कुब्जः (kubjaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiकुब्जः
- कु ईषत् उब्जमार्जवं यत्र शकं* तारा*
मुड़ी हुई तलवार
कुब्जः
- कु ईषत् उब्जमार्जवं यत्र शकं* तारा*
पीठ पर निकला हुआ कूब
अमरकोशः
SanskritWord: कुब्जः
Root: कुब्ज
Gender: पुं
Number: all
Meaning(s):
⇒ crooked
⇒ hump-backed
⇒ sort of fish
⇒ curved sword
⇒ Prickly chaff flower [Achyranthes Aspera - Bot.]
Shloka(s):
2|6|48|1 ► स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः। (मनुष्यवर्गः)
2|6|61|1 ► न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ। (मनुष्यवर्गः)
Synonym(s):
➠ 2|6|48|1 ⇢ कुब्जः (कुब्ज) (पुं) ⇒ crooked, hump-backed, sort of fish, curved sword, Prickly chaff flower [Achyranthes Aspera - Bot.]
➠ 2|6|48|1 ⇢ गडुलः (गडुल) (पुं)
➠ 2|6|61|1 ⇢ न्युब्जः (न्युब्ज) (पुं) ⇒ convex, hump-backed, crooked-backed, looking downwards, turned or bent down wards, lying with the face downwards
➠ 2|6|61|1 ⇢ (न्युब्ज) (स्त्री) ⇒ convex, hump-backed, crooked-backed, looking downwards, turned or bent down wards, lying with the face downwards
➠ 2|6|61|1 ⇢ न्युब्जम् (न्युब्ज) (नपुं) ⇒ convex, hump-backed, crooked-backed, looking downwards, turned or bent down wards, lying with the face downwards
Related word(s):
परा_अपरासंबन्धः ➡ पुरुषः
जातिः ➡ मनुष्यः
शब्दकल्पद्रुमः
Sanskritकुब्जः, त्रि, (कु ईषत् उब्ज आर्ज्जवमस्य । उब्ज आर्जवेघञ् शकब्ध्वादिवदुलोपः ।) वायुनोन्नतहृदयः ।उन्नतपृष्ठश्च । कुजा इति भाषा । तत्पर्य्यायः ।गडुः २ गडुलः ३ इत्यमरः ॥
न्युब्जः ४ गडुरः ५इति शब्दरत्नावली ॥
तस्य लक्षणमाह ।“हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक् ।क्रुद्धो वायुर्यदा कुर्य्यात्तदा तं कुब्जमादिशेत्” ॥
इति माधवकरः ॥
यदेत्युक्त्या यदिवेति विकल्पार्थ-स्तेन न पुनरुक्तिदोषः । नन्वन्तरायामः क्रोडनतोभयति वहिरायामः पृष्टनतो भवति ताभ्यामस्यको भेदः । उच्यते । अन्तरायामवहिरायामयोःप्रकृतस्यैवान्तःशरीरस्य वहिःशरीरस्य चावन-मनमत्र तु हृदयं पृष्ठं वा शरीराद्वहिर्भवतीतिभेदः ॥
* ॥
अथ चिकित्सा ।“वाह्यायामेऽन्तरायामे धनुस्तब्धे च कुब्जके ।योज्यं प्रसारिणीतैलं तेन तेषां शमो भबेत् ॥
वातव्याधिषु सामान्या याःक्रियाः कथिताः पुरा ।कर्त्तव्या एव ताः सर्व्वास्तैलमेतद्विशेषतः” ॥
इति भावप्रकाशः ॥
(यथा, हरिवंशे ८३ । ३४ ।“तान्तु कुब्जां स्थडोर्मध्ये द्व्यङ्गुलेनाग्रपाणिना ।शनैः सन्तोडयामास कृष्णो लीलाविधानवित्” ॥
रोगविशेषस्यास्य चिकित्सार्थं वटिकौषधंयथा ॥
* ॥
“रसौ गन्धौ समौ शुद्धौ तालकञ्चाभया तथा ।विषं व्योषञ्च कटुकीं वोलजैपालकौ समौ” ॥
“भृङ्गराजरसैमर्द्द्यं स्नुह्यर्कस्वरसैस्तथा ।गुञ्जाद्वयं प्रदातव्यं रसः कुब्जविनोदकः ॥
आमवाताढ्यवातादीन् कटीशूलञ्च नाशयेत् ।अग्निञ्च कुरुते दीप्तं स्थौल्यानां नाशनं परम्” ॥
कुब्जविनोदो रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे वातरोगाधि-कारे ॥
* ॥
)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
