| YouTube Channel

कूर्म्मः (kUrmmaH)

 
शब्दकल्पद्रुमः
Sanskrit
कूर्म्मः,
पुं,
(कुत्सितः ईषद् वा ऊर्म्मिः वेगो यस्य ।के जले ऊर्म्मिर्यस्येति वा पृषोदरात् साधुः ।)जलजन्तुविशेषः काछिम् इति भाषा (यथा, भगवद्गीतायाम् ५८ ।“यदा संहरते चायं कूर्म्मोऽङ्गानीव सर्व्वशः ।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता”
)तत्पर्य्यायः कच्छपः पञ्चनखः गुह्यः पञ्च-गुप्तः पीबरः कमठः जलगुल्मः इतिजटाधरः
अस्य मांसादिगुणपर्य्यायान्तरौकच्छपशब्दे द्रष्टव्यौ
*
(तल्लक्षणं यथा, --वृहत्संहितायाम् ६४ अध्याये ।“स्फटिकरजतवर्णो नीलराजीव चित्रःकलशसदृशमूर्त्तिश्चारुवंशश्च कूर्म्मः ।अरुणसमवपुर्व्वा सर्षपाकारचित्रःसकलनृपमहत्त्वं मन्दिरस्थः करोति
अञ्जनमृङ्गश्यामवपुर्वा विन्दुविचित्रोऽव्यङ्गशरीरः ।सर्पशिरा वा स्थूलगलोयः सोपि नृपाणां राष्ट्रविवृद्ध्यै
वैदूर्य्यत्विट् स्थूलकण्ठस्त्रिकोणोगूढश्छिद्रश्चारुवंशश्च शस्तः ।क्रीडावाप्यां तोयपूर्णे मणौ वाकार्य्यः कूर्म्मो मङ्गलार्थं नरेन्द्रैः”
परमेश्वरः यथाह ऋग्वेदभाष्योपक्रमणिकायांदयानन्दः ।“परमेश्वरेणेदं सकलं जगक्त्रियते तस्मात् तस्यकूर्म्म इति संज्ञा”
प्रजापतेरवतारविशेषः ।यथा, शतपथब्राह्मणे ।“स यत् कूर्म्मो नाम एतद्वा रूपं कृत्वा प्रजा-पतिः प्रजा असृजत यदसृजताकरोत्तद् यदकरोत्तस्मात् कूर्म्मः कश्यपो वै कूर्म्मस्तस्मादाहुः सर्व्वाःप्रजाः काश्यप्य इति यः कूर्म्मोऽस्य सआदित्यः”
इति
*
)वाह्यवायुविशेषः यथा, --“उन्मीलने स्मृतः कूर्म्मो भिन्नाञ्जनसमप्रभः”
इति शारदातिलकटीका
*
मुद्राविशेषः ।यथा, --“वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठया ।तथा दक्षिणतर्जन्यां वामाङ्गुष्ठेन योजयेत्
उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः ।अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य
वामस्य पितृतीर्थेन मध्यमानामिके तथा ।अधोमुखे ते कुर्य्याद्दक्षिणस्य करस्य
कूर्म्मपृष्ठसमं कुर्य्याद्दक्षपाणिञ्च सर्व्वतः ।कूर्म्ममुद्रेयमाख्याता देवताध्यानकर्म्मणि”
इति तन्त्रसारः
*
(आसनविशेषः यथाहठयोगदीपिकायाम् २२ ।“गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।कूर्म्मासनं भवेदेतदिति योगविदो विदुः”
)सत्ययुगे समुद्रमन्थनकाले मन्दरपर्व्वतधारणार्थंकच्छपरूपभगवदवतारविशेषः यथा, --“क्षीरोदमध्ये भगवान् कूर्म्मरूपी स्वयं हरिः”
इति पद्मपुराणम्
अपि ।“विलोक्य विघ्नेशविधिं तदेश्वरोदुरन्तवीर्य्योऽवितथोऽभिसन्धिः ।कृत्वा वपुः काच्छपमद्भुतं महत्प्रविश्य तोयं गिरिमुज्जहार”
इति श्रीभागवतम्
*
(“काश्यपपत्न्याः कद्रोःपुत्त्रेषु एकः नागविशेषः यथा, महा-भारते ६५ ४१ ।“शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः ।कूर्म्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्त्तिताः”
)