| YouTube Channel

कुलकं (kulakaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुलकं,
क्ली,
(कौ भूमौ लीयते कु + ली + डः ।संज्ञायां कन् ।) पटोललता सम्बद्धश्लोकसमूहः ।इति मेदिनी
(यथा, साहित्यदर्पणे २८७ ।“कलापकं चतुर्भिश्च तदूर्द्धं कुलकं मतम्”
पटोलार्थे यथा, -- “करीरं कुलकं नन्दी” इतिवाभटे सूत्रस्थाने अः कुलकं पटोलभेदः ।तित्पल्ला इति ख्यातम्
इति तट्टीका
)