कृतान्न (kRtAnna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishकृतान्न - kRtAnna - - eating
कृतान्न - kRtAnna - - digested food
कृतान्न - kRtAnna - - excrement
कृतान्न - kRtAnna - - prepared or cooked food
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiकृतान्नम्
कृत-अन्नम् -
"पकाया हुआ, भोजन"
कृतान्नम्
कृत-अन्नम् -
पचा हुआ भोजन
कृतान्नम्
कृत-अन्नम् -
मल
Shabdartha Kaustubha
Kannadaकृतान्न
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪಕ್ವ ಮಾಡಿದ ಅನ್ನ ರೊಟ್ಟಿ ಲಾಡು ಹೋಳಿಗೆ ಮೊದಲಾದುದು
व्युत्पत्तिः - > कृतं पक्वं च तदन्नं च
L R Vaidya
Englishवाचस्पत्यम्
Sanskritकृतान्न कृतं पक्वं तदन्नञ्च । लड्डुकादौ पक्वान्ने, “कृ-तान्नमुदकं स्त्रियः” इति अविभाज्ये स्मतिः । पाश्चात्त्यभाषानामकाः कृतान्नभेदास्तत्साधनप्रकाराश्च भावप्र०दर्शिता यथाअथ कृतान्नवर्गः तत्रान्नाना साधनप्रकारः सिद्धानां गुणाश्चतत्र परिभाषा । समवायिनि हेतौ ये मुनिभिर्भणितागुणाः । कार्य्येऽपि तेऽखिला ज्ञेयाः परिभाषेतिभाषिता । क्वचित्संस्कारभेदेन गुणभेदो भवेद्यतः ।भक्तं लघु पुराणस्य शालेस्तच्चिपिटो गुरुः । क्वचिद्यो-गप्रभावेन गुणान्तरमपेक्षते । कदन्नं गुरु सर्पिश्चलघू-क्तंसुहितं भवेत् ।अथ भक्तस्य नामानि साधनं गुणाश्च । भक्तमन्नं तथान्धश्चक्वचित्कूरञ्च कीर्त्तितम् । ओदनोऽस्त्री स्त्रियां भित्सा-दोदिवः पुंसि भाषितः । सुधौतास्तण्डुलाः स्फीतास्तोयेपञ्चगुणे पचेत् । तद्भक्तं प्रस्तुतं चोष्णं विशदं गुण-वन्मतम् । भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु ।अधौतमशृतं शीतं गुर्वरुच्यं कफप्रदम् ।अथ (दालि) । दलितन्तु शमीधान्यं दालिर्दाली स्त्रियामुभे ।दाली तु सलिले सिद्धा लवणार्द्रकहिङ्गुभिः । संयुक्तासूपनाम्नी स्यात् कथ्यन्ते तद्गणा अथ । सूपो विष्टम्भकोरूक्षः शीतस्तु स विशेषतः । निस्तुषो भृष्टसंसिद्धः लाघवंसुतरां व्रजेत् ।अथ (खिचिडी) । तण्डुला दालिसंमिश्रा लवणार्द्रकहि-ङ्गुभिः । संयुक्ता सलिले सिद्धा कृशरा कथिता बुधैः ।कृशरा शुक्रला बल्या गुरुः पित्तकफप्रदा । दुर्जराबुद्धिविष्टम्भमलमूत्रकरी स्मृता ।अथ तापहरी (ताताहरीति) लोके । घृते हरिद्रासंयुक्तेमाषजाम्भज्जयेद्वटीम् । तण्डुलांश्चापि निर्धौतान् सहैवपरिभजयेत् । सिद्धियोग्यं जलं तत्र प्रक्षिप्य कुशलःपचेत् । लवर्णार्द्रकहिङ्गूनि मात्रया तत्र निःक्षिपेत् ।एषा सिद्धिः समानज्ञा प्रोक्ता तापहरी बुधैः । एषा ता-पहरो बल्या वृष्या श्लेष्माणमाहरेत् । वृंहणी तर्पणीरुच्या गुर्वी पित्तहरी स्मृता ।अथ क्षीरिका । पायसः परमान्नं स्यात् क्षीरिकापि तदुच्यते ।शुद्धेऽर्द्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् पचेत् । तेसिद्धा क्षीरिका ख्याता ससिताज्ययुतोत्तमा । क्षीरिकादुर्जरा प्रोक्ता वृंहणी बलवर्द्धिनी । नालिकेलन्तनूकृत्यच्छिन्नं पयसि गोः क्षिपेत् । सितागव्याज्यसंयुक्ते तत्पचेन्मृदुनाऽग्निना । नारीकेलोद्भवा क्षीरी स्निग्धा शीताति-पुष्टिदा । गुर्वी सुमधुरा वृष्या रक्तपित्तानिलापहा ।अथ (सेवै) । समितां वर्त्तिकां कृत्वा सूक्ष्मां तु यवसन्नि-भाम् । शुष्का क्षीरेण संसाध्या भोज्या घृतसितान्विता ।सेविका तर्पणी बल्या गुर्वी पित्तानिलापहा । ग्राहिणीसन्धिकृद्रुच्या तां खादेन्नातिमात्रया ।अथ (मण्डा) । गोधूमा धवला धौताः कुट्टिताः शोधितास्ततः ।प्रोक्षिता यन्त्रनिषिष्टाश्चालिताः समिताः (मयदा) स्मॄताः ।वारिणा कोमलां कृत्वा समितां साधु मर्द्दयेत् । हस्तला-लनया तस्या लोप्त्रीं सम्यक प्रसारयेत् । अधोमुख-घटस्यैतत् विस्तृतं प्रक्षिपेद्बहिः । मृदुना वह्निनासाध्यः सिद्धो मण्डक उच्यते । लोपत्री (लाइ) ।दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः । अथ वासिद्धमांसेन सतक्रवटकेन वा । मण्डको वृंहणो वृष्योबल्यो रुचिकरो भृशम् । पाकेऽपि मधुरो ग्राही लघु-र्दोषत्रयापहः ।अथ (पोरी) कुत्रापि (दुनौरी) इति च । “कुर्य्यात्समितयाऽ-तीव तन्वी पर्प्पटिका ततः । स्वेदयेत्तप्तके (ताओया)तान्तु पोलिकां जगदुर्बुधाः । तां खादेल्लप्सिकायुक्तांतस्या मण्डकवद्गुणाः ।अथ प्रसङ्गाल्लप्सी । समितां सर्पिषा भृष्टां शर्करां पयसि क्षि-पेत् । तस्मिन् धनीकृते न्यस्येल्लवङ्गं मरिचादिकम् ।लप्सिका वृंहणी वृष्या बल्या पित्तानिलापहा । स्निग्धाश्लेष्मकरी गुर्वी रोचनी तर्पणी परम् ।(रोटि) । शुष्कगोधूमचूर्णेन किञ्चित्पुष्टाञ्च पोलिकाम् । तप्तके(ताओया) । स्वेदयेत्कृत्वा भूर्य्यङ्गारेऽपि तां पचेत् ।सिद्धैषा रोटिका प्रोक्ता गुणं तस्याः प्रचक्ष्महे । रो-टिका बलकृद्रुच्या वृंहणी धातुवर्द्धनी । वातघ्नी कफ-कृद्गुर्वी दीप्ताग्नीनां प्रपूजिता ।अथ (लिट्टी) शुष्कगोधूमचूर्णन्तु साम्बु गाढं विमर्द्दयेत् ।विधाय वटकाकारं निर्धूमेऽग्नौ शनैः पचेत् । अङ्गार-कर्कटी ह्येषा वृंहणो शुक्रला लघुः । दीपनी कफ-कृद्बल्या पीनसश्वासकासजित् ।अथ (यवरोटीं) । यवजा रोटिका रुच्या मधुरा विशदालघः । मलशुक्रानिलकरी बल्या हन्ति कफामयान् ।अथ माषरोटिका । माषाणां दालयस्तोये स्थापितास्त्यक्तक-ञ्चुकाः । आतपे शोषिता यन्त्रे पिष्टास्ता धूमसी स्मृता ।धूमसी रचिता चैव प्रोक्ता झर्झरिका बुधैः । झर्झरीकफपित्तघ्नी किञ्चिद्वातकरी स्मृता ।अथ चनकरोटिका । चनक्यारोटिका रुक्षा श्लेष्मपित्तास्रनु-कुरुः । विष्टम्भिनी न चक्षुष्या तद्गुणा चातिशष्कुली” ।अथ पिष्टिका । दालिः संस्थापिता तोये ततोऽपहृतकञ्चुका ।शिलायां साधु सम्पिष्टा पिष्टिका कथिता बुधैःअथ (वेठै) । माषपिष्टिकया पूर्णगर्भा गोधूमचूर्णतः । रचितारोटिका सैव प्रोक्ता वेटमिका बुधैः । भवेद्वेटमिकावल्या वृष्या रुच्याऽनिलापहा । ऊष्मसन्तर्पणी गुर्वी वृं-हणी शुक्रला परम् । भिन्नमूत्रमला स्तन्यमेदःपित्तकफ-प्रदा । गुदकीलार्द्दितश्वासपङ्क्तिशूलानि नाशयेत् ।अथ (पापर) धूमसी रचिता हिङ्गुहरिद्रालवणैर्युता ।जीरकस्वर्जिकाभ्याञ्च तनूकृत्य च वेल्लिता । पर्प्यटास्तेसदाङ्गारभृष्टाः परमरोचकाः । दीपनाः पाचना रूक्षागुरवः किञ्चिदीरिताः । मौद्गाश्च तद्गुणाः प्रोक्ता विशे-षाल्लघवो हिताः । चनकस्य गुणैर्युक्ताः पर्प्पटाश्चनकोद्भ-वाः । स्नेहभृष्टास्तु ते सर्वे भवेयुर्मध्यमा गुणैः ।अथ (पूरी) । माषाणां पिष्टिका पूर्य्या लवणार्द्रकहिङ्गुभिः ।तया पिष्टिकया पूर्णा समिताकृतपोलिका । ततस्तैलेनपक्वा सा पूरीका कथिता बुधैः । रुच्या स्वाद्वी गुरुःस्निग्धा बल्या पित्तास्रदूषिका । चक्षुस्तेजोहरी चोष्णापाके वातविनाशिनी । तथैव घृतपक्वापि चक्षुष्या रक्त-पित्तहृत् ।अथ (वरा) । माषाणां पिष्टिका युक्तः लवणार्द्रकहिङ्गुभिः ।कृत्वा विदध्याद्वटकास्तास्तैलेषु पच च्छनैः । विशुष्कावटका बल्या वृंहणी वीर्य्यवर्द्धनी । वातामयहरारुच्या विशेषादर्द्दितापहा । विबन्धभेदिनी श्लेष्मकारिणो-ऽत्यग्निपूजिता । संचूर्ण्य निक्षिपेत्तक्रेंभृष्टं जीरक-हिङ्गुभिः । लवणं तत्र वटकान् सकलानाप मज्जयेत् ।शुक्रलस्तत्र वटको बलकृद्रोचनो गुरुः । विबन्धहृद्वि-दाही च श्लेष्मलः पवनापहः । राज्यक्तपातिनो वान्यान्पाचनांस्तांस्तु भक्षयेत् राज्यक्ता (राइता) इति लोके ।अथ (काञ्जीवरा) । मन्थनी नूतना धार्य्या कटुतैलेन लेपि-ता । निर्मलेनाम्बुनापूर्य्य तस्यां चूर्णं विनिःक्षिपेत् ।राजिकाञ्जीरलवणहिङ्गुशुण्ठीनिशाकृतम् । निःक्षिपेद्वट-कांस्तत्र भाण्डस्यास्यञ्च मुद्रयेत् । ततो दिनत्रयादूर्द्ध्व-मम्लाः स्युर्वटका ध्रुवम् । काञ्जिको वटको रुच्योवातघ्नः श्लेष्मकारकः । शीतो दाहं शूलमजीर्णंहरते दृगामयेष्वहितः ।(उरीदवडा) । अम्लिकां स्वेदयित्वा तु जलेन सह मर्द्दयेत् ।तन्नीरे कृतसंस्कारे वटकान्मज्जयेज्जनः । अम्लिका वट-कास्ते तु रुच्या बह्निप्रदीपनाः । वटकस्य गुणैः पूर्वैरेषोऽपि च समन्वितः ।अथ (सगवडा) मुद्गानां वटकास्तप्ते (ताओया) भर्जिता लघवोहिमाः । संस्कारजप्रभावेन त्रिदोषशमना हिताः ।अथ (माषवडा) माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृता ।तया विरचिता वस्त्रे वटिकाः साधुशोषिताः । भर्जिता-स्तप्ततैलैस्ता अथवान्धुप्रयोगतः । वटकस्य गुणैर्युक्ताज्ञातव्या रुचिदा भृशम् ।अथ (कोँहडावडी) । कूष्माण्डकवटी ज्ञेया पूर्वोक्तवटिकागु-णाः । विशेषात्पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ।अथ (मुद्गवटी) मुद्गानां वटिका तद्वद्रचिता साधिता तथा ।पथ्या रुच्या तथा लघ्वी मुद्गसूपगुणा स्मृता ।(क्षरिकवच्छ) । माषापष्टिकया लिप्तं नागवल्लीदलं महत् । तत्तुसंस्वेदयेत् युक्त्या स्थाल्यामास्तारकोपरि । ततो नि-ष्कास्य तं खण्डन्ततस्तैलेन भर्जयेत् । खण्ड्यं खण्डेनयोग्यमिति यावत् । अलीकमत्स्य उक्तोऽयं प्रकारः पाकप-ण्डितैः । तं वृन्ताकभटित्रेण वास्तूकेन च भक्षयेत् ।अथ (कडी) । स्थाल्यां घृते वा तैले वा हरिद्राहिङ्गु भर्जयेत् ।अवलेहनसंयुक्तं तक्रन्तत्रैव निःक्षिपेत् । एषा सिद्धा सम-रीचा क्वथिता कथिता बुधैः । अवलेहनम् । (अरिहन)इति लोके । क्वथिता पाचनी रुच्या लघ्वी वह्निप्रदीपनी ।कफानिलविबन्धघ्नी किञ्चित्पित्तप्रकोपिणी । अलीकमत्स्याःशुष्का वा किं वा क्वथितया पुनः । वृंहणा रोचनावृष्या बल्या वातगदापहाः । कोष्ठशुद्धिकराः शुक्र्याःकिञ्चित्पित्तप्रकोपनाः । अर्द्दिते सहनुस्तम्भे विशेषेणहिताः स्मृताः ।अथ (आदवरा) । मुद्गपिष्टाविरचितान् वटांस्तैलेन पाचितान् ।हस्तेन चूर्णयेत्सम्यक् तस्मिंश्चूर्णे विनिःक्षिपेत् । भृष्टंहिङ्ग्वार्द्रकं सूक्ष्मं मरीचं जीरकं तथा । निम्बूरसंयवानीं च युक्त्या सर्वं विमिश्रवेत् । मुद्गपिष्टिं पचेत्स-म्यक् स्थाल्यामास्तारकोपरि । तस्यास्तु गोलकं कुर्य्यात्तन्मध्ये पूरणं क्षिपेत् । तैले तान् गोलकान् पक्त्रा क्व-थितायां निमज्जयेत् । गोलकाः पाचकाः प्रोक्तास्ते त्वा-र्द्रकवटा अपि । मुद्गार्द्रकवटा रुच्याः लघवो बलका-रकाः । दीपनास्तर्पणाः पथ्यास्त्रिषु दोषेषु पूजताः ।(पकौरी) दालयश्चनकानान्तु निस्तुषा यन्त्रपेषिताः । तच्चूणंवेशनं प्रोक्तं पाकशास्त्रविशारदैः । वटिका वेशनस्यापिक्वथितायां निमज्जिताः । रुच्या विष्टम्भजननी बल्यापुष्टिकरी स्मृता । एवमन्येऽपि वेशनभवाः प्रकाराःखण्डनखण्डप्रभृतयो बोद्धव्याः ।अथ मांसस्य प्रकाराः । तत्र शुद्धमांसम् । (सुधर्मास) इतिलोके । पाकपात्रे घृतं दद्यात् तैलञ्च तदभावतः । तत्रहिङ्गु हरिद्रां च भर्जयेत्तदनन्तरम् । छागादेरस्थिरहितंमांसं तत्स्वण्डितं ध्रुवम् । धौतं निर्गालितं तस्मिन्घृते तद्भर्जयेच्छनैः । सिद्धियोग्यं जलं दत्त्वा लवणन्तुपचेत्ततः । सिद्धे जलेन सम्पिष्य वेशवारं परिक्षिपेत् ।वेशवारः (वेशम) इति लोके । द्रव्याणि वेशवारस्य नाग-वल्लीदलानि च । तण्डुलाश्च लवङ्गानि मरीचानि समा-सतः । अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम् ।शुद्धमांसं परं वृष्यं बल्यं रुच्यञ्च वृंहणम् । त्रिदोष-शमनं श्रेष्ठं दीपनं धातुवर्द्धनात् ।अथ सहार्द्रकम् (सहरमांस) इति लोके । छागादेर्भांसमू-र्वादेः कुट्टितं खण्डितं पुनः । शुद्धमांसविधानेन पचेदे-तत्सहार्द्रकम् । सहार्द्रकं गुणग्रन्थे शुद्धसांसगुणं स्मृतम् ।अथ तक्रमांसम् (अखनी) पाकपात्रे घृतं दत्त्वा हरिद्राहिङ्गु भर्जयेत् । छागादेः सकलस्यापि खण्डान्यपि चभर्जयेत् । सिद्धियोग्यं जलं दत्त्वा पचेन्मृदुतरं यथा ।जीरकादियुते तक्रे मांसखण्डानि तारयेत् । तक्रमांसन्तुवातघ्नं लघु रुच्यं बलप्रदम् । कफघ्नं पित्तलं किञ्चित्सर्वाहारस्य पाचनम् ।अथ हरीसा (आस) । पाकपात्रे तु वृहति मांसखण्डानि निः-क्षेपेत् । पानीयं प्रचुरं सर्पिः प्रभूतं हिङ्गु जीरकम् ।हरिद्रामार्द्रकं शुण्ठीं लबणं मरिचानि च । तण्डु-लांश्चापि गोधूमात् जम्बीराणां रसान् बहून् । यथासर्व्वाणि वस्तूनि सुपक्वानि भवन्ति हि । तथा पचंत् तुनिपुणो बहुमांसस्थितिर्यथा । एषा हरीसा बक्षकृत् वा-तपित्तापहा गुरुः । शीतोष्णा शुक्रदा स्निग्धा सरा स-न्धानकारिणी ।तलितमांसम् । शुद्धमांसविधानेन मांसं सम्यक्पसाधितम् ।पुनस्तदाज्ये सम्भृष्टं तलितं प्रोच्यते बुधैः । तलितंबलमेधाग्निमांसौजःशुक्रवृद्धिकृत् । तर्पणं लघु सुस्निग्धंरोचनं दृढताकरम् ।अथ शूल्यम् (सीख) कालखण्डादिमांसानि ग्रथितानि शला-कया । तैलं सलवणं दत्त्वा निर्धूमे दहने पचेत् । तत्तुशूल्यमिदं प्रोक्तं पाककर्मविचक्षणैः । शूल्यं पलं सुधा-तुल्यं रुच्यं वह्निकरं लघु । कफवातहरं बल्यं किञ्चि-त्पित्तकरं हि तत् । (इदमेव शूलाकृतं भट्टित्रञ्चेत्युच्यते)मांसशृङ्गाटिकम् । सिद्धमांसं तनूकृत्य कर्त्तितं स्वेदितंजले । लवङ्कहिङ्गुलवणमरिचार्द्रकसंयुतम् । एलाजि-रकधन्याकनिम्बूरससमन्वितम् । घृते सुगन्धे तद्भ्रष्टंमांसशृङ्गाटिकोच्यते । मांसशृङ्गाटकं रुच्यं वृंहणंबलकृद्गुरु । वातपित्तहरं वृष्यं कफघ्नं वीर्य्यवर्द्धनम् ।अथ मांसरसा । सिद्धमांसरसो रुच्यः श्रमश्वासक्षयापहः ।प्रीणनो वातपित्तघ्नः क्षीणानामल्परेतसाम् । विश्लिष्टभग्न-सन्धीनां कृशानां शुद्धिकाङ्क्षिणाम् । स्मृत्योजोबल-हीनानां ज्वरक्षीणक्षतोरसाम् । शस्यते स्वरहीनानांदृष्ट्यायुःश्रवणार्थिनाम् । प्रकाराः कथिताः सन्ति बहवोमांससम्भवाः । ग्रन्थविस्तारभीतेस्ते मया नात्र प्रकी-र्त्तिताः । (ते च सुश्रुतेक्तगुणकथानऽनुपदं वक्ष्यन्त्ये)शाकपाकविधिः । हिङ्गु जीरयुते तैले क्षिपेच्छाकं सुखण्डि-तम् । लवणं चाम्लचूर्णादि सिद्धे हिङ्गूदकं क्षिपेत् ।इत्येवं सर्वशाकानां साधनोऽभिहितो विधिः ।अथ मठकः (माठ) इति लोके । समितामर्द्दयेदन्यजलेनापिच सन्नयेत् । तस्यास्तु वटिकां कृत्वा पचेत्सर्पिषि नीर-सम् । एलालवङ्गकर्पूरमरीचाद्यैरलङ्कृते । मज्जयित्वासितापाके ततस्तञ्च समुद्धरेत् । अयं प्रकारः संसिद्वौमठ इत्यभिधीयते । सन्नयेत् मर्द्दयेत् । मठस्तु वृंहणोवृष्यो बल्यः सुमधुरो गुरुः । पित्तानिलहरो रुच्योदीप्ताग्नीनां सुपूजितः । समिताः शर्करासर्पिर्निर्मिताअपरेऽपि ये । प्रकारा अमुना तुल्यास्तेऽपि चेत्तद्गुणाःस्मृताः ।अथ सम्पावः (पेराकी) पर्पट्यः साज्यसमिता निर्मिता घृतमर्जि-ताः । कुट्टिताश्चालिताः शुद्धशर्कराभिर्विमर्द्दिताः । तत्रचूर्णें क्षिपेदेलालवङ्गमरिचानि च । नालिकेलं सकर्पू-रञ्चारवीजान्यनेकधा । घृताक्तसमिता पुष्टरोटिका रचिताततः । तदन्तः पूरणं तस्याः कुर्य्यान्मुद्रां दृढां सुधीः ।सर्पिषि प्रचुरे तान्तु सुपचेन्निपुणो जनः । प्रकारज्ञैःप्रकारोऽयं सम्पाव इति कीर्त्तितः ।अथ कर्पूरनालिका । घृताट्यया समितया लम्बं कृत्वा पुटं ततः ।लवङ्गोल्वणकर्पूरयुतया सितयाऽन्वितम् । पचेदाज्येनसिद्धैषा ज्ञेया कर्पूरनालिका । सम्पावसदृशी ज्ञेया गुणैःकर्पूरनालिका ।फेनिका (फेनी) समिताया घृताद्याया वर्त्ति दीर्घा समाचरेत् । तास्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत्वेल्लयेद्वेल्लतेनैता यथैका पर्पटी भवेत् । ततश्छुरिकयातान्तु सलग्नामेव कर्त्तयेत् । ततस्तु वेल्लयेद्भूयः शट्टकेनच लेपयेत् । शालिचूर्णं वृतं तोयं मिश्रितं शट्टकं वदेत् ।ततः संवृत्य तल्लोप्त्रीं विदधीत पृथक् पृथक् । पुनस्तांवेल्लयेल्लोपत्रीं यथा स्यान्मण्डलाकृतिः । ततस्तां सुपचे-दाज्ये भवेयुश्च पुटाः स्पुटाः । सुगन्धया शर्क्करयातदुद्धूलनमाचरेत् । सिद्धैषा फेनिका नाम्ना मण्डकेनसमा गुणैः । ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः ।वेल्लयेत् प्रसारयेत् वेल्लनम् (वेलन) इति लोके । पर्प्यटीरोटी । लोपत्री (लाइ) इति लोके ।अथ शष्कुली (सोहाली) इति लोके । समिताया घृताक्तायालोप्त्रीं कृत्वा च वेल्लयेत् । आज्ये तां भर्जयेत्सिद्धांशष्कुली फेनिकागुणाअथ मोदकः (लाडू) । घृयाद्यया समितया कृत्वा सूत्रा-णि तानि तु । निपुणो भर्जयेदाज्ये खण्डपाकेन योजयेत् ।युक्तेन मोदकान् कुर्य्यात् ते गुणैर्मण्डका यथा ।अथ मुद्गमोदकः (मोतिचुरलाडू) । मुद्गानां धूमसी सम्यक्घोलयेन्निर्मलाऽम्बुना । कटाहस्य वृतेरूर्द्ध्वं झर्झरं स्थाप-येत्ततः । धूमसीन्तुद्रवीभूतां प्रक्षिपेत् झर्झरोपरि । पतन्तिविन्दवस्तस्मात् तान् सुपक्कान् समुद्धरेत् । सितापाकेनसंयोज्य कुर्य्याद्धस्तेन मोदकान् । झर्झरं (झाझरा) इतिलोके । लघुर्ग्राही त्रिदोषघ्नः स्वादुः शीतो रुचिप्रदः ।चक्षुष्यो ज्वरहृद्वल्यस्तर्पणो मुद्गमोदकः ।अथ सेवनमोदकः (सेओकालडुआ) । एवमेव प्रकारेण काय्यांःसेवनमोदकाः । ते बल्या लघवः शीता किञ्चिद्वातकरा-स्तथा । विष्टम्मिनो ज्वरघ्नाश्च पित्तरक्तकफापहाःदुग्धकूपिका । तण्डुलचूर्णविमिश्रितनष्टक्षीरेण सान्द्रपिष्टेन ।दृढकूपिकां विदध्यात्ताञ्च पचेत्सर्पिषा सम्यक् । अथ तांपूरितमध्यां घनपयसा पूर्णगर्भाञ्च । शट्टकमुदितवदनांसर्पिषि सुपक्वबदनाञ्च । अथ पाण्डुखण्डपाके स्नापयेत्कर्पूरवासिते कुशलः । अथ दुग्धकूपिका सा बल्यापित्तानिलापहा कथिता । वृष्या शीता गुर्वी शुक्रकरीबृंहणी रुच्या । विदवाति कायपुष्टिं दृष्टिं दूरप्रसा-रिणीं सुचिरम् ।कुण्डलिनी (जिलेवी) नूतनं घटमानीय तस्यान्तः कशलोजनः । प्रस्थान्नचूर्ण्णदमानेन ध्नाऽम्लेन प्रलेपयेत् । द्वि-प्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम् । घृतमर्द्ध्वशरावच्च घोलयित्वा वृते क्षिपेत् । आतपे स्थापयेत्ता-वद्याबद्याति तदम्लताम् । ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रे-भाजने तु तत् । परिभ्राम्य परिभ्राम्य तत्सन्तप्ते घृतेक्षिप्रेत् । पुनः पुनस्तदावृत्त्या विदध्यान्मण्डलाकृतिम् । तांसुपक्वां घृतान्नीत्वा सितापाके तनुद्रवे । कर्पूरादि सुगन्धञ्चस्नापयित्वोद्धरेत्ततः । एषा कुण्डलिनी नाम्ना पृष्टिकान्तिबलप्रदा । धातुवृद्धिकरी वृष्या रुच्या च क्षिप्रतर्पणी ।अथ पश्चात्परिवेश्या रसाला । (शिखरिणी) आदौ माहि-षमम्लमम्बुरहितं दध्याढकं शर्करां शुभ्रां प्रस्थयुगो-न्मितां शुचिपटे किञ्चिच्च किञ्चित् क्षिपेत् । दुग्धेनार्द्ध्वघटेन मृण्मयनवस्थाल्या दृढं साधयेत् ऐलावीजलवङ्ग-चन्द्रमरिचैर्योग्यैश्च तद्योजयेत् । भीमेन प्रियभोजनेनरचिता नाम्ना रसाला स्वयम् श्रीकृष्णेन पुरा पुनःपुनरियं प्रीत्या समास्वादिता । एषा येन वसन्तवर्जि-तदिने संसेव्यते नित्यशः तस्य स्यादतिवीर्य्यवृद्धिरनि-शं सर्वेन्द्रियाणां बलम् । ग्रीष्मे तथा शरदि ये रवि-शोषिताङ्गाः ये च प्रमत्तवनितासुरतातिखिन्नाः । येचापि मार्गपरिसर्पणशीर्णगात्रास्तेषामियं वपुषि पोषण-माशु कुर्य्यात् । रसाला शुक्रला बल्या रोचनी वातपि-त्तजित् । दीपनी वृंहणी स्निग्धा मधुरा शिशिरा सरा ।रक्तपित्तं तृषादाहं प्रतिश्यायं विनाशयेत् ।अथ शर्करोदकम् (सरवत्) जलेन शीतलेनैव घोलिता शुभ्रश-र्करा । एला लवङ्गकर्पूरमरिचैश्च समन्विता । श-र्क्वरोदकनाम्ना तत् प्रसिद्धं विदुषां मुखे । शर्करो-दकमाख्यातं शुक्रलं शिशिरं मरम् । बल्यं रुच्यंलघु स्वादु वातपित्तप्रणाशनम् । मूर्च्छाच्छर्दितृषादाह-ज्वरशान्तिकरं परम् ।अथ प्रपानकम् (पन्ना) । तत्र आम्रफलप्रपानकम् । आश्रमामंजले स्विन्नं मर्द्दितं दृढपाणिना । सिताशीताम्बुसंयुक्तंकर्पूरमरिचान्वितम् । प्रपानकमिदं श्रेष्ठं भीमसेनेननिर्मितम् । सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रियतर्पणम् ।अथाम्लिकाफलपानकम् । अम्लिकायाः फलं पक्वं मर्द्दयेत्बारिणा दृढम् । शर्करामरिचै र्मिश्रं लवङ्गेन्दुसु-वासितम् । अम्लिकाफलसम्भूतं पानकं वातनाशनम् ।पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधनम् ।निम्बूकफलपानकम् । भागैकं निम्बुजं तोयं षड्भागं शर्क-रोदकम् । लवङ्गमरिचैर्मिश्रं पानं पानकमुत्तमम् ।निम्बूफलभवं पानमत्यम्लं वातनाशनम् । बह्निदीप्तिकःरुच्यं समस्ताहारपाचकम्धान्याकपानकम् । शिलायां साधु सम्पिष्टं धान्यकं वस्त्रगा-लितम् । शर्क्वरोदकसंयुक्तं कर्पूरादिसुसंस्कृतम् । नूतनेमृण्मये पात्रे स्थितं पित्तहरं परम् ।अथ काञ्जी । काञ्जीविविर्वटकावसरे लिखितः । काञ्जीकं रोचनंरुच्यं पाचनं वह्निदीपनम् । शूलजीर्णविबन्धघ्नंकोष्ठशुद्धिकरं परम् । न भवेत् काञ्जिकं यत्र तत्र जालिःप्रदोयते ।अथ जालिः । आममाम्रफलं पिष्टं राजीकालवणान्वितम् ।भृष्टहिङ्गुयुतं पूतं घोलितं जालिरुच्यते । जालि-र्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधनी । मन्दमन्दन्तुपीता सा रोचनी बह्निबेधिनी ।अथ तक्रम् । तूर्य्यांशेन जलेन संयुतमतिस्थूलं सदम्लं दधिप्रायो माहिषमम्बुकेन विमले मृद्भाजने घोलयेत् । भृष्टंहिङ्गु च जीरकञ्च लवणं राजीञ्च किञ्चित्मिताम् पिष्टा-न्तत्र विमिश्रयेद्भवति तत्तक्रं न कस्य प्रियम् । तक्रंरुचिकरं वह्निदीपनं पाचनं परम् । उदरे ये गदा-स्तेषां नाशनं तृप्तिकारकम् ।अथ दुग्धम् । विदाहीन्यन्नपानानि यानि भुङ्क्ते हिमानवः । तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिवेत् ।दुग्धस्यापरे गुणा उक्ता एव दुग्धवर्गे ।अथ सक्तवः । धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः ।तत्र यवसक्तवः । यवजाः सक्तवः शीता दीपना लघवः सुराः ।कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्त्तिताः । तै पीताबलदा दृष्या वृंहणा भेदनास्तथा । तर्पणा मधुरारुच्याः परिणामे बलाबहाः । कफपित्तश्रमक्षुत्तृड्-बुद्धिनेत्रामयापहाः । प्रशस्ता घर्मदाहाढ्यव्यायामार्त्तश-रीरिणाम् ।चमकयबसक्तवः । निस्तुषैश्चनकैर्भृष्टैस्तुर्य्यांशेन यवैः कृ-ताः । सक्तवः शर्क्वरासर्पिर्युक्ता ग्रीष्मेऽतिपूजिताः ।शालिसक्तवः । सक्तवः शालिसम्भूता वह्निदा लघवो हिमाः ।मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदाः । न भुक्त्वान रदैश्छित्त्वा न निशायां न वा बहून् ।न जसान्तरितान् तद्धि सक्तूनद्यान्न केवलान् । पृथक् पानपुनार्द्दानं आमिषं पयसा निशि । दन्तच्छेदनमुस्रञ्चसप्त सक्तुषु वर्जयेत् ।अथ धाना (बहुरी) यवास्तु निस्तुषा भृष्टाः स्मृता धाना इतिस्त्रियाम् । धानाः स्युर्दुर्जरा रूक्षास्तृट्प्रदा गुरवश्चताः । तथा मेहकफच्छर्दिनाशिन्यः सम्प्रकीर्त्तिताः ।अय लाजाः । येषां स्यु स्तण्डुलास्तानिंघान्यानि सतुषाणि च ।भृष्टानि स्फुटितान्याहुर्लाजा इति मनीषिणः । लाजाःस्युर्मधुराः शीता लघवो दीपनाश्च ते । स्वल्पमूत्रमलारूक्षा बल्याः पित्तकफच्छिदः । छर्द्यतीसारदाहास्रमेह-मेदस्तृषापहाः ।अथ पृथुकाः (चिडुआ) । शालयः सतुषा आर्द्रा भृष्टा अस्फु-टिताश्च ते । कुट्टिताश्चिपिटाः प्रोक्तास्ते स्मृताः पृथुकाअपि । पृथुका गुरवो वातनाशनाः श्लेष्मला अपि ।सक्षीरा वृंहणा वृष्या बल्या भिन्नमलाश्च ते ।अथ होलकः (होरहा) । अर्द्धपक्वैः शमीधान्यैस्तृणभृष्टैश्चहोलकः । होलकोऽल्पानिलोमेदःकफदोषत्रयापहः ।भवेद्यो होलकोयस्य सच तत्तदुगुणो भवेत् ।अथ ऊची । मञ्जरी त्वर्द्ध्वपक्वा या यवगोधूमयोर्भवेत् । तृणा-नलेन संभृष्टा बुधैरूचीति सा स्मृता । (उमिया) इतिलोके । ऊची कफपदा बल्या लघ्वी पित्तानिलापहा ।अथ कुल्माषाः (युवुनी) अर्द्ध्वस्विन्नास्तु गोधूमा अन्येऽपि च-नकादयः । कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषुपण्डितैः । कुल्माषा गुरवो रूक्षा वातला भिन्नवर्चसः ।अथ पललम् (तिलकुट) पललन्तु समाख्यातं सैक्षवन्तिलपिष्ट-कम् । पललं मलकृद्वृष्यं वातघ्रं कफपित्तकृत् । वृंहणञ्चगुरु स्निग्धं मूत्राधिक्यनिवर्त्तकम् ।अथ पिन्याकः (पीना) । तिलकुट्टन्तु पिन्याकस्तथा तिलस्विलःस्मृतः । पिन्याको लेखनो रूक्षो विष्टम्भी दृष्टिदृषणः ।अथ (चाउर) तण्डुलो मेहजन्तुघ्नः स नवस्त्वतिदुर्जरः” ।अन्येऽपि कृतान्नप्रकराः पाकशास्त्रे दृश्याःकृतान्नविशेषगुणाश्च सुश्रुते दर्शिता यथा“अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम् । लाजमण्डोविशुद्ध्वानां पथ्यः पाचनदीपनः । वातानुलोमनो हृद्यःपिप्पलीनागरायुतः । स्वेदाग्निजननी लध्वी दीपनी वस्ति-शोधनी । क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी ।विलेपी तर्पणी हृद्या ग्राहिणी बलवर्द्धनो । पथ्यास्वादुरसा लध्वी दीपनी क्षुत्तृषापहा । हृद्या सन्तर्पणीवृष्या वृंहणी बलवर्द्धनो । शाकमांसफलैर्युक्ता यवाग्व-स्ताश्च दुर्जराः । सिक्थैर्व्विरहितो मण्डः, पेया सि-कथसमन्विता । विलेपी बहुमिक्था स्याद्यवागूर्विरल-द्रवा । विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः ।कफपित्तलरी बल्या कृशराऽनिलनाशनी । धौतस्तु वि-मलः शुद्धो मनोज्ञः सुरभिः समः । स्विन्नः सुप्रस्रुतस्तूष्णौ विशदस्त्वोदनो लघुः । अधौतोऽप्रस्रुतोऽस्विन्नःशीतश्चाप्योदनो गुरुः । लघुः सुगन्धिः कफहा विज्ञेयोभृष्टतण्डुलः । स्नेहैर्मांसैः फलैः कन्दैर्वैदलाम्लैश्च सं-युताः । गुरवो वृंहणा बल्या ये च क्षीरोपसाधिताः ।सुस्विन्नो निस्तुषो भृष्ट ईषत्सूपो लघुर्हितः । स्विन्नंनिःपीडितं शाकं हितं स्यात् स्नेहसंस्कृतम् । अस्विन्नंस्नेहरहिततमपीडितमतोऽन्यथा । मांसं स्वभावतो वृष्यंस्नेहनं बलवर्द्धनम् । स्नेहगोरसधान्याम्लफलाम्लक-टुकैः सह । सिद्धं मांसं हितं बल्यं रोचनं वृंहणंगुरु । तदेव गोरसादानं सुरभिद्रव्यसंस्कृतम् । विद्या-त्पित्तकफोद्रेकि बलमांसाग्निबर्द्धनम् । परिशुष्कं स्थिरंस्निग्धं हर्षणं प्रीणनं गुरु । रोचनं बलमेधा-ग्निमांसौजःशुक्रवर्द्धनम् । तदेवोल्लुप्तपिष्टत्वादुल्लप्तमितिपाचकाः । परिशुष्कगुणैर्युक्तं वह्नेः पक्वमतो लघु ।तदेव शूलिकाप्रोतमङ्गारे परिपाचितम् । ज्ञेयं गुरुतरंकिञ्चित् प्रदिग्धं गुरुपाकतः । उल्लुप्तं भर्जितं पिष्टंप्रतप्तं कन्दुपाचितम् । परिशुष्कं प्रदग्धञ्च शूल्यं यच्चा-म्यदीदृशम् । मांसं यत्तलसिद्धन्तु वीर्य्योनं पित्तकृद्गुरु ।लध्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम् । अनुष्णवीर्य्यंपित्तघ्नं मनोज्ञं घृतसाधितम् । प्रीणनः प्राणजननः श्वा-सकासक्षयापहः । वातपित्तश्रमहरो हृद्यो मांसरसःस्मृतः । स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम् ।भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम् । आप्यायनःसंहननः श्रुक्रौजोबलवर्द्धनः । सदाडिमयुतो वृष्यःसंस्कृतो दोषनाशनः । यन्मांसमुद्धृतरसं न तत्पुष्टिब-लाहम् । विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ।दीप्ताग्नीनां सदा पथ्यः खालिकस्तु परं गुरुः ।मांसं निरस्थि सुस्विन्नं पुनर्दृषदि चृर्णितम् । पिप्पली-शुण्ठिमरिचगुडसर्पिःसमन्वितम् । एकध्यं पाचयेत्सम्यक्वेशवार इति स्मृतः । वेशवारो गुरुः स्निग्धो बल्योवातरुजापहः । प्रीणनः सर्वधातूनां विशेषान्मुखशो-षिणाम् । क्षुत्तृट्तापहरः श्रेष्ठः सौरावः स्वादुशीतलः ।कफघ्नो दीपनो हृद्यः शुद्धानां प्राणिनामपि । ज्ञेयःपथ्यतमश्चापि मुद्गयूषः कृताकृतः । स तु दाडिममृद्वी-कायुक्तः स्याद्रागषाडवः । रुचिष्यो लघुपाकश्च दोषाणा-मविरोधकृत् । मसूरमुद्गगोधूमकुलत्थलवणैः कृतः । कफ-पित्ताविरोधी स्याद्वातव्याधौ च शुस्यते । मृद्वीकादा-द्विभैर्युक्तः स एवोक्तोऽनिलार्दिते । रोचनो दीपनोहृद्यो लघुपाक्युपदिश्यते । पटोलनिम्बयूषौ तु कफ-मेदोविशोषिणौ । पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्व-रापहौ । श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ।हन्ति मूलकयूषस्तु कफमेदोगलामयान् । कुलत्थयूषोऽ-निलहा श्वासपीनसनाशनः । तूणीप्रतूणीकासार्शोगुल्मो-दावर्त्तनाशनः । दाडिमामलकैर्यूषो हृद्यः संशमनोलघुः । प्राणाग्निजननो मूर्च्छामेदोघ्नः पित्तवातजित् ।मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः । यवकोलकु-लत्थानां यूषः कण्ठ्योऽनिलापहः । सर्व्वधान्यकृतस्तद्वद्वृ-हणः प्राणवर्द्धनः । खलकाम्बलिकौ हृद्यौ तथा वात-कफे हितौ । बल्यः कफानिलौ हन्ति दाडिमाम्लोऽग्नि-दीपनः । दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः ।तक्राम्लपित्तकृत् प्रोक्तो विषरक्तप्रदूषणः । खडाः खङयवाग्वश्च षाडवाः पानकानि च । एवमादीनि चान्यानिक्रियन्ते वैद्यवाक्यतः । अस्नेहलवणं सर्व्वमकृतं कटुकै-र्विना । विज्ञेयं लवणस्नेहकटुकैर्हि युतं कृतम् । अथगोरसधान्याम्लफलाम्लैरन्वितञ्च यत् । यथोत्तरं लघुहितं संस्कृतासंस्कृतं रसे । दधिमस्त्वम्लसिद्धस्तु यूषःकाम्बलिकः स्मृतः । तिलपिन्याकविकृतिः शुष्कशाकंविरूढकम् । सिण्डाकी च गुरूणि स्युः कफपित्तक-राणि च । तद्वच्च वटकान्याहुर्विदाहीनि गुरूणि च ।लघवो वृंहणा वृष्या हृद्या रोचनदीपनाः । तृष्णामू-र्च्छाभ्रमच्छर्दिश्रमघ्ना रागषाडवाः । रसाला वृंहणीबल्या स्निग्धा वृष्या च रोचनी । स्नेहनं गुडसंयुक्तंहृद्यं दध्यनिलापहम् । सक्तवः सर्पिषाभ्यक्ताः शीत-वारिपरिप्लुताः । नातिद्रवा नातिसान्द्रा मन्थ इत्युप-दिश्यते । मन्थः सद्योबलकरः पिपासाश्रमनाशनः ।साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्त्तनाशनः । शर्करेक्षुरभद्रा-क्षायुक्तः पित्तविकारनुत् । द्राक्षामधूकसंयुक्तः कफरो-गनिवर्हणः । वर्गत्रयेणोपहितो मलदोषानुलोमनः ।गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् । तदेव खण्ड-मृद्वीकाशर्करासहितं पुनः । साम्ल सुतौक्ष्णं सुहिमंपानकं स्यान्निरत्ययम् । मार्द्वीकं तु श्रमहरं मूर्च्छा-दाहतृषापहम् । परूषकाणां कोलानां हृद्यं विष्टम्भिपानकम् । द्रव्यसंयोगसंस्कारं ज्ञात्वा भात्राञ्च सर्वतः ।पानकानां यथायोगं गुरुलाघवमादिशेत्” ।२ कृतं साधितमन्न येन । साधितान्ने पाचके
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
