कृत्या (kRtyA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishकृत्या - kRtyA - - enchantment
कृत्य - kRtya - - enchantment
आभिचारिक - AbhicArika - - enchantment
मायायन्त्र - mAyAyantra - - enchantment
यन्त्रचेष्टित - yantraceSTita - - enchantment
मायिन् - mAyin - - skilled in art or enchantment
कृतिकर - kRtikara - - practising magic or enchantment
आभिचरणिक - AbhicaraNika - - serving for incantation or cursing or enchantment
साभिचरणिक - sAbhicaraNika - - possessing the same rules for exorcising or counteracting enchantments
Monier Williams Cologne
EnglishApte Hindi
Hindiकृत्या
- "कृ - क्यप्, तुक्+टाप्"
"कार्य, करनी"
कृत्या
- "कृ - क्यप्, तुक्"
जादू
कृत्या
- "कृ - क्यप्, तुक्"
एक देवी
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaकृत्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾರ್ಯ /ಕೆಲಸ
कृत्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಆಭಿಚಾರಿಕ ದೇವತೆ /ಶೂನ್ಯದೇವತೆ /ಮಾಟದ ಗೊಂಬೆ
विस्तारः - > "कृत्या क्रियादेवतयोः" - वैज० ।
L R Vaidya
EnglishWordnet
Sanskrit कृत्या
तन्त्रानुसारेण एका राक्षसी।
"तान्त्रिकाः कार्यसिद्ध्यर्थम् अनुष्ठानद्वारा कृत्याम् आहूय शत्रोः नाशं कुर्वन्ति।"
कृत्या
एका नदी ।
"कृत्यायाः वर्णनं महाभारते वर्तते"
Mahabharata
EnglishKṛtyā, a river. § 574 (Jambūkh.): VI, 9, 326 (in Bhāratavarsha).
*kṛtyā (“sorceress”): III, 10704, 15149, 15151, 15183
XII, 13258
XIII, 4453 foll., 4474 foll.
पुराणम्
Englishकृत्या १ / KṚTYĀ (kṛtyakā) I. A Rākṣasī who is born when the black arts as enunciated in the Atharvaveda are practised to annihilate enemies. kṛtyā may appear in male form too. Some of the activities of kṛtyā are given below.(1) Carried off duryodhana. While the pāṇḍavas were living in exile in the forest, duryodhana and others went in a procession to the forest. Though duryodhana was taken into captivity in the forest by a gandharva, arjuna saved him out of fraternal consideration for him. duryodhana returned to hastināpura. Now the question was whether half of the kingdom should be given to the pāṇḍavas or not. śakuni and others advised duryodhana to give it, but the latter remained adamant against it. dhṛtarāṣṭra decided to end his life and for the purpose spread darbha grass on earth and sat thereon. The Asuras heard about these developments and created a kṛtyā by mantras. The kṛtyā took duryodhana to pātāla where the Asuras advised him against any compromise with the pāṇḍavas. On the other hand they wanted him to intensify his hatred against the pāṇḍavas, and they assured him all support. After that kṛtyā took duryodhana back to hastināpura. (Vana Parva, Chapter 252).(2) kṛtyā born under the name Madana. Devendra once prevented the aśvinīdevas from drinking soma juice.
(devas drink a liquid-liqueur extracted from the soma creeper, during yajñas, and that is called Somapāna). Aggrieved at the orders of indra the aśvinīdevas wandered about the world in the course of which they approached sage cyavana of the bhārgava family. They restored sight to the blind cyavana, who, in return, assured them that he would see to it that they got the right of drinking soma juice. cyavana began a yajña and indra came for Somapāna. The sage invited the aśvinīdevas also for Somapāna. indra prevented them from doing so, and the sage opposed him. Then indra drew his vajrāyudha against cyavana. The sage made Indra's hands paralysed. Further, he raised from the Yājñic fire a kṛtyā which appeared in male form under the name Madana. Sharp molar teeth hundred yojanas long, other teeth each ten yojanas long, hands ten thousand yojanas long and as big as mountains, round eyes like the Sun and Moon, mouth spitting fire--such was Madana, the kṛtyā, a really terrible being. Frightened at the sight of the terrible being indra permitted the aśvinīdevas to drink soma.(3) kṛtyā against ambarīṣa. ambarīṣa once began the ekādaśī vrata and the devas deputed durvāsas to obstruct it somehow or other. durvāsas came to ambarīṣa, who requested him to return after bath. But, though the vrata was over the sage did not return and ambarīṣa fed the devas with the offerings (havis). Immediately after that durvāsas returned and complained that what he was given was the left-overs of the havis, By means of black art he created a kṛtyā, who charged against Ambarīṣa's throat. ambarīṣa prayed and the sudarśana cakra of viṣṇu appeared and killed the kṛtyā and drove durvāsas round the three worlds. At last the sage sought refuge with ambarīṣa himself and thus saved himself. (bhāgavata, 9th skandha).(4) kṛtyā opposed śrī kṛṣṇa. While kṛṣṇa was ruling dvārakā, Pauṇḍrakavāsudeva was the King of kārūṣa. Once he sent a messenger to ask kṛṣṇa to go and bow down before him as he was the real vāsudeva. Enraged at this insolent demand kṛṣṇa cut off Pauṇḍraka's head with the sudarśana cakra. The dead King's son, sudakṣiṇa, to gather power enough to fight kṛṣṇa went to kāśī and performed penance to please śiva. śiva appeared and taught him the method of creating kṛtyā. Accordingly he created from fire, a kṛtyā, who dashed against kṛṣṇa roaring like hell. kṛṣṇa used the sudarśana cakra, which burnt to death not only the kṛtyā, but also sudakṣiṇa. (5) kṛtyā against prahlāda. To change the nature of prahlāda, a great devotee of viṣṇu, his father hiraṇyakaśipu deputed asura preceptors. But, severe punishments like poisoning, throwing into fire etc. did not succeed in changing the devotee's character. At last, the preceptors raised kṛtyā from fire. The Śūlam, which kṛtyā thrust against the throat of prahlāda was broken into hundreds of pieces. kṛtyā then got angry and turned against the preceptors, who had sent her against prahlāda. The preceptors fell down unconscious on the verge of death. But, prahlāda touched their bodies and they became alive again. (viṣṇu purāṇa, Part 1, Chapter 18).
कृत्या २ / KṚTYĀ II. A river. Indians used to drink water from this river. (bhīṣma parva, Chapter 9 Verse 18).
शब्दकल्पद्रुमः
Sanskritकृत्या, (कृ + भावे क्यप् ।) क्रिया । यथा कांकृत्यामकार्षीः । देवता । यज्ञदेवताविशेषः । इत्य-मरभरतौ ॥
यथा, प्रह्लादचरिते ।“कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम्” ॥
तस्या ध्यानं यथा, --“क्रोधाज्ज्वलन्तीं ज्वलनं वमन्तींसृष्टिं दहन्तीं दितिजं ग्रसन्तीम् ।भीमं नदन्तीं प्रणमामि कृत्यांरोरूयमाणां क्षुधयोग्रकालीम्” ॥
* ॥
आभिचारिकी क्रिया । यथा, --“रोगकृत्याग्रहादीनां निरासः शान्तिरीरिता ।वश्यं जनानां सर्व्वेषां विधेयत्वमुदीरितम्” ॥
इति षट्कर्म्मदीपिका ॥
वाचस्पत्यम्
Sanskritकृत्या स्त्री० कृ--क्यप् टाप् । १ क्रियायां २ अभिचारक्रिया-जन्ये अभिचारोद्देश्यनाशके २ देवादिमूर्त्तिभेदे च सा चवैदिकाद्यभिचारक्रियाजन्या अदृष्टविशेषनिर्वर्त्त्या देवा-दिमूर्त्तिरूपतयोत्पद्य अभिचारोद्देश्यं पुरुषं निहत्यनश्यतौति अथवेवदे प्रासद्धम् । “पञ्चकल्पमथर्वाणंकृत्याभिः परिवृहितम्” भा० शा० ३४४ अ० । कृत्यावि-शेषोत्पादनकथा भा० आनु० ९० अ० यथा“इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह । तेषांवै प्रतिकर्त्तुञ्च सर्व्वेषामगमद्गृहम् । स गत्वा हवनी-येऽग्नौ तीव्रं नियममास्थितः । जुहाव संस्कृतैर्म्मन्त्रै-रेकैकामाहुतिं नृपः । तस्मादग्नेः समुत्तस्यौ कृत्यालोकभयङ्करी । तस्या नाम वृषादर्भिर्य्यातुधानीत्यथा-करोत् । सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता ।वृषादर्भिं नरपतिं किङ्करोमीति साऽब्रवीत् । वृषादर्भि-रुवाच । ऋषीणां गच्छ सप्तानामरुन्धत्यास्त्रथैव च ।दासीभर्त्तुश्च दास्याश्च मनसा नाम धारय । ज्ञात्वा ना-मानि चैवैषां सर्व्व्नेतान् विनाशय । विनष्टेषु तथास्वैरं गच्छ यत्रेप्सितं तव । सा तथेति पतिश्रुत्य यातु-धानीस्वरूपिणी । जगाम तद्वनं यत्र विचेरुस्ते महर्षयः”“इन्द्रेण च सा नाशितेति तत्रैवान्ते उक्तम् यथा“रक्षणार्थञ्च सर्वेषां भवतामहमागतः । यातुधानी ह्यु-तिक्रूरा कृत्यैषा वो बधैषिणी । वृषादर्भिप्रयुक्तैषानिहता मे तपोधनाः! । दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा” ।कृत्यानिवारणोपायमन्त्राश्च अथ० ५, १३, १४, उक्ता यथा“सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन्न सा । दिप्सौषधे!त्वं दिप्सन्तमव कृत्याकृतं जहि । अव जहि यातुधाना-नव कृत्याकृतं जहि । अथो यो अस्मान्दिप्सति तमु त्वंजह्योषधे! । रिश्यस्येव परीशांस परिकृत्य परि त्वचः ।कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत । पुनःकृत्यां कृत्याकृते हस्तेगृह्य पराणय । समक्षमस्मा आधेहि यथा कृत्याकृतं हनत् । कृत्याः सन्तुकृत्याकृते शपथःशपथोयते । सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ।यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने । तामु तस्मैनयामस्यश्वमिवाश्वाभिधान्या । यदि वासि देवकृता यदिवा पुरुषैः कृता । तं त्वा पुनर्णयामसोन्द्रेण सयुजावयम् । अग्ने पृतनाषाट् पृतनाः सहस्व । पुनः कृत्यांकृत्याकृते प्रतिहरणेन हरामसि । कृतव्यधनि! विध्यतं यश्चकार तमिज्जहि । न त्वामचक्रुषे वयं बधायसं शिशीमहि । पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितोदश । बन्धमिवावक्रामी गच्छ कृत्ये! कृत्याकृतं पुनः ।उदेणीव वारण्याभिस्कन्दं मृगीव । कृत्या कर्तारमृच्छतुइष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति । सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः । अग्निरिवैतु प्रति-कूलमनुकूलमिवोदकम् । सुखो रथ इव वर्ततां कृत्याकृत्याकृतं पुनः” ।सुश्रुते चान्यप्रकारोऽत्र सामान्यतो दर्शितः यथा“कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च । रक्षाकर्म्मकरिष्यामि ब्रह्मा तदनुमन्यताम् । नागाः पिशाचा ग-न्धर्व्वाः पितरो यक्षराक्षसाः । अभिद्रवन्ति ये ये त्वांब्रह्माद्या घ्नन्तु तान् सदा । पृथिव्यामन्तरीक्षे च येचरन्ति निशाचराः । दिक्षु वास्तुनिवासाश्च पान्तु त्वांते नमस्कृताः । पान्तु त्वां मुनयो ब्राह्म्या दिव्या राज-र्षयस्तथा । पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्वेऽपि सागराः ।अग्नीरक्षतु ते जिह्वां प्राणान् वायुस्तथैव च । सोमोव्यान, मपानंते पर्जन्यः परिरक्षतु । उदानं विद्युतः पान्तु, समानं स्तनयित्नवः । बलमिन्द्रो बलपति र्मनुर्मन्ये मतिंतथा । कामांस्ते पान्तु गन्धर्व्वाः, सत्वमिन्द्रोऽभिरक्षतु ।प्रज्ञां ते वरुणो राजा, समुद्रो नाभिमण्डलम् । चक्षुःसूर्य्यो, दिशः श्रोत्रे, चन्द्रमाः पातु ते मनः । नक्षत्राणिसदा रूपं, छायां पान्तु निशास्तव । रेतस्त्वाप्याययन्त्वापो, रोमाण्योषधयस्तथा । आकाशं खानि ते पातु, देहं तववसुन्धरा । वैश्वानरः शिरः पातु, विष्णुस्तव पराक्रमम् ।पौरुषं पुरुषश्रेष्ठो, ब्रह्मात्मानं, ध्रुवो भ्रुवौ । एता देहेविशेषेण तव नित्या हि दवताः । एतास्त्वां सततं पा-न्तु दीर्घमायुरवाप्नुहि । स्वस्ति ते भगवान् ब्रह्मा स्वस्तिदेवाश्च कुर्वताम् । स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति ना-रदपर्वतौ । स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः ।पितामहकृता रक्षा स्वस्त्यायुर्वर्द्धतां तव । ईततयस्तेप्रशाम्यन्तु सदा भव गतव्यथः । इति स्वाहा । एतैर्वेदात्मकैर्म्मन्त्रैः कृत्याव्याधिविनाशनैः । मयैवं कृतरक्ष-स्त्वं दीर्घमायुरवाप्नुहि” ।“ततोऽसुरा एषु लोकेषु कृत्यां वलगान्निचखुरुतैवं चि-द्देवानमिभवेमेति, “तद्वै देवा अस्पृण्वत । तएतैः कृत्यांवलगानुदखनन्, यदा वै कृत्यामुत्खनन्ति” अत्र कश्चिद्द्वि-षन भ्रातृत्यः कृथां वलगान्निखनति” इति च शत० ब्रा०३, ५, ४, २, ३, “यामयो यानि गेहानि शपन्त्यप्रतिपूजि-ताः । तानि कृत्याहतानीव विनश्यन्ति न संशयः” मनुः
कृदन्तरूपमाला
Sanskrit1 {@“डु कृञ् करणे”@} 2 ‘हिंसाकरणयोः श्नावौ कृणोति कृणुते कृञः।
करोति कुरुते द्वे द्वे सम्पद्येते पदे क्रमात्।।’ 3 इति देवः।
अयं घातुः भ्वादिगणेऽपि पठ्यते।
तेन करति, करते इति रूपद्वयमपि साधु--इति क्षीरस्वामी मन्यते।
अत एव, कस्याञ्चिदुणादिवृत्तौ ‘करति, कृणोति, करोतीति वा कारुः’ इति कारुशब्दव्युत्पादनं कृतं सङ्गच्छते।
पुरुषकारोऽप्यस्यानुकूलः।
अन्ये तु बहवः भ्वादिपाठं नाभ्युपगच्छन्ति।
अत एव, न्यासग्रन्थे ‘कः करत्करति--’ 4 इत्यत्र, ‘करतिरिति छान्दसत्वात् व्यत्ययेन शप्।’ इति प्रोक्तम्।
यदि भ्वादिपाठोऽभिमतः स्यात्, तदा शपो व्यत्ययकल्पनमसङ्गतं भवेत्।
अत एव, देवः श्नुप्रत्यये, उप्रत्यये च साधुत्वमभ्युपैति।
कारकः-रिका, कारकः-रिका, 5 चिकीर्षकः-र्षिका, 6 चेक्रीयकः-यिका
कर्ता-र्त्री, कारयिता-त्री, चिकीर्षिता-त्री, चेक्रीयिता-त्री
7 कुर्वन्, 8 उपकुर्वन्, 9 10 विकुर्वन्, 11 अनुकुर्वन्, 12 13 पराकुर्वन्-ती, कारयन्-न्ती, चिकीर्षन्-न्ती
14 करिष्यन्-न्ती-ती, कारयिष्यन्-न्ती-ती, चिकीर्षिष्यन्-न्ती-ती
कुर्वाणः, 15 इत्यनेन सूचनादिषु सप्तस्वर्थेषु गम्यमानेषु शानज् विधीयते।
गन्धनम् = सूचनम्।
अवक्षेपणम् = भर्त्सनम्।
सेवनम् = भजनम्।
साहसिक्यम् = बलात्कारेण प्रवर्तनम्।
प्रतियत्नः = गुणाधानम्।
प्रकथनम् = प्रकर्षेण कथनम्।
उपयोगः = धर्मार्थं विनियोगः।
‘दोषमुत्कुर्वाणः’ इत्यारभ्य, ‘शतं प्रकुर्वाणः’ इत्यन्तानि कमेणोदाहरणानि बोध्यानि।]] दोषम्) उत्कुर्वाणः, 16 उदाकुर्वाणः, 17 उपकुर्वाणः, 18 प्रकुर्वाणः, 19 20 उपस्कुर्वाणः, 21 प्रकुर्वाणः, 22 प्रकुर्वाणः, 23 इति शानच्।
प्रसहनम् = क्षमा, अभिभवश्च।]] शत्रुम्) अधिकुर्वाणः, 24 इति शानच्।]] स्वरान्) 25 विकुर्वाणः, 26 इति शानच्।]] सैन्धवः) विकुर्वाणः, कारयमाणः, चिकीर्षमाणः, चेक्रीयमाणः, 27 संचेस्क्रीयमाणः, 28 करिष्यमाणः, कारयिष्यमाणः, चिकीर्षिष्यमाणः, चेक्रीयिष्यमाणः
29 सुकृत्- 30 कर्मकृत्- 31 पापकृत्-मन्त्रकृत्-पुण्यकृत्, 32 शास्त्रकृत्-भाष्यकृत्-कृतौ-कृतः
-- -- 33 कृतम्-कृतः-कृतवान्, 34 ओजसाकृतम्-सहसाकृतम्-अम्भसाकृतम्-तमसाकृतम्, 35 अञ्जसाकृतम्, 36 उपस्कृताः 37, 38 परिष्कृता 39, 40 उपस्कृतं 41, उपस्कृतं 42, कारितम्, 43 चिकीर्षितः, चेक्रीयितः-तवान्, 44 करः, 45 क्षेमकरः, 46 किङ्करः-किङ्करा-किङ्करी-यत्करः-यत्करा-तत्करः-तत्करा- 47 तस्करः-तस्करा-बहुकरः-बहुकरा, 48 कुम्भकारः, अन्धकारः, 49 सत्यङ्कारः, 50 अगदङ्कारः, 51 अस्तुङ्कारः, 52 शङ्करः 53 -शङ्करा-शङ्करी, 54 55 यशस्करः 56 यशस्करी 57 शोककरः-दवींकरः- 58 त्रासकरी, ज्योतिष्करः- क्रीडाकरः-श्राद्धकरः, वचनकरः-कार्यकरः, 59 पारस्करः 60, 61 मस्करः 62, 63 दिवाकरः 64 -विभाकरः- 65 निशाकरः- 66 प्रभाकरः- 67 भास्करः 68 -कारकरः-कारस्करः 69, अन्तकरः-अनन्तकरः-आदिकरः-नान्दीकरः-लिपिकरः-लिबिकरः- बलिकरः-भक्तिकरः-कर्तृकरः-चित्रकरः-क्षेत्रकरः- 70 एककरः- 71 72 73 जङ्घाकरः- 74 बाहुकरः- 75 अहस्करः- 76 धनुष्करः-अरुष्करः, 77 कर्मकरः-कर्मकारः, 78 शब्दकारः-श्लोककारः-कलहकारः-गाधाकारः- 79 वैरकारः-चाटुकारः-सूत्रकारः- मन्त्रकारः पदकारः, 80 स्तम्बकरिः 81 शकृत्करिः 82, स्तम्बकारः-शकृ- त्कारः, 83 मेघङ्करः 84 -ऋतिङ्करः-भयङ्करः, अभयङ्करः, 85 शिवङ्करः, 86 क्षेमङ्करः 87 प्रिय- 88 ङ्करः-मद्रङ्करः, क्षेमकारः-प्रियकारः-मद्रकारः, 89 कडङ्करः, 90 91 मस्करी, 92 अकारी, 93 अपकारी-प्रियकारी- 94 अनपकारी-उपकारी, 95 राजकृत्वा, 96 राजकृत्वरी, 97 सहकृत्वा, सहकृत्वरी, 98 विश्वकर्मा, 99 अलङ्करिष्णुः 100 निराकरिष्णुः, 101 चक्रिः, 102 कारकः- 103 कारिका, कारः, चिकीर्षुः, चिकारयिषुः, चेक्रियः
कर्तव्यम्, कारयितव्यम्, चिकीर्षितव्यम्, चेक्रीयितव्यम्
करणीयम्, कारणीयम्, चिकीर्षणीयम्, चेक्रीयणीयम्
104 105 कृत्यम्- 106 कार्यम्, कार्यम्, चिकीर्ष्यम्, चेक्रीय्यम्
ईषत्करः- 107 दुष्करः-सुकरः, 108 ईषदाढ्यङ्करः 109 -दुराढ्यङ्करः-स्वाढ्यङ्करः
110 क्रियमाणः-संस्क्रियमाणः, कार्यमाणः, चिकीर्ष्यमाणः, चेक्रीय्यमाणः
कारः-उपकारः- 111 अपकारः- 112 प्राकारः, 113 चक्रम्, 114 कृत्रिमम्- 115 असंस्कृत्रिमम्, कारः, चिकीर्षः, चेक्रीयः
कर्तुम्- 116 व्याकर्तुम्, 117 -- 118 कारयितुम्, चिकीर्षितुम्, चेक्रीयितुम्
कृतिः, 119 क्रिया, कृत्या, 120 कारिः 121 -कारिका, कारणा, चिकीर्षा, चिकारयिषा, चेक्रीया
करणम्, 122 आढ्यङ्करणम्-सुभगङ्करणम्-स्थूलङ्करणम्-पलितङ्करणम्- नग्नङ्करणम्-अन्धङ्करणम्- 123 अन्धङ्करणी, प्रियङ्करणम्, 124 उष्णङ्करणम्-भद्रङ्करणम्, कारणम्, चिकीर्षणम्, चेक्रीयणम्
125 स्वाढ्यङ्करणम्, कृत्वा, 126 तिरस्कृत्वा-तिरःकृत्वा, 127 उपाजेकृत्वा-अन्वाजेकृत्वा, 128 साक्षात्कृत्वा, 129 उरसिकृत्वा, मनसिकृत्वा, 130 मध्येकृत्वा-पदेकृत्वा-निवचने- 131 कृत्वा 132 नीचैःकृत्वा-उच्चैःकृत्वा, 133 तिर्यक्कृत्वा, 134 मुखतःकृत्वा, 135 नाना- कृत्वा-विनाकृत्वा-द्विधाकृत्वा-द्वैधंकृत्वा-द्वेधाकृत्वा, कारयित्वा, चिकीर्षित्वा, चेक्रीयित्वा
अुपकृत्य, नीचैःकृत्य-उच्चैःकृत्य, तिर्यक्कृत्य, 136 गलतःकृत्य, नानाकृत्य-विनाकृत्य-द्विधाकृत्य-द्वैधंकृत्य-द्वेधाकृत्य, 137 कारिकाकृत्य, 138 ऊरी- कृत्य-उररीकृत्य-शुक्लीकृत्य-वषट्कृत्य-पटपटाकृत्य, 139 खाट्कृत्य, 140 सत्कृत्य- असत्कृत्य, 141 अलङ्कृत्य, 142 पुरस्कृत्य, नमस्कृत्य 143 हस्तेकृत्य 144 -पाणौकृत्य, 145 146 प्राध्वंकृत्य, 147 जीविंकाकृत्य-उपनिषत्कृत्य, तिरस्कृत्य-तिरःकृत्य, उपाजे- कृत्य-अन्वाजेकृत्य, 148 साक्षात्कृत्य, उरसिकृत्य-मनसिकृत्य, मध्येकृत्य-पदेकृत्य-विकार्य, प्रचिकीर्ष्य, प्रचेक्रीय्य
निवचनेकृत्य, 149 लवणङ्कृत्य, 150 151 भीतङ्कारं- 152 चोरङ्कारं 153, 154 स्वादुङ्कारं 155 156, सम्पन्नङ्कारम्-लवणङ्कारम्, 157 अन्यथाकारं-एवङ्कारं- 158 कथङ्कारं-इत्थङ्कारं 159, 160 यथाकारं 161 162 तथाकारं 163, 164 अकृतकारं 165, नीचैःकारं- 166 उच्चैःकारं, तिर्यक्कारम्, करतः- 167 कारम्, मुखतःकारम्, नानाकारं-विनाकारं-द्विधाकारं-द्वैधंकारं-द्वेधाकारम्
कारम् २, कृत्वा २, कारम् २, कारयित्वा २, चिकीर्षम् २, चिकीर्षित्वा २, चेक्रीयम् २
चेक्रीयित्वा २
168 उण् प्रत्यये रूपम्।]] कारुः, 169 कतुः प्रत्ययः।]] क्रतुः, 170 इति एणुः प्रत्ययः।
करेणुः = इभी।
‘के = मस्तके रेणुर्यस्य करेणुः’ इति व्युत्पत्त्याऽपि साधयन्ति।]] करेणुः, 171 इति मनिनि रूपम्।
क्रियते यत् फलार्थिभिस्तत् कर्म।]] कर्म।
01 (२४६)
02 (८-तनादिः-१४७२-सक। अनि। उभ।)
03 (श्लो। ३१)
04 (८-३-५०)
05 [[१। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘ऋत इद् धातोः’ (७-१-१००) इति इत्त्वे रपरत्वे, ‘सन्यङोः’ (६-१-९) इति द्वित्वादिकम्।]]
06 [[२। ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशे, द्वित्वे, ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणे, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
07 [[३। ‘तनादिकृञ्भ्य उः’ (३-१-७९) इत्युप्रत्यये, गुणे, ‘अत उत् सार्वधातुके’ (६-४-११०) इत्युत्वे, उप्रत्ययस्य यणादेशः।]]
08 [[आ। ‘उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीविवत्।।’ भ। का। ८-१८।]]
09 (चित्तं)
10 [[४। ‘वेः शब्दकर्मणः’ (१-३-३४) इत्यत्र ‘शब्दकर्मणः’ इत्युक्तत्वादत्र न शानच्।]]
100 [[ड्। ‘निराकरिष्णवो भानुं दिवं वर्तिष्णवोऽभितः। अलङ्करिष्णवो भान्तस्तडित्वन्तश्चरिष्णवः।।’ भ। का। ७। ३।]]
101 [[९। ‘भाषायां धाञ्कृ--’ (वा। ३-२-१७१) इत्यनेन किः, किन् वा प्रत्ययः। तस्य लिडूवद्भावातिदेशाद्द्विर्वचनम्। कर्तर्येष प्रत्ययः। चक्रिः = कर्ता।]]
102 [[१०। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति भविष्यति कर्तरि ण्वुल्।]]
103 [[E। ‘कारका मित्रकार्याणि सीतालाभाय सोऽब्रवीत्।।’ भ। का। ७। २९।]]
104 [पृष्ठम्०२४०+ २६]
105 [[१। ‘विभाषा कृवृषोः’ (३-१-१२०) इति क्यप् वा भवति। पक्षे, ‘ऋहलोः--’ (३-१-१२४) इति ण्यत्। क्यपि तुक्।]]
106 [[आ। ‘धर्मकृत्यरतां नित्यम् अवृष्यफलभोजनाम्।’ भ। का। ६-६२।]]
107 [[B। ‘अरण्ययाने सुकरे पिता मां प्रायुङ्क्त राज्ये बत दुष्करे त्वाम्।’ भ। का। ३। ५१।]]
108 [[२। ‘कर्तृकर्मणोश्च भूकृञोः’ (३-३-१२५) इति खल्। ‘कर्तृकर्मणोश्च्व्यर्थयोरिति वक्तव्यम्’ (वा। ३-३-१२७) इति वार्तिकात् च्व्यर्थे। ‘ईषन्मालङ्करं पुष्पं सुपिण्डङ्कर ओदनः। दुस्सेनानिङ्करो भीरुः, खित्त्वाद्ध्रस्वमुमागमौ।।’ इति प्रक्रियासर्वस्वे।]]
109 [[C। ‘ईषदाढ्यङ्करोऽप्येष न परत्राशुभक्रियः।’ भ। का। ७-८४।]]
11 [[५। ‘अनुपराभ्यां कृञः’ (१-३-७९) इति शतृप्रत्ययः।]]
110 [[३। यकि, ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशः। ‘रीङि प्रकृते रिङादेश- विधानसामर्थ्यात् ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घो न।’ इति सिद्धान्तकौमुदी।]]
111 [[ड्। ‘अपकारे कृतेऽप्यज्ञो विजिगीषुर्न वा भवान्।।’ भ। का। ५-९।]]
112 [[४। ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति उपसर्गस्य दीर्घः। प्रकियते इति प्राकारः = सालः। कर्मणि घञ्।]]
113 [[५। ‘घञ्र्थे कविधानम्--’ (वा। ३-३-१९) इति वार्तिकात् घञर्थे कः प्रत्ययः। ‘द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम्’ (वा। ६-१-१२) इति द्वित्वम्। यण्।]]
114 [[६। ‘ड्वितः क्त्रिः’ (३-३-८८) इति भावे क्त्रिः। ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति सूत्रेण, ‘निर्वृत्ते--’ (४-४-१९) इत्यस्मिन्नर्थे मप्प्रत्ययः। ‘नित्यम्’ इत्युक्तेः मप्प्रत्ययान्त एव प्रयोज्यः।]]
115 [[E। ‘असंस्कृत्रिमसंख्यानौ अनुप्त्रिमफलाशिनौ।’ भ। का। ४-३७।]]
116 [[F। ‘प्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम्।।’ शिशुपालवधे २-२६।]]
117 [पृष्ठम्०२४१+ २९]
118 [[आ। ‘ऐहिष्ट तं कारयितुं कृतात्मा क्रतुं नृपः पुत्रफलं मुनीन्द्रम्।’ भ। का। १-११।]]
119 [[१। ‘कृञः श च’ (३-३-१००) इति स्त्रियां भावादौ शप्रत्यये, रिङादेशे च क्रिया इति सिद्ध्यति। सूत्रे चकारात् क्यपि तुकि, कृत्या इत्यपि भवति।]]
12 [पृष्ठम्०२३५+ २९]
120 [[२। ‘विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च’ (३-३-११०) इति इञ् प्रत्यये कारिः इति भवति। चकारात् ण्वुलि कारिका इति रूपमपि भवति।]]
121 [[B। ‘यां कारिं राजपुत्रोऽयमनुतिष्ठति तां क्रियाम्।’ भ। का। ७-७५।]]
122 [[३। ‘आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्’ (३-२-५६) इति ख्युन् प्रत्ययः। खित्त्वान्मुम्। एवं प्रियङ्करणमिति पर्यन्तम्।]]
123 [[C। ‘पुराऽयमैति श्रुतसम्भवस्ते क्रुधं धियोऽन्धङ्करणीं दधानः।।’ वा। वि। ३-३०।]]
124 [[४। ‘उष्णभद्रयोः करणे’ (वा। ६-३-७०) इति ल्युडन्ते पदे परतः, मुम्।]]
125 [[५। ‘भयाढ्यादिषु तदन्तग्रहणम्’ (भाष्यम् १-१-७२) इति वचनात् तदन्तविधिः।]]
126 [[६। ‘विभाषा कृञि’ (१-४-७२) इति गतिसंज्ञाविकल्पः। यदा गतिसंज्ञा, तदानीं ‘तिरसोऽन्यतरस्याम्’ (८-३-४२) इति विसर्जनीयस्य सत्वविकल्पः। यदा गतिसंज्ञा न, तदानीं विसर्जनीयः, समासोऽपि न। एवं ल्यप्यपि।]]
127 [[७। ‘उपाजेऽन्बाजे’ (१-४-७३) इति गतिसंज्ञायां समासविकल्पः। यदा समासः, तदानीं ल्यवपि।]]
128 [[८। ‘साक्षात्प्रभृतीनि च’ (१-४-७४) इति गतिसंज्ञा। ‘साक्षात्प्रभृतिषु च्व्यर्थवचनम्’ (वा। १-४-७४) इति वचनात् च्व्यर्थे एव गतिसंज्ञा। समासे तु ल्यप्।]]
129 [[९। ‘अनत्याधान उरसिमनसी’ (१-४-७५) इति गतिसंज्ञायां समासविकल्पः। एवं ल्यप्यपि। अत्याधानम् = उपश्लेषणम्। तदभावोऽनत्याधानम्।]]
13 [[आ। ‘ता हनूमान् पराकुर्वन् अगमत् पुष्पकं प्रति। विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्।।’ भ। का। ८-५०।]]
130 [[१०। ‘मध्ये पदे निवचने च’ (१-४-७६) इति गतिसंज्ञायां समासविकल्पः। अत्रापि चकारात् ‘अनत्याधाने’ (१-४-७६) इति गतिसंज्ञायां समासविकल्पः। अत्रापि चकारात् ‘अनत्याधाने’ इत्यनुवर्तते। निवचनम् = वचनाभावः। निवचने- कृत्वा = वाचं नियम्येत्यर्थः।]]
131 [पृष्ठम्०२४२+ ३३]
132 [[१। ‘अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ’ (३-४-५९) इति क्त्वाणमुलौ। ‘तृतीयाप्रभृतीन्यन्यतरस्याम्’ (२-२-२१) इति समासविकल्पः। ततश्च ल्यबपि। अयथाभिप्रेताख्यानं नाम = अप्रियस्योच्चैः, प्रियस्य च नीचैः कथनम्।]]
133 [[२। ‘तिर्यच्यपवर्गे’ (३-४-६०) इति कृञः क्त्वाणमुलौ। अपवर्गः = समाप्तिः। ल्यबप्येवम्।]]
134 [[३। ‘स्वाङ्गे तस्प्रत्यये कृभ्वोः’ (३-४-६१) इति कृञः क्त्वाणमुलौ, ल्यबपि। सूत्रे यथासंख्यं नेष्यते।]]
135 [[४। ‘नाधार्थप्रत्यये च्व्यर्थे’ (३-४-६२) इति कृञः क्त्वाणमुलौ, ल्यबपि। धार्थत्वेन ‘द्विञ्योश्च-’ (५-३-४५) इति धमुञः, ‘एधाच्च’ (५-३-४६) इति एधाचश्च ग्रहणम्।]]
136 [[आ। ‘सा माला करतःकारं मुखतोभावमागता। तां पत्युर्गलतःकृत्य पार्श्वतोभूय च स्थिता।।’ इति प्रक्रियासर्वस्वे।]]
137 [[५। ‘कारिकाशब्दस्योपसंख्यानम्--’ (वा। १-४-६०) इति गतिसंज्ञायां समासे ल्पप्।]]
138 [[६। ‘ऊर्व्यादिच्विडाचश्च’ (१-४-६१) इति, ऊरी उररी इत्यादीनां गतिसंज्ञायां, ‘कुगतिप्रादयः’ (२-२-१८) इति समासे, ल्यप्। तुक्। ऊरी उररी शब्दौ, अङ्गीकरणे, विस्तारे च वर्तेते। शुक्लीकृत्येत्येतत् च्विप्रत्ययान्तस्य, पटपटा- कृत्येत्येतत् डाजन्तस्य चोदाहरणम्। ‘डाचि बहुलं द्वे भवतः--’ (वा। ८-१-१२) इति डाजन्ते द्वित्वम्।]]
139 [[७। ‘अनुकरणं चानितिपरम्’ (१-४-६२) इति गतिसंज्ञायां समासे ल्यपि रूपम्।]]
14 [[१। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः स्यप्रत्ययस्य।]]
140 [[८। ‘आदरानादरयोः सदसती’ (१-४-६३) इति गतिसंज्ञायां समासे ल्यपि रूपम्। प्रीत्यतिशयः = आदरः। परिभवः, औदासीन्यं वा अनादरः।]]
141 [[९। अनेकार्थकस्यालंशब्दस्य ‘भूषणेऽलम्’ (१-४-६४) इति भूषणेऽर्थे गतिसंज्ञायां समासे ल्यप्।]]
142 [[१०। ‘पुरोऽव्ययम्’ (१-४-६७) इति गतिसंज्ञायां, ‘नमस्पुरसोर्गत्योः’ (८-३-४०) इति विसर्जनीयस्य सत्वे च रूपम्।]]
143 [[११। ‘नित्यं हस्ते पाणावुपयमने’ (१-४-७७) इति नित्यं गतिसंज्ञायां समासे ल्यप्। उपयमनम् = दारकर्म।]]
144 [[B। ‘श्रियमाशासते लोलां तां हस्तेकृत्य मा श्वसीः।।’ भ। का। ५-१६।]]
145 [पृष्ठम्०२४३+ २९]
146 [[१। ‘प्राध्वं बन्धने’ (१-४-७८) इति नित्यं गतिसंज्ञायां समासे ल्यप्। प्राध्वंकृत्य = बन्धनेनाकूलं कृत्वेत्यर्थः।]]
147 [[२। ‘जीविकोपनिषदावौपम्ये’ (१-४-७९) इति नित्यगतिसंज्ञायां समासे ल्यप्।]]
148 [[आ। ‘साक्षात्कृत्याभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः।।’ भ। का। ५-७१।]]
149 [[३। साक्षात्प्रभृतिषु (१-४-७४) लवणशब्दस्य गतिसंज्ञासन्नियोगेन मान्तत्वं निपात्यते, तेन लवणंकृत्येति भवति।]]
15 ([[२। ‘गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः’ (१-३-३२)
150 [[४। ‘कर्मण्याकोशे कृञः खमुञ्’ (३-४-२५) इति खमुञ् खित्त्वात् पूर्वपदस्य मुम्।]]
151 [[B। ‘तं भीतङ्कारमाक्रुश्य रावणः प्रत्यभाषत।’ भ। का। ५-३९।]]
152 [[C। ‘भुजविटपमदेन व्यर्थमन्धम्भविष्णुः धिगपसरसि चोरङ्कारमाक्रुश्यमानः। त्वदुरसि विदधातु स्वामपस्कारकेलिं कुटिलकरजकोटिकूरकर्मा जटायुः।।’ अनर्घराघवे ५। ११।]]
153 (आक्रोशति)
154 [[५। ‘स्वादुमि णमुल्’ (३-४-२६) इति णमुल्। ‘स्वादुमि’ इति स्वादुपर्या- याणामपि प्रहणम्
\n\n तेन लवणङ्कारं, सम्पन्नङ्कारम् इत्यपि सिध्यति। उपपदस्य मान्तत्वं निपातनात्।]]
155 [[ड्। ‘स्वादुङ्कारं कालखण्डोपदंशं क्रोष्टा डिम्भं व्यष्वणत् व्यस्वनच्च।।’ शिशुपालवधे-१८-७७।]]
156 (भुङ्क्ते)
157 [[६। ‘अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्’ (३-४-२७) इति णमुल्। अन्यथा भुङ्क्ते इत्यर्थः।]]
158 [[E। ‘अकृत्वा हेलया पादम् उच्चैर्मूर्धसु विद्विषाम्। कथङ्कारमनालम्बा कीर्तिर्द्यामधिरोहति।।’ शिशुपालवधे २-५२।]]
159 (भुङ्क्ते)
16 (श्येनो वर्तिकाम्)
160 [[७। ‘यथातथयोरसूयाप्रतिवचने’ (३-४-२८) इति णमुल्।]]
161 [[F। ‘किं त्वमेवं ब्रवीषीति पृष्टेऽन्यो वक्त्यमर्षतः। यथाकारमहं जाने तथाकारं वदाम्यहम्।।’ इति प्रक्रियासर्वस्वे।]]
162 (अहं भोक्ष्ये)
163 (भोक्ष्ये, किं तवानेन?)
164 [[८। ‘समूलाकृतजीवेषु हन्कृञ्ग्रहः’ (३-४-३६) इति णमुल्। ‘कषादिषु यथावि- ध्यनुप्रयोगः’ (३-४-४६) इत्यनुप्रयोगः।]]
165 (करोति)
166 [[ङ्। ‘समूलकाषं चकष् रुदन्तो रामान्तिकं बृंहितमन्युवेगाः। आवेदयन्तः क्षितिपालमुच्चैःकारं मृतं रामवियोगशोकात्।।’ भ। का। ३-४९।]]
167 [पृष्ठम्०२४४+ २७]
168 [[१। करोतीति कारुः = शिल्पी। औणादिके [द। उ। १-८६]
169 [[२। क्रियतेऽसौ धर्मार्थिभिरिति क्रतुः = यज्ञः। औणादिकः [द। उ। १-१३०]
17 (हरिम्)
170 [[३। ‘कृहृभ्यामेणुः’ [द। उ। १-१३३]
171 [[४। ‘मनिन्’ [द। उ। ६-७३]
18 (परदारान्)
19 (एधो दकस्य)
20 [[३। ‘उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु च’ (६-१-१३९) इति सुट्। ‘कृञः प्रति- यन्ते’ (२-३-५३) इत्यनेन ‘एधोदकस्य’ इत्यत्र षष्ठी।]]
21 (गाधाः)
22 (शतं)
23 ([[४। ‘अधेः प्रसहने’ (१-३-३३)
24 ([[५। ‘वेः शब्दकर्मणः’ (१-३-३४)
25 [[B। ‘योऽपचके बनात् सीताम् अधिचके न यं हरिः। विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्।।’ भ। का। ८-२०।]]
26 ([[६। ‘अकर्मकाच्च’ (१-३-३५)
27 [[७। ‘संपरिभ्यां करोतौ भूषणे’ (६-१-१३७) इति सुट्। ‘सुट् कात् पूर्वः’ (६-१-१३५) इति कात् पूर्वः सुट्।]]
28 [[C। ‘करिष्यमाणं विज्ञेयं कार्यं किं नु कृतं परैः।’ भ। का। ५-९।]]
29 [[ड्। ‘सुकृतं प्रियकारी त्वं कं रहस्युपतिष्ठसे। पुण्यकृच्चाटुकारस्ते किङ्करः सुरतेषु कः।।’ भ। का। ५। ६८।]]
30 [[८। ‘सुकर्मपापमन्त्रपुण्येषु कृञः’ (३-२-८९) इति स्वादिषु भूते कर्तरि क्विप्। तुक्।]]
31 [[E। ‘पापकृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः। मामपापं दुराचार! किं निहत्याभिधास्यसि।।’ भ। का। ६-१२७।]]
32 [[९। ‘सुकर्म--’ (३-२-८९) इति सूत्रे उपपदनियमाभावात्, ‘क्विप् च’ (३-२-७६) इति क्विपि ‘शास्त्रकृत्’ इत्यादेस्सिद्धिः।]]
33 [पृष्ठम्०२३६+ २९]
34 [[१। ‘ओजस्सहोऽम्भस्तमसः तृतीयायाः’ (६-३-३) इति तृतीयायाः अलुक् भवति।]]
35 [[२। ‘अञ्जस उपसंख्यानम्’ (वा। ६-३-३) इति तृतीयाया अलुक्।]]
36 [[३। ‘समवाये च’ (६-१-१३८) इति सुट्। उपस्कृताः = सङ्घीभूताः इत्यर्थः।]]
37 (ब्राह्मणाः)
38 [[४। सुटः, ‘परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्’ (८-३-७०) इति षत्वम्।]]
39 (कन्या)
40 [[५। विकृतं भुङ्क्ते, वाक्याध्याहारेण ब्रवीति, इति क्रमेणार्थः। ‘उपात् प्रतियत्न- वैकृतवाक्याध्याहारेषु च’ (६-१-१३९) इति सुट्।]]
41 (भुङ्क्ते)
42 (ब्रूते)
43 [[आ। ‘चिकीर्षिते पूर्वतरं स तस्मिन् क्षेमङ्करेऽर्थे मुहुरीर्यमाणः।’ भ। का। १२-६।]]
44 [[६। ‘शिवशमरिष्टस्य करे’ (४-४-१४३), ‘कर्मणि घटोऽठच्’ (५-२-३५) इति निर्देशाभ्यां, पचादेः (३-१-१३४) आकृतिगणत्वं बोध्यते। तेन सर्वेभ्यो धातुभ्योऽच् प्रत्ययो भवति।]]
45 [[७। पचाद्यचि (३-१-१३४) गङ्गाधरभूधरादिवत् षष्ठीसमासे साधुः। अत एव, ‘अल्पारम्भः क्षेमकरः’ इति प्रयोग उपपद्यते।]]
46 [[८। ‘किंयत्तद्बहुषु कृञोऽज्विधानम्’ (वा। ३-२-२१) इति अच्। ‘दिवा- विभा--’ (३-२-२१) इति प्राप्तस्य टप्रत्ययस्यापवादः। तेन स्त्रियां टाप्। किङ्करी इति प्रयोगस्तु पुंयोगे बोध्यः।]]
47 [[९। ‘तद्बृहतोः करपत्योः चोरदेवतयोः सुट् तलोपश्च’ (गणसूत्रम् ६-१-१५७) इत्यनेन सुट् तलोपश्च चोरे वाच्ये। अन्यत्र तत्कर इत्येव। बहुप्रवृत्तिकृत् बहुकरः। बहुशब्दः वैपुल्यवाची, न तु संख्यावाची, अत्रैव सूत्रे (३-२-२१) संख्याग्रहणात्।]]
48 [[१०। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
49 [[११। ‘कर्मण्यण्’ (३-२-१) इत्यणि, ‘कारे सत्यागदस्य’ (६-३-७०) इति पूर्वपदस्य मुम्। अगदङ्कारः = चिकित्सकः।]]
50 [[B। ‘अगदङ्कारमादध्वं प्रज्ञामृतनुतमम्।।’ यादवाभ्युदये--२२-२२।]]
51 [[१२। कर्मण्यणि ‘अस्तोश्च’ (वा। ६-३-७०) इति मुम्।]]
52 [[१३। ‘शमि धातोः संज्ञायाम्’ (३-२-१४) इति अच्। स्त्रियां टाप्। ‘शङ्करा’ नाम परिव्राजिका। पुंयोगे ङीषि ‘शङ्करी’ इत्यपि साधु।]]
53 [[C। ‘बलिनाबमुमद्रीन्द्रं युवां स्तम्बेरमाविव। आचक्षाथामिथः कस्मात् शङ्करेणापि दुर्गमम्।।’ भ। का। ६-९२।]]
54 [पृष्ठम्०२३७+ ३१]
55 [[१। ‘कृञो हेतुताच्छोल्यानुलोम्येषु’ (३-२-२०) इति टप्रत्ययः। टित्त्वात् स्त्रियां ङीप्। ‘अतः कृकमि--’ (८-३-४६) इति विसर्गस्य सत्वम्। ‘हेतौ यशस्करी विद्या- शीले क्रीडाकरो हरिः। आनुलोम्ये कार्यकरः सचिवो भूपतेरिति।।’ इति प्रक्रियासर्वस्वे। आनुलोम्यम् = आराध्यचित्तानुवर्तनम्।]]
56 [[आ। ‘अस्यन् उरुस्करान् बाणान् ज्योतिष्करसमद्युतिः। यशस्करो यशस्कामं कर्पि बाणैरताडयत्।।’ भ। का। ९। ६५।]]
57 (विद्या)
58 [[B। ‘स्थितां क्षितौ शान्तशिखाप्रतानां तारामिव त्रासकरीं जनस्य।।’ भ-का-१२। ३।]]
59 [[२। ‘पारस्करप्रभृतीनि च संज्ञायाम्’ (६-१-१५७) इति सुट्। पारस्करः = देश- विशेषः।]]
60 (देशः)
61 [[३। मकरशब्दोऽव्युत्पन्नं प्रातिपदिकम्। वेणौ वाच्ये ‘मस्करमस्करिणौ वेणु- परिव्राजकयोः’ (६-१-१५४) इति सुट् निपात्यते। केचित्तु--माङ्युपपदे करोतेः करणेऽच प्रत्ययं निपातयन्ति। माङो ह्रस्वत्वं सुट् च
\n\n मा क्रियते--येन प्रतिषिध्यते स मस्करो वेणुः। --इति काशिका।]]
62 (वेणुः)
63 [[४। ‘दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्र- क्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु’ (३-२-२१) इति टः प्रत्ययः। ‘दिवाकरः’ इत्यारभ्य, ‘अरुष्कर’ इति यावदेवं ज्ञेयम्। दिवा = दिवसे प्राणिनः चेष्टायुक्तान् करोतीति दिवाकरः।]]
64 [[C। ‘अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरः। तव राक्षस। रामस्य नेयः कर्मकरोपमः।।’ भ। का। ५। ९९।]]
65 [[ड्। ‘भुजगेशि निशाकराभिरामे द्विषतां शोककरे तदाऽवतीर्णे।।’ वा। वि। २। ६७।]]
66 [[E। ‘कृशानुरपधूमत्वात् प्रसन्नत्वात् प्रभाकरः। रक्षोविप्रकृतावास्तामपविद्धशुचाविव।।’ रघुवंशे-१०-७४।]]
67 [[५। ‘कस्कादिषु च’ (८-३-४८) इति सूत्रे गणपाठात् सत्वम्।]]
68 [[F। ‘सलिलार्दवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम्। प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धमन्धकारः।।’ शिशुपालधघे २०-३३।]]
69 (वृक्षः)
70 [[६। ‘दिवाविभा--’ (३-२-२१) इति सूत्रे संख्याशब्देन संख्यावाचिनाम् एकद्वित्रा- दीनां ग्रहणम्।]]
71 [द्विकरः-त्रिकरः-]
72 [पृष्ठम्०२३८+ २९]
73 [[१। ‘जङ्घाकरः’ इत्यत्र जङ्घाशब्देन लक्षणया तत्साध्यवेगो लक्ष्यते।]]
74 [[२। ‘बाहुकरः’ इत्यत्र बाहुशब्देन बाहुसाध्या गतिः, प्रवृत्तिर्वा बोध्यते।]]
75 [[३। ‘कस्कादिषु च’ (८-३-४८) इति सूत्रे गणपाठात् सत्वम्। तेन जिह्वामूलीयो न भवति।]]
76 [[४। ‘धनुष्करः अरुष्करः’ इत्यत्र ‘नित्यं समासेऽनुत्तरपदस्थस्य’ (८-३-४५) इति षत्वम्।]]
77 [[५। ‘कर्मणि मृतौ’ (३-२-२२) इति टः। मृतिं यः सेवते स कर्मकरः
\n\n अन्यत्र कर्मकारः।]]
78 [[६। ‘न शब्दश्लोककलहगाधावैरचाटुसूत्रमन्त्रपदेषु’ (३-२-२३) इति हेत्वादिषु प्राप्तस्य टप्रत्ययस्य निषेधात् औत्सर्गिकः अण्। एवं ‘पदकार’ इति पर्यन्तं ज्ञेयम्।]]
79 [[आ। ‘यो वैरकारः स्वयमेव गोष्वभूत् तृणेढि नो स स्म शकृत्करीनपि। नासीदकालेऽप्यफलेग्रहिर्द्रुमस्तदर्तवः कर्मकरा इवाभवन्।।’ वा। वि। २-६८।]]
80 [[७। ‘स्तम्बशकृतोरिन्’ (३-२-२४) इति इन् प्रत्ययः। ‘व्रीहिवत्सयोरिति वक्तव्यम्’ (वा। ३-२-२४) इति वार्तिकात् स्तम्बकरिः व्रीहिः--शकृत्करिः वत्सः। अन्यत्र स्तम्बकारः शकृत्कारः इति।]]
81 (व्रीहिः)
82 (वत्सः)
83 [[८। ‘मेघर्तिभयेषु कृञः’ (३-२-४३) इति खच्। खित्त्वात् ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति पूर्वपदस्य मुम्। ‘भयाढ्यादिषु तदन्तविधिः’ (भाष्यम्-- (१-१-७२) इति भाष्यात् ‘अभयङ्करः’ इत्यपि साधुः।]]
84 [[B। ‘मेघङ्करमिवायान्तमृतुं रामं क्लमान्वितः। दृष्ट्वा मेने न सुग्रीवो वालिभानुं भयङ्करम्।।’ भ। का। ६। १०४।]]
85 [[९। ‘शिव एको घ्येयः शिवङ्करः’ --इत्याथर्वणोपनिषदि श्रूयते। छान्दसत्वात् बहुलग्रहणेन खचि रूपनिष्पत्तिरिति पदमञ्जरी। ‘क्षेमङ्करोऽरिष्टतातिः शिव- तातिः शिवङ्करः।’ इत्यभिधानरत्नमाला (२-१८५)।]]
86 [[१०। ‘क्षेमप्रियमद्रेऽण् च’ (३-२-४४) इति खजणौ।]]
87 [[C। ‘महाकुलीन ऐक्ष्वाके वंशे दाशरथिर्मम। षितुः प्रियङ्करो भर्ता क्षेमकारस्तपस्विनाम्।। निहन्ता वैरकाराणां सतां बहुकरः सदा। पारश्वधिकरामस्य शक्तेरन्तकरो रणे।।’ भ। का। ५-७७-७८।]]
88 [पृष्ठम्०२३९+ २८]
89 [[१। ‘कडङ्करदक्षिणाच्छ च’ (५-१-६९) इति सूत्रे निपातनात् मुम्।]]
90 [[आ। ‘कटङ्करीयरोधो हि कलमोत्सेधकारणम्।।’ यादवाभ्युदये-२२-९।]]
91 [[२। माङि उपपदे करोतेस्ताच्छील्ये इनिर्निपात्यते। माङो ह्रस्वत्वं सुट् च। माकरणशीलो मस्करी। कर्मापवादित्वात् परिव्राजक उच्यते। स त्वेवमाह-- ‘मा कुरुत कर्माणि, शान्तिर्वः श्रेयसी’ इति ‘मस्करमस्करिणौ वेणु- परिव्राजकयोः’ (६-१-१५४) इत्यत्र काशिका।]]
92 [[३। ग्रह्यादि (३-१-१३४) गणे पाठात् अताच्छीलिको णिनिः नञ्युपपदे।]]
93 [[४। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छीलिको णिनिः। एव- मुपकारी इति पर्यन्तम्।]]
94 [[B। ‘पीडयन्ति जनं धाराः पतन्त्योऽनपकारिणम्।।’ भ। का। ७। ९।]]
95 [[५। ‘राजनि युधिकृञः’ (३-२-९५) इति भूते क्वनिप्। राजानं कृतवान् राजकृत्वा। तुक्। ‘प्रागसत्कल्पं, स्वशक्त्या नृपं कृतवान् इत्यर्थः’ इति प्रक्रियासर्वस्वे।]]
96 [[C। ‘बुद्धिपूर्वं ध्रुवन् न त्वा राजकृत्वा पिता खलम्।’ भ। का। ६। १३०।]]
97 [[६। ‘सहेच’ (३-२-९६) इति क्वनिपि तुक्। सहकृत्वा = सहकारी। स्त्रियां ‘वनो र च’ (४-१-७) इति ङीपि रेफादेशे च सहकृत्वरी इति रूपम्। ]]
98 [[७। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्प्रत्यये, ‘नेड् वशि कृति’ (७-२-८) इति इण्णिषेधे च रूपम्। विश्वं कर्म अस्मात्, अस्य वा इति विश्वकर्मा = देवशिल्पिः।]]
99 [[८। ‘अलङ्कृञ्निराकृञ्--’ (३-२-१३६) इत्यादिना ताच्छीलिक इष्णुच् प्रत्ययः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
