| YouTube Channel

कृशरा (kRzarA)

 
शब्दकल्पद्रुमः
Sanskrit
कृशरा,
स्त्री,
(कृशर + टाप् ।) तिलौदनम् इतिहारावली
द्विदलमिश्रितान्नम् खिचडी इतिभाषा यथा, --“तण्डुला दालिसंमिश्रा लवणार्द्रकहिङ्गुभिः ।संयुक्ताः सलिलैः सिद्धाः कृशराः कथिता बुधैः”
अस्या गुणाः शुक्रबलकारित्वम् गुरुत्वम् ।पित्तकफप्रदत्वम् दुर्जरत्वम् विष्टम्भमलमूत्र-कारित्वञ्च इति भावप्रकाशः
(“मांसेक्षुपिष्टकृशरा तिलशस्कुलीभिः” ।इति माधवकरीयरोगविनिश्चयस्य कफशूलव्या-ख्यानेविजयेनोक्तं यथा, --“कृशरा तिलतण्डुलमाषयवागूः”
)