| YouTube Channel

कुमुत् (kumut)

 
शब्दकल्पद्रुमः
Sanskrit
कुमुत्, [द्]
क्ली,
(कौ पृथिव्यां मोदते इति ।कु + मुद् + क्विप् ।) कुमुदम् इति मेदिनी हेलाइति भाषा रक्तोत्पलम् इति त्रिकाण्डशेषः
(यथा, भागवते २३ ३८ ।“बभ्राज उत्कचकुमुद्गणवानपीब्यस्ताराभिरावृत इवोडुपतिर्नभस्थः”
कुमुदस्य कन्दविशेषः शालुक इति यस्य ख्यातिः ।अस्य पर्य्याया यथा, --“कैरवं चन्द्रकान्तञ्च गर्दभं कुमुदं कुमुत्”
इति वैद्यकरत्नमालायाम्
)
कुमुत् [द्] त्रि, (कुस्तिते विषये मुत् हर्षो यस्यकुत्सिता मुद् अस्य वा ।) कृपणः इति मेदिनी
अप्रीतः इति शब्दरत्नावली