| YouTube Channel

कुमुदं (kumudaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुमुदं,
क्ली,
(कौ मोदते मुद् “इगुपधेति” ।१ १३५ कः ।) श्वेतोत्पलम् हेला सुँदिइत्यादि भाषा
(यथा, रामायणे ५५ ।“सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।पुष्पश्रवणकादम्बमभ्रशैवलशाद्वलम्”
)तत्पर्य्यायः कैरवम् इत्यमरः १० ।३७ चन्द्रकान्तम् गर्द्दभम् कुमुत् इतिरत्नमाला
धवलोत्पलम् कह्लारम् शीत-लकम् शशिकान्तम् इन्दुकमलम् १० चन्द्रि-काम्बुजम् ११ गन्धसोमम् १२ इति शब्द-रत्नावली
अपि ।“श्वेतं कुवलयं प्रोक्तं कुमुदं कैरवं तथा ।कुमुदं पिच्छिलं स्निग्धं मधुरं ह्लादि शीतलम्”
इति भावप्रकाशः
अस्य गुणाः शीतलत्वम् ।स्वादुत्वम् पाके तिक्तत्वम् कफरक्तदोषदाह-श्रमपित्तनाशित्वञ्च इति राजनिर्घण्टः रक्त-पद्मम् इति मेदिनी
रूप्यम्
इति हेम-चन्द्रः