कॄत (kRRta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishShabdartha Kaustubha
Kannadaकॄत - संशब्दने (चुरा० उभ० सक० से०) कीर्तयति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹೇಳು
कॄत - संशब्दने (चुरा० उभ० सक० से०) कीर्तयति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹೆಸರು ಹಿಡಿಸು ಕರೆ
कॄत - संशब्दने (चुरा० उभ० सक० से०) कीर्तयति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊಗಳು
कॄत - संशब्दने (चुरा० उभ० सक० से०) कीर्तयति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ವರ್ಣಿಸು
कॄत - संशब्दने (चुरा० उभ० सक० से०) कीर्तयति-ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಸ್ತೋತ್ರಮಾಡು
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुपाठः (Krishnacharya)
Sanskrit कॄत्
कॄत
संशब्दने
चुरादिः
सकर्मकः
सेट्
उभयपदी
कीर्तयति-ते
अदन्तः
धातुप्रदीपः
Sanskritकॄतँ कॄत संशब्दने
- कीर्त्तयति अचीकृतत् अचिकीर्त्तत् अचकीर्त्तदिति तु धातुपारायणम् कीर्त्तिः कीर्त्तनम् कीर्त्तनेति युजपि कालापैरिष्यते 114
क्षीरतरङ्गिणी
Sanskritकॄतँ कॄत संशब्दने
- (अर्थविवरणम्) संशब्दनमुद्घोषः
कीर्तयति ऊतियूति (3397) इति कीर्तिः 112
धातुवृत्तिः
Sanskritकॄतँ कॄत (अर्थः) संशब्दने
( कीर्तयति ) "उपधायाश्च'' इतीत्त्वरपरत्त्वयोः "हलि च'' इति दीर्घः ( अचिकीर्तत् अचीकृतत् ) अरृद्वा अन्यदा णौ कृतं स्थानिवदितीत्त्वस्य स्थानिवत्त्वं न भवति यत्र द्विरुक्तौ परभागस्याद्योजवर्णस्तत्रैवेयं परिभाषेत्येवं "द्विर्वचनेऽचि'' इत्यादौ भाष्यकैटयोः स्थितम् एवमेव "उरृत्'' इत्यादौ पदमञ्जर्यादिष्वपि यत्तु "स्तौतिण्योरेव'' इत्यत्रास्य सिषेचयिषत्यादौ सिचेर्हेतुमण्णौ गुणे सनीटि गुणायादेशयोरुत्तरखण्डस्यावर्णाभावेऽप्यनया परिभाषया गुणस्य स्थानिवत्त्वेन सिचशब्दस्य द्विरुर्क्तेर्वचनं तदस्याः परिभाषायाः सामान्यताश्रयणेन स्थानिवत्त्वेऽपि रूपसिद्धौ विशेषो नास्तीत्येतावता न तु सिद्धान्तस्थित्या कथन्तहिं "लोपः पिबतेः'' इत्यत्र वृत्तावपीष्यदित्यत्र पिबतेर्णौ युकिचङि "लोपः पिबतेरीच्चाभ्यासस्य'' इत्युपधालोपे तस्यानया परिभाषया स्थानिवत्त्वमाश्चित्य पाय्शब्दस्य द्विरुक्तिरूक्ता, नह्यत्रोत्तरखण्डस्याद्यमचमवर्णं पश्यामः यद्यपि प्रयोगे न पश्यामः स्थानिवत्त्वेन पाय्शब्दे द्विरुक्ते प्रक्रियायामुत्तरखण्डेवर्णं पश्याम इति न दोषः तस्य च "लोपः पिबतेः'' इत्यस्य पुनः प्रवृत्त्या प्रयोगे दर्शंनमेवमौजढदित्यत्राप्यूढशब्दाण्णिचि टिलोपे तस्य स्थानिवत्त्वे ढत्त्वादीनामसिद्धत्त्वे हत्शब्दस्य द्विरुक्तिः, प्रक्रियावाक्ये उत्तरखण्डस्याजवर्ण इति न क्वचिद्दोषः एवं चौजिढदपीप्यदित्यादिसिद्ध्यर्थमस्याः परिभाषायाः सामान्यत्त्वमाश्रित्यात्र "लोपः पिबतेः'' इत्यत्र वृत्तिकारवचनं "स्तौतिण्योरेव'' इत्यत्र न्यासकारवचनं च सं वादयन्नचिकीर्तदिति सिद्ध्यर्थमनित्यत्त्वं चास्या वदन् सीरदेवोऽपि प्रत्युक्तः प्रकृतमनुसरामः ( कीर्तिः ) "ऊतियूति'' इत्यादिना युजपवादः क्तिन् कालापास्तु युचमीच्छन्ति कीर्तनेति "ऋदुपधाच्चाक्लृपिचृतेः'' इत्यत्र तपरकरणाद् ऋकारोपधकीर्तयतिव्यावृत्त्यर्थादस्माण्णिचोऽनित्यत्त्वं ज्ञाप्यते नित्ये णिच्यनुपधात्त्वादेव ॠकारस्यात्र क्यष् न भविष्यतीति किं तपरकणेनैतद्व्यावृत्त्यर्थेन, तेन कीर्ततीत्यादि च भवति 118
कृदन्तरूपमाला
Sanskrit1 {@“कॄत संशब्दने”@} 2 संशब्दनम् = उद्धोषः।
‘कृणत्ति कृन्ततीत्येते वेष्टने च्छेदने क्रमात्।
कीर्तयेदिति संशब्दे--’ 3 इति देवः।
4 कीर्तकः-र्तिका, 5 कीर्तकः-र्तिका, 6 चिकीर्तयिषकः-षिका, 7 चेकीर्तकः-र्तिका
कीर्तयिता-त्री, कीर्तिता-त्री, चिकीर्तयिषिता-त्री, चेकीर्तिता-त्री
कीर्तयन्-न्ती, 8 कीर्तन्-न्ती, चिकीर्तयिषन्-न्ती
-- कीर्तयिष्यन्-न्ती-ती, कीर्तिष्यन्-न्ती-ती, चिकीर्तयिषिष्यन्-न्ती-ती
कीर्तयमानः, -- चिकीर्तयिषमाणः, चेकीर्त्यमानः
कीर्तयिष्यमाणः, -- चिकीर्तयिषिष्यमाणः, चेकीर्तिष्यमाणः
कीर्त्-कीर्तौ-कीर्तः
-- -- -- 9 कीर्तितम्-तः, कीर्तितः, चिकीर्तयिषितः, चेकीर्तितः-तवान्
कीर्तः, 10 कॄतः, चिकीर्तयिषुः, चेकीर्तः
कीर्तयितव्यम्, कीर्तितव्यम्, चिकीर्तयिषितव्यम्, चेकीर्तितव्यम्
11 12 कीर्तनीयम्, कीर्तनीयम्, चिकीर्तयिषणीयम्, चेकीर्तनीयम्
कीर्त्यम्, कीर्त्यम्, चिकीर्तयिष्यम्, चेकीर्त्यम्
ईषत्कीर्तः-दुष्कीर्तः-सुकीर्तः
-- -- -- कीर्त्यमानः, कीर्त्यमानः, चिकीर्तयिष्यमाणः, चेकीर्त्यमानः
13 कीर्तः, कीर्तः, चिकीर्तयिषः, चेकीर्तः
कीर्तयितुम्, कीर्तितुम्, चिकीर्तयिषितुम्, चेकीर्तितुम्
14 कीर्तिः- 15 कीर्तना, 16 कीर्त्तिः, चिकीर्तयिषा, चेकीर्ता
कीर्तनम्, कीर्तनम्, चिकीर्तयिषणम्, चेकीर्तनम्
कीर्तयित्वा, कीर्तित्वा, चिकीर्तयिषित्वा, चेकीर्तित्वा
सङ्कीर्त्य, सङ्कीर्त्य, सञ्चिकीर्तयिष्य, सञ्चेकीर्त्य
कीर्तम् २, कीर्तयित्वा २, कीर्तम् २, कीर्तित्वा २, चिकीर्तयिषम् २, चिकीर्तयिषित्वा २, चेकीर्तम् २
चेकीर्तित्वा २।
01 (२५९)
02 (१०-चुरादिः-१६५४। सक। सेट्। उभ।)
03 (श्लो। ९४)
04 [[१। ‘उपधायाश्च’ (७-१-१०१) इति इत्त्वम्, रपरत्वम्, ‘उपधायाञ्च’ (८-२-८) इति दीर्घः।]]
05 [[२। ‘ऋदुपधाच्च--’ (३-१-११०) इत्यत्र एतद्व्यावर्तकेन तपरकरणेन--णिचोऽत्र वैकल्पि- कत्वं बोध्यते। अतश्शुद्धधातोरपि रूपाणि प्रदर्शितानि।]]
06 [[३। ण्यन्तात् सनि रूपम्। णिजभावपक्षे शुद्धात् सनि तु ‘चिकीर्तिषकः-षिका, ’ इत्यादीनि रूपाणि ऊह्यानि।]]
07 [[४। णिजभावपक्षे शुद्धधातोरेकाच्त्वात् हलादित्वाच्च यङन्तरूपाण्यपि लिखितानि।]]
08 [[५। ‘शेषात् कर्तरि परस्मैपदम्’ (१-३-७८) इति परस्मैपदमेव। नात्मनेपदम्।]]
09 [[६। ‘निष्ठायां सेटि’ (६-४-५२) इति णेर्लोपः।]]
10 [[७। णिजभावपक्षे ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः। तेन लघूपधगुणो न।]]
11 [पृष्ठम्०२६३+ २४]
12 [[१। ‘णेरनिटि’ (६-४-५१) इति णिलोपः।]]
13 [[२। ण्यन्तात् ‘एरच्’ (३-३-५६) इत्यच्।]]
14 [[३। ‘ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च’ (३-३-९७) इत्ति युजपवादः क्तिन् निपात्यते।]]
15 [[४। वाहुलकात् युजपि--इति कालापाः, इति माधवीयधातुवृत्तिः।]]
16 [[आ। ‘जूतिमिच्छथ चेत्तूर्णं कीर्तिं वा पातुमात्मनः। करोमि वो बहिर्यूतीन् पिधध्वं पाणिभिर्दृशः।।’ भ। का। ७-६९।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
