| YouTube Channel

कुशं (kuzaM)

 
Wordnet
Sanskrit
Synonyms:
कुशं, दर्भः, पवित्रम्, याज्ञिकः, कुतुपः
noun
तृणविशेषः यत् धार्मिककार्ये उपयुज्यते।
"हिन्दूनां धार्मिककृत्ये कुशम् उपयुज्यते।"
शब्दकल्पद्रुमः
Sanskrit
कुशं, क्ली
पुं,
(कु पापं श्यति नाशयति कु + शो+ डः यद्वा कौ भूमौ शेते राजते शोभतेइत्यर्थः ।) स्वनामख्याततृणम् तत्पर्य्यायः कुथः२ दर्भः पवित्रम् इत्यमरः १६६
याज्ञिकः ह्रस्वगर्भः वर्हिः कुतुपः इतिशब्दरत्नावली
अपि ।“कुशो दर्भस्तथा वर्हिः सूच्यग्रो यत्र भूषणः ।ततोऽन्यो दीर्घपत्रः स्यात् क्षुरपत्रस्तथैव च”
तस्योत्पत्तिर्यथा, --“वर्हिष्मती नाम पुरी सर्व्वसम्पत्समन्विता ।न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः
कुशकाशास्त एवासन् शश्वद्धरितवर्च्चसः ।ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे”
इति श्रीभागवतम्
अस्य गुणाः ।“दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम् ।मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित्”
इति भावप्रकाशः
*
तस्य धारणविधिस्तत्प्रतिनिधिश्च यथा, --“पूजाकाले सर्व्वदैव कुशहस्तो भवेच्छुचिः ।तर्ज्जन्या रजतं धार्य्यं स्वर्णं धार्य्यमनामया
कुशकार्य्यकरं यस्मान्न तु वन्याः कुशाः कुशाः ।कुशेन रहिता पूजा विफला कथिता मया
नान्यस्य रजतं स्वर्णं धार्य्यं हि निजमङ्गले”
इति वरदातन्त्रे पटलः
*
सधवायास्तत्स्पर्शनिषेधो यथा, --“न स्पृशेत्तिलदर्भांश्च सधवा तु कथञ्चन”
इति हलायुधकृतब्राह्मणसर्व्वस्वम्
अन्यत् दर्भ-शब्दे द्रष्टव्यम्
कुशं,
क्ली,
(कौ पृथिव्यां भूमौ शेते भूलग्नत्वात्तथात्वम् ।) जलम् इति मेदिनी