुवकेतुरनियतगतिः प्रमाणाकृतिर्भवति । वि-श्वक् दिव्यान्तरीक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥
सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् ।गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति” ॥
ध्रुवेति । अनियता अनिश्चिता गतिर्गमनं प्रमाणंस्थूलसूक्ष्ममध्यभावमाकृतिः आकारो यस्य स तथा-भूतः । स च विश्वक् समन्ततो भवति सर्व्वासुदिक्ष्वित्यर्थः । स च दिव्यान्तरीक्षभौमस्त्रिविधोभवति । क्वचिद्द्विविधो नानाकारो भवति । स चस्निग्धो निर्म्मलशरीर इष्टफलः । एष च एवंविधानां विनाशिनां मुमूर्षूणां दर्शनमुदयं याति ।नृपाणां विनाशिनां सेनाङ्गेषु सोपकरणेषु खली-नतोरणादिषु दर्शनं याति । देशानां विनाशिनांगृहवृक्षपर्व्वतेषु च दृश्यते । तथा गृहिणामुप-स्करेषु उपस्करभाण्डेषु दर्व्वीसूर्पमार्ज्जन्यादिषुगृहतरुशैलेषु विनाशिनामेव दर्शनं याति ।तथा च पराशरः ।“अथानियतदिक्कालरूपवर्णप्रमाणसंस्थानोधूमकेतुः परा भविष्यतां देशानां राज्ञां जन-पदानाञ्च वृक्षपुरपर्व्वतवेश्मध्वजपताकाशस्त्रव-र्म्मायुधावरणरथनागोष्ट्रपुरुषशयनासनभाण्डेषु चदृश्यते । स एव दिवि स्निग्धो विमलः प्रदक्षिण-शिखो गजनागवीथीनामुत्तरेण व्रजन् सुभिक्ष-क्षेमारोग्यं चावहति । दशैकविंशतिद्विषष्ठिश-तधा वा दर्शनमिच्छन्ति मुनयो धूमकेतोस्तस्यच प्रागुदयान्निमित्तान्यर्व्वाचीनचलनमग्नेः प्रभा-मत्स्यप्रधूपनं दिशां शीतोष्णविपर्य्यय ईतिर्व्यक्षि-बाहुसम्भवश्च” ॥
* ॥
अथ कुमुदकेतोर्लक्षणमाह ।“कुमुद इति कुमुदकान्तिर्व्वारुण्यां प्राक्शिखोनिशामेकाम् । दृष्टः सुभिक्षमतुलं दश किलवर्षाणि स करोति” ॥
कुमुद इति श्वेतवर्ण इत्यर्थः ।पश्चिमायां प्राक्शिखः पूर्व्वाग्रो निशामेकांदृश्यते । किलेत्यागमसूचने । स च दृष्टो दशवर्षाण्यतुलमसमं सुभिक्षं करोति । तथा च परा-शरः । “अथामृतजः कुमुदो मणिर्जलो भवः पद्मःआवर्त्तः सम्बर्त्तः शङ्खो हिमो रूक्षः कुक्षिः फलोविसर्पणः शीतश्चेति । तत्र कुमुदकेतुर्व्वसाकेतो-श्चार्द्धसमाप्तौ वारुण्यां दर्शनमुपैति । गोक्षीर-विमलस्निग्धप्रभां पूर्व्वेणाभिगतां शिखां घृत्वैक-रात्रिचरः स दृष्ट एव सुभिक्षमुत्पादयति दशवर्षाणि प्रजानामविरोधञ्च । प्रतीच्यानाञ्च मुख-रोगारोचकप्रतिश्यायपाण्डुरोगज्वरैः प्रजानांबाधत इति” ॥
* ॥
अथ मणिकेतोर्लक्षणमाह ।“सकृदेकयामदृश्यो सुसूक्ष्मतारः परिणमतिमणिकेतुः । ऋज्वी शिखाऽस्य शुक्ला स्तनोद्गताक्षीरधारेव ॥
उदयन्नेव सुभिक्षं चतुरो मासान्करोत्यसौ सार्द्धान् । प्रादुर्भावं प्रायः करोति चक्षुद्रजन्तूनाम्” ॥
सकृदिति । मणिकेतुः स चपश्चिमायां दिशि सूक्ष्मतारोऽल्पतारकः सकृदेक-वारमेकयामदृश्यः । यामशब्देन रात्रिचतुर्भागः ।अस्य केतोरृज्वी स्पष्टा शिखा चूडा श्वेतवर्णादृश्यते । कीदृशी स्तनोत्था क्षीरधारेव स्तनात्निःसृता क्षीरधारा यथा दृश्यते तद्वत्तच्छिखा ।उदयन्नेवेति । असौ केतुरुदयन्नेवोदितमात्र एवचतुरः सार्द्धानर्द्धोनपञ्चमासान् सुभिक्षं क्षेममुत्पा-दयति । प्रायो बाहुल्येन क्षुद्रजन्तूनां नकुलादीनांप्रादुर्भावमूत्पत्तिं करोति ।तथा च पराशरः ।मणिकेतुरपि कपालकेतोरवसाने प्रतीच्यामुदयंयाति । स तु सूक्ष्मतारकः श्वेतवर्णया क्षीरप्रसे-कया पूर्व्वाभिनतया शिखया शर्व्वर्य्यामेकयाम-दृश्यः । स उदयात् प्रभृति पञ्च मासान् क्षेमंसुभिक्षमुत्पादयति ॥
क्षुद्रजन्तूनां प्रादुर्भावं करो-त्यतिमात्रकालदृष्टः” ॥
* ॥
अथ जलकेतोर्लक्षणमाह ।“जलकेतुरपि च पश्चात् स्निग्धः शिखयाऽपरेणचोन्नतया । नव मासान् सुभिक्षं करोति शोक-शान्तिञ्च लोकस्य” ॥
पश्चात् पश्चिमायां दिशिदृश्यते अपरेण पश्चिमेन चोन्नतया उच्चया शिखयायुक्तः । स च दृष्टः नवमासपर्य्यन्तं सुभिक्षं करोतिलोकमङ्गलकरश्च । तथा च पराशरः । “अथजलकेतुः पैतामहः यस्य चलकेतोर्नवमासावशिष्टेकर्म्मणि कृते प्रवर्त्तयति । पश्चिमेनोदितः स्निग्धःसुजातोऽनुपश्चिमाभिनतः । स च शिखी नव-मासान्तात् क्षेमसुभिक्षारोग्याणि प्रजाभ्यो वत्ते ।अन्यग्रहकृतानां चाशुभानां व्याघातायेति” ॥
* ॥
अथ भवकेतोर्लक्षणमाह ।“भवकेतुरेकरात्रं दृश्यः प्राक् सुसूक्ष्मतारकःस्निग्धः । हरिलाङ्गूलोपमया प्रदक्षिणावर्त्तयाशिखया ॥
यावदेव मुहूर्त्तान् दर्शनमायाति निर्द्दि-शेन्मासान् । तावदतुलं सुभिक्षं रूक्षे प्राणान्ति-कान् रोगान्” ॥
भवकेतुः पूर्व्वस्यां दिशि एकांनिशां दृश्यः सुसूक्ष्मोऽल्पः तारको यस्यस्निग्धो निर्म्मलदेहः शिखयोपलक्षितः । कीदृ-शया हरिः सिंहस्तस्य लाङ्गूलं पुच्छं तदुपमयातदाकारया प्रदक्षिणेनावर्त्तो यस्याः तथाभूतयास च यावत्संख्यान् क्षणान् दृश्यते तावन्मासान्समं सुभिक्षं निर्द्दिशेत् यदि स्निग्धः । रूक्षे तुपुनः प्राणान्तिकान् रोगान् वदेत् । तथा चपराशरः । “अथ जलकेतोः कर्म्मसमाप्ताः धूम्रा-दयः शीतार्त्ता अष्टौ प्रादुर्भवन्ति । तत्र त्रयोदश-चतुर्द्दशाष्टादशवर्षान्तात् दृश्यते । सुभिक्ष्या क्षेम्याविपर्य्यया विपरीताः क्षुद्रजन्तूनाञ्च वधाय तेषा-मष्टानां कर्म्मण्यतीते भवकेतुर्दृश्यते । पूर्व्वेणैक-रात्रं यावत् कृत्तिकानामन्तरतो वा तत्प्रमाणयास्निग्धपारुष्याभया सिंहलाङ्गूलसंस्थानया प्रदक्षिण-ताम्रया शिखयोदितः । स यावन्मुहूर्त्तान् दृश्यतेतावन्मासान् भवत्यतीव सुभिक्षाय ॥
रूक्षःप्राणहराणाञ्च रोगाणां प्रादुर्भावायेति” ॥
* ॥
अथ पद्मकेतोर्लक्षणमाह ।“अपरेण पद्मकेतुर्मृणालगौरो भवेन्निशामेकाम् ।सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि” ॥
पद्मकेतुः पश्चिमायां दिशि रात्रिमेकां दृश्यतेकीदृशः मृणालवत् गौरः श्वेत इत्यर्थः । दृष्टःसप्तवर्षाणि अतिहर्षयुक्तानि सुभिक्षं करोति ।तथा च पराशरः ।“सप्तवर्षाण्यत्युच्छ्रितं हर्षमावहति जगतः” ॥
* ॥
अथावर्त्तकेतोर्लक्षणमाह ।“आवर्त्त इति निशार्द्धेऽसव्यशिखोऽरुणनिभोऽपरेस्निग्धः । यावत्क्षणान् स दृश्यस्तावन्मासान् सुभि-क्षकरः” ॥
निशार्द्धे पश्चिमायां दिशि दक्षिण-दिगाश्रितशिखः स्निग्धो निर्म्मलमूर्त्तिर्दृश्यते सतु यावत्संख्यान् मुहूर्त्तान् दृश्यते तावदेव मासान्सुभिक्षं करोति ।तथा च पराशरः ।“अथावर्त्तकेतुः श्वेतकेतोः कर्म्मण्यतीतेऽपरे-ऽर्द्धरात्रेऽसव्योदितारुणाभया प्रदक्षिणेन ताम्रयाशिखयोदितः । स यावन्मुहूर्त्तान् दृश्यते तावन्मा-सान् अतीव सुभिक्षं नित्ययज्ञोत्सवं जगत्” ॥
* ॥
अथ सम्बर्त्तकेतोर्लक्षणमाह ।“पश्चात् सन्ध्याकाले सम्बर्त्तो नाम धूम्रताम्रशिखः ।नभस्त्रिभागमाक्रम्य समूलाग्रस्थितो रौद्रः” ॥
यावत एव मुहूर्त्तान् दृश्यो वर्षाणि हन्तितावन्ति । भूपांश्च शस्त्रनिपातैरुदयर्क्षं चापिपीडयति” ॥
पश्चादिति । पश्चिमायां दिशियावतो मुहूर्त्तान् दृश्यस्तावन्ति तत्संख्यानि वर्षाणिनाशयति तथा नृपान् संग्रामैर्हन्ति । तथोदयर्क्षंयस्मिन्नक्षत्रे उदितो दृश्यते तच्च पीडयति । तथाच पराशरः । अथ सम्बर्त्तको वर्षसहस्रमष्टोत्तरंप्रोष्य पश्चिमेनास्तं गते सवितरि सन्ध्यायां दृश्यतेतन्वीं ताम्ररूपां शूलाभां धूमं विमुञ्चन्तीं दारुणांशिखां कृत्वा नभस्त्रिभागमाक्रम्य यावन्मुहूर्त्तान्निशि तिष्ठति तावद्वर्षाणि हन्ति परस्परंशस्त्रौघमपि पार्थिवाः । यानि नक्षत्राणि समा-श्रयति यत्र वोदेति तानि दाहनतरं पीडयतितदाश्रितांश्च देशानिति” ।तथा च गर्गः ।“येषां नक्षत्रविषये रूक्षः स ज्वाललोहितः ।दृश्यते बहुमूर्त्तिश्च तेषां विद्यात् महाभयम् ॥
अवर्षशस्त्रपारुष्यकोपं दुर्भिक्षमेव च ।कुर्य्यान्नृपतिपीडाञ्च सचक्रपरचक्रतः ॥
यत्र तिष्ठति नक्षत्रे प्रवासं यत्र गच्छति ।धूपयेद्वा स्पृशेद्वापि हन्याद्देशांस्तथाश्रयान् ॥
यस्याभिषेकनक्षत्रं जन्मभं कर्म्मभं तथा ।देशर्क्षं पीडयेद्वापि स शान्तिपरमो भवेत् ॥
स्निग्धः प्रसन्नो विमलः प्रदक्षिणशिखस्तथा ।दृश्यते येषु देशेषु शिवं तेषु विनिर्द्दिशेत्” ॥
अथ शुभान् केतून् वर्ज्जयित्वाशुभानां नक्षत्रस्पर्श-नाधूपनाद्दुष्टफलं वक्ष्यामीत्याह ।“ये शस्तास्तान् हित्वा केतुभिराधूपितेऽथवा स्पृष्टे ।नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान्” ॥
ये केतवः शस्ताः प्रशस्तफलास्तान् त्यक्त्वान्यैःकेतुभिः नक्षत्रे धूपिते अथवा स्पृष्टे येषां नृपाणांवधो मरणं भवति तान् नृपान् कथयिष्येतांश्चाधुनाह । “अश्विन्यामश्मकपं भरणीषु किरा-तपार्थिवं हन्यात् । बहुलासु कलिङ्गेशं रो-हिण्यां शूरसेनापतिम्” ॥
अश्विन्यामभिधूपितायांस्पृष्टायां वा केतुना अश्मकानां जनानामधिपतिंनाशयेत् एवं सर्व्वत्र । अन्येष्वाह । “उशीनरमपिभाग्ये उज्जयनीपमार्य्यम्ने । सावित्रे दण्डकाधिपतिंभौजङ्गे असिकेशम् । मघायां अङ्गाधिपंपूर्व्वफल्गुन्यां पाण्डुनाथम्” ॥
भाग्ये पूर्व्वफल्गुन्यांउशीनरम् । आर्य्यन्मे उत्तरफल्गुन्यां उज्जयनी-पतिम् । सावित्रे हस्तायां दण्डकारण्यनाथम् ।भौजङ्गे अश्लेषायां असिका जनास्तेषामीशम् ।अन्येष्वाह ।“चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत् ।वाचा काश्मीरकाम्बोजौ नृपती प्राभञ्जने न स्तः” ॥
चित्रासु केतुनाभिधूपितासु स्पृष्टासु च कुरु-क्षेत्राधिपस्य मरणं वधं केतूपघातज्ञः समा-दिशेत् । प्राभञ्जने खात्यां काश्मीरकाम्बोजाधिपौन स्तः न भवतः । अन्येष्वाह । “इक्ष्वाक्वलकनाथश्चहन्यते यदि भवेद्विशाखासु । मैत्रे पुण्ड्राधिपतिंज्येष्ठासु च सार्व्वभौमकान्यकुब्जाधिपवधः” ॥
विशाखासु यदि केतूपघातो भवेत् तदा इक्ष्वा-कुनाथोऽलकनाथश्च हन्यते । इक्ष्वाकवो जनाः ।अलका नगरी । अनुराधायां पुण्ड्राधिपतिंहन्यात् । ज्येष्ठासु च सार्व्वभौमस्य राज्ञो वधःकान्यकुब्जाधिपस्य च वधः । अन्येष्वाह । “मूलेनृमद्रकपती जलदेवे काशिपो मरणमेति ।यौधेयकार्ज्जुनायनशिविवैद्यान् वैश्वदेवे च” ॥
मूले केतुनाभिधूपिते स्पृष्टे वा नृपतिं मद्रकपतिंच हन्ति । जलदेवे पूर्व्वाषाढायां काशिपति-र्म्मरणमेति । वैश्वदेवे उत्तराषाढायां यौधेयकःअर्ज्जुनायनः शिविः वैद्यः एतान्नृपतीन् हन्ति ।अथान्येष्वप्याह । “हन्यात् कैकयनाथं पाञ्चनदंसिंहलाधिपं वङ्गपम् । नैमिषनृपं किरातपंश्रवणादिषु षट्सु षडिमान् क्रमशः” ॥
षट्सुश्रवणादिषु हतेषु षडिमान्नृपान् क्रमशः क्रमेणहन्यात् ॥
तद्यथा ।श्रवणे हते कैकयनाथम् । धनिष्ठायां पञ्चन-दाधिपतिम् । शतभिषायां सिंहलाधिपतिम् ।प्राग्माद्रपदायां वङ्गाधिपतिम् । उत्तरासु नैमिष-नृपम् । रेवत्यां किराताधिपं हन्यात् ॥
* ॥
अथ केतोर्व्विशेषमाह ।“उल्काभिताडितशिखः शिखी शिवः शिव-तरोऽभिदृष्टः । अशुभः स एव चोलवङ्गसितहून-चीनानाम्” ॥
यः शिखी केतुः उल्कयाभि-मुख्येन ताडिता हता शिखा चूडा यस्य सशिवः श्रेयस्करः योऽभिदृष्ट उदितमात्र एवदृष्टः स शिवतरः अतिशयेन शुभप्रदः केतु-रेवं विधश्चोलानां वङ्गानां सितानां हूनानां चा-शुभः । चोलाद्याः सर्व्व एव जनाः ॥
* ॥
अन्यद्विशेषमाह ।“नम्रा यतः शिखिशिखाभिसृता यतो वा-थर्क्षं च संस्पृशति तत्कथितांश्च देशान् ।दिव्यप्रभावनिहतान् स यथा गरुत्मान्भुङ्क्ते गतो नरपतिः परभोगिभोगान्” ॥
यतो यस्यां दिशि शिखिनः शिखा केतुशिखानम्रा वक्रा तत्र ये देशा यस्यां वा गन्तुं प्रवृत्ताअथ यदि ऋक्षं नक्षत्रं संस्पृशति त्कथितांश्चदेशान् यस्यां दिशि शिखा नम्रा तत्र च ये देशावक्ष्यमाणास्तांस्तत्कथितान् नरपती राजा गतोभुङ्क्ते स्वीकरोति । कीदृशान् दिव्येनाप्रतिहतेनप्रभावेण पराक्रमेण निहतान् निर्ज्जितान् कीदृ-शान् परैरन्यैर्भोगिभिर्भुज्यन्ते भोगा ग्रामास्तान्कथं स राजा मुङ्क्ते यथा गरुत्मान् गरुडः दिव्य-प्रभावनिहतान् परभोगिभोगान् भुङ्क्ते परा उत्-कृष्टा ये भोगिनः सर्पास्तेषां भोगाः शरीराण्य-ङ्गानि च तान् यथा येन प्रकारेण तथा ।तथा च पराशरः ।“यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभियोजयेत् ।यतः शिखा यतो धूमस्ततो यायान्नराधिपः ॥
प्रतिलोमो यतः केतुर्यया ध्यायति पार्थिवः ।सामान्यवाहनबलस्तन्नाशमधिगच्छति” ॥
इति भट्टोत्पलविरचितायां संहितावृत्तौ केतु-चाराध्यायः ॥
* ॥
अन्यच्च ।“अनग्नावग्निरूपं वा ध्वजशस्त्रगृहोपमम् ।तुरङ्गगजवृक्षादिनानारूपाणि केतवः ॥
शतमेकोत्तरं व्योम्नि सहस्रमपरे विदुः ।नानारूपमनेकञ्चाप्येकमेवाह नारदः ॥
दिव्या नक्षत्रगा भौमाः केतवस्त्रिविधा मताः ।शुक्लो ह्रस्वतनुः स्निग्ध ऋजुश्चाचिरसंस्थितः ॥
उदितोऽप्यतिवृष्टिः स्यात् सुभिक्षसुखकृच्छिखी ।विपरीतस्वरूपस्तु धूमकेतुर्न शोभनः ॥
इन्द्रायुधानुकारी च द्विचूडो वा त्रिचूडकः ।श्वेतः शस्त्राकुलं कुर्य्याल्लोहितस्त्वग्निजं भयम् ॥
क्षुद्भयं पीतकः कुर्य्यात् कृष्णो रोगमथोल्वणम् ।शक्त्याकारो विनाशाय सुखाय मुषलाकृतिः ॥
दीर्घः सूक्ष्मः सुखायैव ह्रस्वः स्थूलो विनाशकृत् ।मणिवर्णसुवर्णाभ्यां किरणाभ्यां शिखान्विताः ॥
प्राक् पश्चिमदिशोदृश्या नृपयुद्धाय तेऽर्कजाः ।वह्निजाः शुक्लवर्णाश्च लाक्षाबन्धूकसन्निभाः ॥
आग्नेय्यां दिशि दृश्यन्ते ते च वह्निभयप्रदाः ।कृष्णा वक्रशिखा रूक्षा मृत्युजाः पञ्चविंशतिः ॥
याम्यायां ते च दृश्यन्ते नृणां मरकसूचकाः ।आदर्शवृत्ताकृतयो विशिखाः क्षितिसम्भवाः ॥
सांशवस्तैलतोयाभा ऐशान्यां क्षुद्भयप्रदाः ।चन्द्रजा हिमकुन्देन्दुकुमुदाभाश्च तैलवत् ॥
जलाभाश्चोत्तरे दृश्याः केतवस्ते सुभिक्षदाः ।त्रिवर्णस्त्रिशिखश्चैको ब्रह्मजोऽसौ युगान्तकृत् ॥
स चानियतदिक्संस्थो ब्रह्मदण्डः स उच्यते ।अर्कजा वह्निजा याम्यास्त्रयस्ते तत्त्वसङ्ख्यया (२५) ॥
क्षितिजा जातिसङ्ख्याश्च(२२) त्रयोऽन्ये ब्रह्मजोऽप्ययं ।एकोत्तरशतं ह्येते सहस्रन्त्वथ लक्षणैः ॥
शुक्राच्चतुरशीत्याख्या विपुलाः सिततारकाः ।स्निग्धास्तीव्रफला ज्ञेयाः सप्रभा द्विशिखाः परे ॥
षष्टिः शनितनूद्भूतास्तेऽतिनष्टफलप्रदाः ।सर्व्वत्र कनकोद्दीप्ता विकचा नाम जीवजाः ॥
शितैकतारा विशिखाः पापा याम्याश्रितास्तु ते ।नातिव्यक्ताः सूक्ष्मदीर्घाः शुक्ला बुधसमुद्भवाः ॥
पापदास्तस्कराख्यास्ते यथेष्टदिक्प्रभान्विताः ।त्रिचूडताराः क्षतजा नानारूपाः कुजात्मजाः ॥
कौङ्कुमाख्या हि ते सौम्य दिक्स्थाः पापफलप्रदाः ।त्रिशिखाश्च त्रिताराश्च रक्तलोहितरश्मयः ॥
लोहिताङ्गात्मजाः षष्टिः संग्रामभयकारकाः ।तामसाः कीलकाख्याश्च राहुजाः सूर्य्यविम्वगाः ॥
दृष्टाः शुभफलास्ते च चन्द्रस्थाः पापदायिनः ।कबन्धध्मांक्षशस्त्राभाश्चन्द्रेऽर्केऽप्यशुभप्रदाः ॥
कृष्णाभाः कृष्णपर्य्यन्ताः संकुलाः कृष्णरश्मयः ।राहुपुत्त्रास्त्रयस्त्रिंशत् केतवश्चातिदारुणाः ॥
यत्रार्कविम्बे दृश्यन्ते व्यसनन्तन्महीपतेः ।स्वचक्रं परचक्रेण पीड्यते क्षुद्रुजान्वितम् ॥
अनोधनुःक्षेत्ररूपा नृपवित्तक्षयावहाः ।ध्माङ्क्षो वा कृष्णशङ्कुर्व्वा कबन्धो वार्कमण्डले ॥
दृश्यते यत्र तत्राशु भूमिपालो विनश्यति ।दण्डकीलकपीठास्त्रं दृश्यते सूर्य्यमण्डले ॥
दुर्भिक्षेतिभयव्याधिवह्निचौरादिपीडनम् ।शृगालान् गर्दभानश्वान् यांश्चान्यान् मृगपक्षिणः ॥
आदित्यमण्डले दृष्ट्वा देशभङ्गं विनिर्दिशेत् ।मण्डलाभ्यन्तरस्थैश्च क्रव्यादैर्मृगपक्षिभिः ॥
परचक्रागमो वाच्यः प्रजानाशस्तथैव च ।यत्रार्कविम्बस्तत्र स्याद्राजाऽन्यत्र प्रजाक्षयः ॥
एको दुर्भिक्षकृद्वात्यानृपनाशभयप्रदः ॥
सितरक्तहरित्कृष्णैर्व्विद्धो द्विजनृपादिहा ।वह्निजा विश्वरूपाख्या ज्वालामालाकुलाः शतम् ॥
श्यामारुणा विताराश्च विकीर्णामरसन्निभाः ।तारापुञ्जनिभा रूक्षा वायुजाः सप्तसप्ततिः ॥
ब्रह्मजाश्चतुरस्रास्ते वेदाधिकशतद्वयम् ।द्वात्रिंशद्वंशगुल्माभाः कङ्काख्या वरुणोद्भवाः ॥
प्रभाढ्याः शशिवत्ते च ज्ञेयास्तीक्ष्णफलप्रदाः ।विरूपताराश्चित्रा वा शिखिनस्तेऽशुभप्रदाः ॥
सर्व्वदिक्प्रभवाः शुक्लाः केतवो भयदायिनः ।एवं केतुसहस्रञ्च तद्विशेषश्च वक्ष्यते” ॥
* ॥
“उत्तरायतसुस्निग्धो महान् यश्चापरोदयी ।करोति मरकं सद्यः सुभिक्षञ्च तथोत्तमम् ॥
रूक्षोऽस्थिकेतुः क्षुद्भीत्यै प्राच्यां स्निग्धोऽप्युपप्लवः ।कपालकेतुर्य्यो दर्शे सधूम्रांशुशिखो भवेत् ॥
प्रागर्द्धचारी नभसः क्षुन्मारावृष्टिकारकः ।प्रागग्निमार्गाच्छूलाग्रो रूक्षः श्यामलताम्ररुक् ॥
त्रिभागचारी नभसो रौद्राख्यः पूर्व्ववत् फलम् ।अपरस्यां चलकेतुः शिखया दक्षिणाग्रया ॥
अङ्गुलोच्छ्रायया गच्छेदुत्तराशां यथा यथा ।तथा दैर्घ्यं समायाति मुनीन् संस्पृश्य सप्त च ॥
ध्रुवं प्रतिनिवृत्तोऽभिजितञ्च नभसोऽर्द्धकम् ।गत्वाऽस्तं याति याम्येन स प्रयागकुलावधि ॥
अवन्तीं पुष्करारण्यं यावद्धन्यात्तथापरान् ।देशान् क्वचित् क्वचिद्रोगदुर्भिक्षैः परिपीडितान् ॥
श्वेताख्यस्तु जटाकारो श्यामो व्योमत्रिभागगः ।निवर्त्ततेऽपसव्येन त्रिमागी कुरुते प्रजाः ॥
आधूम्रशिखया दृश्यः कृत्तिकासंस्थितोऽपरः ।रश्मिकेतुरिति ख्यातस्त्रिभागी कुरुते प्रजाः ॥
पश्चात् सन्ध्यासु सम्बर्त्तो धूमताम्रशिखो वियत् ।त्र्यंशमाक्रम्य शूलाग्रावस्थितो रौद्रदर्शनः ॥
मुहूर्त्तान् यावतो दृश्यस्तावद्वर्षाणि हन्ति सः ।भूपशस्त्रनिपाताद्यैरुदयर्क्षं निपीडयेत्” ॥
* ॥
“चैत्रवैशाखयोर्म्मध्ये कौवेरांस्तु विनिर्द्दिशेत् ।उच्छ्रितैर्यूपवेदीभिरुच्छ्रितैर्ध्वजतोरणैः ॥
हविर्धूमाकुला तत्र दृश्यते च वसुन्धरा ।ज्यैष्ठे चैव तथाषाढे वायुपुत्त्रांश्च निर्द्दिशेत् ॥
वान्ति चैव तथा वाता महायुद्धं महाभयम् ।श्रावणप्रौष्ठपदयोर्व्वारुणांस्तु विनिर्द्दिशेत् ॥
आरोहयन्ति ते मेघान् पूर्णां कुर्य्युर्व्वसुन्धराम् ।धान्यं समार्घ्यतां याति ईतयो न भवन्ति च ॥
आश्विने कार्त्तिके चैव सूर्य्यपुत्त्रान् विनिर्द्दिशेत् ।ततो दहति तीव्रांशुः सर्व्वान्नानि दिवाकरः ॥
म्रियन्ते च तदा गावः श्वापदाश्च विशेषतः ।मार्गशीर्षे च पौषे च वह्निपुत्त्रान् विनिर्द्दिशेत् ॥
शीघ्रं भवति दुर्भिक्षं हाहाभूतमचेतनम् ।माघे च फाल्गुने चैव यमपुत्त्रान् विनिर्द्दिशेत् ॥
छर्द्दिर्ज्वरातिसारश्च ग्लानिश्चैवाक्षिवेदना ॥
* ॥
कृत्तिका रोहिणी सौम्यं पृथिव्या मध्यमुच्यते ॥
केतवो ह्यत्र दृश्यन्ते आग्नेया दश पञ्च च ।आग्नेयेषु च दृष्टेषु लोकानां संक्षयो भवेत् ॥
नित्योद्विग्नाः प्रजाः सर्व्वा भवन्ति हि न संशयः ।पुनर्व्वसुस्तथा पुष्यः पृथिव्याः पूर्व्वमुच्यते ॥
केतवो ह्यत्र दृश्यन्ते रौद्रास्तेऽप्येकविंशतिः ।यदा रौद्राः प्रदृश्यन्ते दुर्भिक्षं निर्द्दिशेत्तदा ॥
घूर्णन्ते च प्रजाः सर्व्वा मृत्युक्षुद्रोगपीडिताः ।अश्लेषापित्र्यभाग्यानि विद्याद्दक्षिणपूर्व्वतः ॥
केतवो ह्यत्र दृश्यन्ते औद्दालकिसुता दश ।सुभिक्षं क्षेममारोग्यं सुवृष्टिः शस्यसम्पदः ॥
आर्य्यम्नादीनि च त्रीणि विद्याद्दक्षिणभागतः ।केतवो ह्यत्र दृश्यन्ते काश्यपेयाश्चतुर्द्दश ॥
अनावृष्टिभयं घोरं प्रजानामतिदारुणम् ।स्वाती विशाखा मित्रञ्च भागो दक्षिणपश्चिमः ॥
केतवो ह्यत्र दृश्यन्ते चत्वारो मृत्युसम्भवाः ।दुर्भिक्षं मरकं घोरमनावृष्टिस्तथैव च ॥
उपद्रवश्च भूतानां तदा भवति दारुणः ।ज्येष्ठा मूलमथाषाढा भाग उत्तरपश्चिमः ॥
केतवो ह्यत्र दृश्यन्ते त्रयस्ते सोमसम्भवाः ।मुभिक्षञ्च सुवृष्टिञ्च मही यज्ञोत्सवाकुला ॥
उत्तरा श्रवणा चैव नक्षत्रं वसुदैवतम् ।केतवो ह्यत्र दृश्यन्ते माहेयाः पञ्चविंशतिः ॥
माहेयेषु च दृष्टेषु लोकानां संक्षयो ध्रुवम् ।तदा राजसहस्राणां मही पिबति शोणितम् ॥
वारुणञ्चैव नक्षत्रं तथा भाद्रपदद्वयम् ।केतवो ह्यत्र दृश्यन्ते वारुणास्त्रय एव ते” ॥
* ॥
“ऊर्म्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः ।ऊर्म्मिकेतुर्यदा दृश्येत्तदाप्युदकजं भयम् ॥
श्वेतकेतुर्यदा दृश्येत् श्वेतास्थि कुरुते महीम् ।तदा मानुषमांसानि भक्षयन्तीह मानुषाः ॥
क्षुद्भयार्त्तं जगत् कृत्स्नं चक्रवद्भ्रमते तदा ।धूमकेतुर्यदा दृश्येत्तस्य वक्ष्यामि लक्षणम् ॥
स हन्ति शिखया योधान् राजानं मन्त्रिणं जनान् ।रेवत्याश्वयुजञ्चैव नक्षत्रं यमदैवतम् ॥
केतवो ह्यत्र दृश्यन्ते यमपुत्त्रास्त्रयोदश ।यमपुत्त्रेषु दृष्टेषु लोकानां संक्षयो ध्रुवम् ॥
चतुर्व्विधानां भूतानां संशयो जायते महान्” ॥
* ॥
“अपरे विविधाः सन्ति वृहस्पत्यादिकेतवः ॥
नृपदेशविनाशाय दुर्भिक्षभयदायकाः ।कुमुदाभस्तु कुमुदो वारुण्यां प्राक्शिखो निशाम् ॥
एकां दृष्टः सुभिक्षाय दशवर्षाणि सौख्यदः ।पश्चिमाभ्युदिताश्चान्ये कुर्व्वन्ति प्रबलान् ज्वरान् ॥
पाण्डुरोगं प्रतिश्यायं मुखरोगमरोचकम् ।क्षीरधारेव शुक्लाभा ऋज्वी सूक्ष्मतरा शिखा ॥
सकृद्यामैकदृश्यास्ते चतुर्म्मासं सुभिक्षदाः ।जलकेतुस्तु यः पश्चात् शिखया नतया परे ॥
सुभिक्षं कुरुते शान्तिं प्रजानां नवमासतः ।भवकेतुस्त्वेकरात्रं दृश्यः प्राक् सूक्ष्मतारकः ॥
दक्षिणावर्त्तशिखया हरिलङ्गूलतुल्यया ।मुहूर्त्तान् यावतो दृश्यस्तावन्मासान् सुभिक्षदः ॥
स एव रूक्षो दृश्यश्चेद्रोगप्राणान्तकारणम् ।पद्मकेतुर्मृणालाभो निशामेकां प्रदृश्यते ॥
सप्त मासान् सुभिक्षं स हर्ववर्षणदायकः ।आवर्त्तः सव्यशिखयारणाभश्च निशार्द्धगः ॥
स्निग्धोयावत्क्षणान् दृश्यस्तावन्मासान् सुभिक्षदः ।ध्रुवकेतुस्त्वनियतगतिवर्णाकृतिर्ब्बहुः ॥
दिव्यान्तरीक्षभौमोऽयं स्निग्ध इष्टः स नान्यथा ।सेनाङ्गेषु महीन्द्राणां देशस्य गिरिशाखिषु ॥
उपस्करेषु गृहिणां दृश्यते च विनाशकृत् ।हन्यादुल्का यदागस्त्यं केतुर्व्वाप्युपधूपयेत् ॥
दुर्भिक्षं मरकञ्चैव तदा जगति जायते ।यदा तु भार्गवं प्राप्य धूमकेतुः प्रधूपयेत् ॥
तदा सैन्यानि वध्यन्ते यत्रोद्युक्ता नराधिपाः ।यात्रागताश्च ये सार्था असुमन्तश्च ये जनाः ॥
तथा चारगणाः सर्व्वे भयमृच्छन्ति दारुणम् ।यदा प्रधूपयेत् केतुः सप्तर्षीन् ध्रुवमेव च ॥
तदा लोकाः क्षयं यान्ति सलिलञ्चापि शुष्यति ।धूमकेतुर्यदा राज्ञो दृश्यते विषये क्वचित् ॥
सराष्ट्रः सपुरो राजा क्षिप्रमेव प्रणश्यति ।यावन्त्यहानि दृश्यन्ते तावन्मासान् फलप्रदाः ॥
मासैरब्दान् विजानीयात् प्रथमे तु त्रिपक्षतः” ॥
* ॥
“केतूत्पाते तु सर्व्वस्मिन् सभये समुपस्थिते ॥
महाशान्तिं प्रकुर्व्वीत विविधां भूरिदक्षिणाम् ।धनं वा सर्व्वमुत्सृज्य मृत्योर्म्मुच्येत बन्धनात् ॥
दद्याद्वा पृथिवीं सर्व्वां राजा शान्तिं नियच्छति ।अकस्माद्दृश्यते केतुरुदयेऽस्तमयेऽपि वा ॥
निहन्त्यन्तःपुरे राज्ञो ज्वरः पित्तोद्भवो भवेत् ।दधिमधुघृताक्तानां पुष्पाणामयुतं ततः ॥
जुहुयादिन्द्रनीलस्य केतुं दद्याद्द्विजातये ।भूषितं हेमरत्नाद्यैस्ततः सम्पद्यते शुभम्” ॥
इति मथुरानाथविद्यालङ्कारकृतसमयामृते केतू-त्पाताः समाप्ताः ॥
केतुगणः कुशद्वीपजातः जैमिनि-मुनेः सन्तानः षडङ्गुलः धूम्रवर्णः गृध्रवाहनःशूद्रवर्णः विकृताननः सूर्य्याभिमुखः वृद्धः धूम्र-वसनः वरदः गदाधरश्च । तस्याधिदेवता चित्र-गुप्तः प्रत्यधिदेवता ब्रह्मा । इति ग्रहयागतत्त्वम् ॥
अस्य स्वरूपं शनिराहुवत् । स च शिखावान्अनेकरूपः । इति जातकम् ॥
* ॥
रोगः । पताका । (यथा, रघौ ७ । ६५ ।“सशोणितैस्तेन शिलीमुखाग्रै-र्निक्षेपिताः केतुषु पार्थिवानाम्” ॥
)उत्पातः । (यथा, मनुः १ । ३८ ।“उल्कानिघातकेतूंश्च ज्योतींष्युञ्चावचानि च” ॥
)चिह्नम् । इति मेदिनी । (यथा, रघुः २ । ३३ ।“तमार्य्यगृह्यं निगृहीतधेनु-र्मनुष्यवाचा मनुवंशकेतुम् ।विस्माययन् विस्मितमात्मवृत्तौसिंहोरुसत्वं निजगाद सिंहः” ॥
)दीप्तिः । इति हेमचन्द्रः ॥
(सूर्य्यः । यर्था, ऋग्वेदे१० । ८ । १ । “प्रकेतुना वहता यात्यग्निः” ।तत्रैव । ३ । ३४ । ४ “प्रारोचयन् मनवे केतु-मह्नाम्” । रश्मिः ॥
यथा, ओँ उदुत्यं जातवेदस्रंदेवं वहन्ति केतवः दृशे विश्वाय सूर्य्यम्” ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
