| YouTube Channel

कृतवीर्य्य (kRtavIryya)

 
वाचस्पत्यम्
Sanskrit
कृतवीर्य्य
पु०
कृतं वीर्य्यमनेन चन्द्रवंश्ये कार्त्तवीर्य्या-र्ज्जुनजनके नृपभेदे “कनकस्य तु दायादाश्चत्वारोलोकविश्रुताः कृतवीर्य्यः कृतौजाश्च कृतवर्मा तथैव ।कृताग्निस्तु चतुर्थोऽभूत् कृतवीर्य्यादथार्ज्जुनः” हरिवं०३१ अ० तस्यापत्यम् अण् कार्त्तवीर्य्य तदपत्ये कार्त्त-वीर्य्यशब्दे विवृतिः “गर्भस्य सम्भवतः पूर्व्वं शिरःसम्भवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रियाणां, हृदयमिति कृतवीर्य्यः बुद्धेर्मनसश्च स्थानत्वात्” सुश्रुतः ।२ वीर्य्यान्विते
त्रि०