कृमिः (kRmiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit कीटकः, कीटः, कृमिः, क्रिमिः, नीलङ्गुः, नीलाङ्गुः, सर्पः, सर्पी, सर्पिणी
कृमिजातिः।
"वाय्वग्न्यम्बुप्रकृतयः कीटकस्तु विविधाः स्मृताः।"
मीवा, अन्त्रादः, लेलिहः, कृमिः
उदरकृमिः।
"तस्य उदरे मीवाः सन्ति।"
कृमिः
एकः नागराजः ।
"कृमेः वर्णनं बौद्धसाहित्ये वर्तते"
कृमिः
एका नदी ।
"कृम्याः वर्णनं महाभारते वर्तते"
कृमिः
असुरविशेषः ।
"कृमिः रावणस्य भ्राता वर्तते"
कृमिः
उशीनरस्य पुत्रः ।
"कृमेः वर्णनं महाभारते वर्तते"
वैजयन्तीकोषः
SanskritWord: कृमिः
Root: कृमि
Gender: पुं
Number: all
अर्थः ⇒
Meaning(s):
⇒ Son of a Vaidēhaka and a Karaṇi
Shloka(s):
3|5|33|2 ► वैश्या धन्ववनं शूद्रा गैरुषं करणी कृमिम्॥ (भूमिकाण्डः/मनुष्याध्यायः)
Synonym(s):
➠ 3|5|33|2 ⇢ कृमिः (कृमि) (पुं) ⇒ Son of a Vaidēhaka and a Karaṇi ⇒
Related word(s):
isa_k ➡ वैदेहपुत्राः स्युः नानायोषित्समुद्भवाः
अमरकोशः
SanskritWord: कृमिः
Root: कृमि
Gender: पुं
Number: all
Meaning(s):
⇒ lac
⇒ ant
⇒ worm
⇒ insect
⇒ spider
⇒ silk-worm
⇒ shield-louse
Shloka(s):
2|5|13|2 ► नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे॥ (सिंहादिवर्गः)
Synonym(s):
➠ 2|5|13|2 ⇢ नीलङगुः (नीलङ्गु) (पुं) ⇒ jackal, species of worm, species of fly or bee
➠ 2|5|13|2 ⇢ कृमिः (कृमि) (पुं) ⇒ lac, ant, worm, insect, spider, silk-worm, shield-louse
Related word(s):
परा_अपरासंबन्धः ➡ ऊर्णादिभक्षककृमिविशेषः
जातिः ➡ कीटः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritकृमिः (क्रामतीति । क्रमु पादविक्षेपे + “क्रमित-मिशतिस्तम्भामत इच्च” । उणां । ४ । १२१ । इतिइन् “भ्रमेः सम्प्रसारणञ्च” इति अनुवृत्तेः सम्प्र-सारणञ्च ।) कीटः । पोका इति भाषा । तत्प-र्य्यायः । नीलाङ्गः २ । इत्यमरः । २ । ५ । १३ ।निलाङ्गुः ३ क्रिमिः ४ । इति तट्टीका ॥
पुण्ड्रः ५ ।इति जटाधरः ॥
लाक्षा । कृमिलः । खरः । इतिविश्वमेदिन्यौ ॥
उदरजातकीटरोगः । तस्यौ-षधं यथा, --“वदरीकारवीमूलं गुडाज्येन समन्वितम् ।अग्निना साधितं जग्ध्वा कृमीन्सर्व्वान् हरेच्छिव !” ॥
इति गारुडे १९४ अध्यायः ॥
(“कृमयो द्विविधाः प्रोक्ता वाह्याभ्यन्तरसम्भवाः ।वाह्या यूकाः प्रिसद्गाः स्युः किञ्चुलूकास्तथान्तराः ॥
सप्तधा हि भवेद्वाह्याः षड्धाश्चान्तः समुद्भवाः ।तेषां वक्ष्यामि सभूतिं वाह्यानाभ्यन्तरे नृणाम् ॥
रूक्षादतिबलात् स्वेदात् चिन्तया शोचनादपि ।कफधातुसमुद्भूतास्तीक्ष्णा यूका भवन्ति हि ॥
यूकाः कृष्णाः पराः श्वेतास्तृतीयाश्चर्म्मणि स्थिताः ।सूक्ष्मातिविकटा रूक्षाश्चर्म्माभाश्चर्म्मयूकिकाः ।चतुर्थी विन्दुकी नाम वर्तुला मूत्रसम्भवा ॥
मत्कुणाद्याश्च पञ्चम्यो वाह्योपद्रवकारिणः ।यूका मस्तकसंस्थाने श्वेता वस्त्रनिवासिनी ॥
चर्म्मयूका नेत्रचर्म्मे सूक्ष्मे रोमणि यष्टिका ।उष्णद्रव्यनिषेवाच्च अजीर्णे मधुरद्रवात् ॥
रूक्षान्नगोधूमयवान्नपिष्ट-र्गुडेन वा क्षीरविपर्य्ययेण ।दिवाशयाने च सपिच्छलेनघर्म्मेण पापोदकसेचनेन ॥
सञ्जायते तेन मलाशयेषुकृमिव्रजं कोष्ठविकारकारि ॥
षड्विधास्ते समुद्दिष्टास्तेषां वक्ष्यामि लक्षणम् ।कफकोष्ठं मलाधारं कोष्ठे सर्पन्ति सर्पवत् ॥
पृथुमण्डा भवन्त्येके केचित् किञ्चुकसन्निभाः ।धान्याङ्कुरनिभाः केचित् केचित् सूक्ष्मास्तथाणवः ॥
सूचीमुखाः परिज्ञेयाश्चान्त्राणि सादयन्ति ते ।वक्ष्यामि लक्षणं तेषां चिकित्साञ्च शृणुष्व मे ॥
ज्वरोहृद्रोगशूलं वा वमिकृत् क्लेदनं भ्रमः ।अरुचिर्बन्धवैवर्ण्यमतीसारं सफोनिलम् ॥
गर्ज्जनं जठरे चैव मन्दाग्नित्वञ्च जायते ।पिपासा पीतता नेत्रे किञ्चुकैः पीडितस्य च ॥
इति गण्डूपदलक्षणम् ॥
* ॥
सूचीवत्तुद्यतेऽन्त्राणि रक्तञ्चैवातिसार्य्यते ।यकृद्वा भक्षयन्त्यन्ते रक्तं वा वमते भृशम् ॥
क्लेदो मुखेऽरुचिर्जाड्यं मन्दाग्नित्वञ्च वेपथुः ।क्षुत्तृष्णा च ज्वरो ज्ञेयाः सूचीमुखकृमोरुजाम् ॥
इति शूचीमुखलक्षणम् ॥
* ॥
ये च धान्याङ्कुरास्तेषां वक्ष्याम्यथ च लक्षणम् ।मलाशयस्थाः कृमयो मलं जघ्नन्ति ते भृशम् ॥
तैस्तु संपीड्यते देहे विड्विभेदं परूषता ।कृशत्वञ्चापि हृत्क्लेदं कृमयो जनयन्ति ते ॥
हारीतः संशयापन्नः पादौ संगृह्य पृच्छति ।कथं देहे मनुष्यस्य मलमूत्रवसाशये ॥
सम्भवन्ति कथञ्चादौ वर्द्धयन्ति कथं पुनः ।कथं वा शीर्णेऽन्नरसे नानाहारावभक्षणे ॥
जायन्ते केन कृमयः सूक्ष्माधोगामिनोऽप्यथ ।नानाऽऽमपक्वभक्षान्नं दहते वा हुताशनः ॥
कथन्ते कृमयश्चान्ते न दह्यन्तेऽन्तराग्निना ।एवं पृष्टो महाचार्य्यः प्रोवाच मुनिपुङ्गवः ॥
आत्रेय उवाच ।शृणुपुत्त्र ! महाबाहो ! कृमिसम्भवकारणम् ।विरुद्धान्नरसैः पुत्त्र ! रक्तञ्चैवास्य कुप्यति ॥
कफेनैकदिनं याति शुक्रेणाकारणं व्रजेत् ।पञ्चभूतात्मके वायौ ते तु जाताः सचेतनाः ॥
कोष्ठाग्निना न दह्यन्ते न जीर्य्यन्ते रसानिति ।विषे जातो यथा कीटो न विषेण मृतिं व्रजेत् ॥
तथा हुताशनोद्भ्तं न हुताशेन जीर्य्यति ।भेषजं संप्रवक्ष्यामि येन तेऽपि तरन्ति वै ॥
पतन्ति वा शमंयान्ति भेषजानि शृणुष्व मे ।वचाऽजमोदा कृमिजित्पलाशवीजं शठी रामठकं त्रिवृच्च ।उष्णोदके तत्परिपिष्यपेयंपतन्ति शीघ्रं शतधातुकीटाः ॥
शठी यवानी पिचुमर्द्दपत्रान्विडङ्गकृष्णातिविषा रसोनम् ।सम्पिष्य मूत्रेण त्रिवृत्प्रयुक्तम्विनाशनं सर्व्वकृमीरुजानाम् ॥
मरिचं पिप्पलीमूलं विडङ्गशिग्रुयवानिकात्रिवृतः ।गोमूत्रेण तु पेष्यं पानं शीघ्रं कृमीन् हन्ति ॥
मुस्ता विशाला त्रिफला सुपर्णाशिग्रुः सुवाह्वं सलिलेन कल्कः ।पानं सकृष्णा कृमिशत्रुचूर्णंविनाशनं सर्व्वकृमीरुजाञ्च” ॥
“मातुलुङ्गस्य मूलानि रसोनं कृमिजित्त्रिवृत् ।अजमोदा निम्बपत्रं गोमूत्रेण तु पेषयेत् ॥
पानमेतत् प्रशंसन्ति कृमिदोषनिवारणम् ।ज्वरप्रोक्तानि पथ्यानि कृमिदोषे प्रदापयेत् ॥
इति कृमिचिकित्सा” ॥
* ॥
इति महर्ष्यात्रेयभाषिते हारीतोत्तरे कृमिचि-कित्सा नाम पञ्चमोऽध्यायः ॥
* ॥
अस्य निदानपूर्व्वकससम्प्राप्तिचिकित्सितं-यथा ।“अजीर्णाध्यशनासात्म्यैर्विरुद्धमलिनाशनैः ।अव्यायामदिवास्वप्नगुर्व्वतिस्निग्धशीतलैः ।माषपिष्टान्नविदलविसशालूकशेरुकैः ॥
पर्णशाकसुवाशुक्तदधिक्षीरगुडेक्षुभिः ।पलालानूपपिशितपिण्याकपृथुकादिभिः ॥
स्वाद्वम्लद्रव्यपानैश्च श्लेष्मा पित्तञ्च कुप्यति ।कृमीन् बहुविधाकारान् करोति विविधाश्रयान् ॥
आमपक्काशयस्तेषां प्रसवः प्रायशः स्मृतः ।विंशतेः कृमिजातीनां त्रिविधः सम्भवः स्मृतः ॥
पुरीषकफरक्तानि तेषां वक्ष्यामि लक्षणम् ।अयवा वियवाः किप्याश्चिप्या गण्डूपदास्तथा ।चूरवो द्विमुखाश्चैव सप्तैवैते पुरीषजाः ॥
श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च ।तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि ॥
शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसंक्षयाः ।प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः ॥
रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः ।शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते ॥
दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा ।पिपीलिका दारुणाश्च कफकोपसमुद्भवाः ॥
रोमशा रोममूर्द्धानः सपुच्छाः श्यावमण्डलाः ।मूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा ॥
मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा ।शिरोहृद्रोगवमथुप्रतिश्यायकराश्च ते ॥
केशरोमनस्वादाश्च दन्तादाः किक्विशास्तथा ।कुष्ठजाश्च परीसर्प्पाः ज्ञेयाः शोणितसम्भवाः ॥
ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा ।रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते ॥
माषपिष्टान्नलवणगुडशाकैः पुरीषजाः ।मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः ॥
विरुद्धा जीर्णशाकाद्यैः शोणितोत्था भवन्ति हि ॥
ज्वरो विवर्णताशूलं हृद्रोगः सदनं भ्रमः ॥
भक्तद्वेषोऽतिमारश्च सञ्जातकृमिलक्षणम् ।दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्त्तिताः ॥
केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्ज्जयेत् ।एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् ॥
सुरसादिविपक्वेन सर्पिषा वान्तमादितः ।विरेचयेत्तीक्ष्णतरैर्योगैरास्थापयेच्च तम् ॥
यवकोलकुलत्थानां सुरसादेर्गणस्य च ।विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च ॥
प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना ।युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः ॥
स्नेहेनोक्तेन चैनन्तु योजयेत् स्नेहवस्तिना ।ततः शिरीषकिणिही-रसं क्षौद्रयुतं पिबेत् ।केचूकस्वरसं वापि पूर्व्ववत्तीक्ष्णभोजनः ॥
पलाशवीजस्वरसं कल्कं वा तण्डुलाम्बुना ।पारिभद्रकपत्राणां क्षौद्रेण स्वरसं पिबेत् ॥
पत्तूरस्वरसं वापि पिबेद्वा सुरसादिजम् ।लिह्यादश्वशकृच्चूर्णं विडङ्गं वा समाक्षिकम् ॥
पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः ।खादेत् पूपालिकान् पक्वान् धान्याम्लञ्च पिबेदनु ॥
सुरसादिगणे तैलं पक्वं वा पानमिष्यते ।विडङ्गचूर्ण-पिष्टाभ्यां तस्मिन् भक्ष्यन्तु कारयेत् ॥
तत्कषायप्रपीतानां तिलानां स्नेहमेव वा ।श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम् ॥
विडङ्गानां कषायेण त्रैफलेन तथैव च ॥
क्षौद्रेण लिढ्वानुपिबेद्रसमामलकोद्भवम् ।अक्षाभया रसञ्चापि विधिरेषोऽयसामपि ॥
पूतीकस्वरसं वापि पिबेद्वा मधुना सह ।पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम् ॥
सप्तरात्रं पिबेद्घृष्टन्त्रपुवा दधिमस्तुना ।पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक् ॥
शिरोहृद्घ्राणवक्त्राक्षि संसृतांश्च पृथग्विधान् ।विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् ॥
शकृद्रसन्तुरङ्गस्य सुशुष्कं भावयेदति ।निःक्वाथेन विडङ्गानां चूर्णं प्रधमनन्तु तत् ॥
अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक् ।सकांस्यनीलं तैलञ्च नस्यं स्यात् सुरसादिके ॥
इन्द्रलुप्तविधिश्चापि विधेयो रोमभोजिषु ।दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् ॥
रक्तजानां समुद्दिष्टं कुर्य्यात् कुष्ठचिकित्सिते ।सुरसादिन्तु सर्व्वेषु सर्व्वथैवोपयोजयेत् ॥
प्रव्यक्ततिक्तकटुकं भोजनञ्च हितं भवेत् ।कुलत्थक्वाथसंसृष्टं क्षीरपानञ्च पूजितम् ॥
* ॥
क्षीराणि मांसानि घृतानि चैवदधीनि शाकानि च पर्व्ववन्ति ।समासतोऽम्लान् मधुरान् हिमांश्चकृमीन् जिघांसुः परिवर्ज्जयेत्तु” ॥
इति सुश्रुत उत्तरतन्त्रे चतुःपञ्चाशत्तमोऽध्यायः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
