| YouTube Channel

कुन्च (kunca)

 
धातुप्रदीपः
Sanskrit
कुन्चँ कुन्च
मानकरूपान्तरम् - क्रुन्चँ
क्रुन्च कौटिल्य, अल्पीभावयोः
- कुञ्चति चुकुञ्च कुचितम् कुञ्चित्वा कुञ्चिता कुञ्चिका कुक् क्रुञ्चति क्रुङ् क्रुञ्चौ स्त्रियां क्रुञ्चा चोः कुः (8/2/30) इत्यत्र ञोपधत्वमस्योक्तम् तेनोपधालोपो भवति अन्ये तु ऋत्विगादिसूत्रे (3/2/59) निपातनैः सह निर्द्देशान्नलोपाभावमाहुः ।। 182, 183 ।।
शब्दकल्पद्रुमः
Sanskrit
कुन्च वक्रणे तौच्छ्ये इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सकं-सेट् ।) पञ्चमस्वरी वक्रणमिति वक्रइवाचरतीति क्वौ वक्रं करोतीति ञौ रूपम् ।तेन कुटिलीभावः कुटिलीकरणञ्च तौच्छ्यमल्पी-भावः अल्पोकरणञ्च कुञ्चति खलः कुटिलोऽल्पोबा स्यादित्यर्थः कुञ्चति लतां वायुः कुटिलामल्पांवा करोतीत्यर्थः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
कुन्च वक्रणे अनादरे
भ्वा०
पर०
सक०
सेट् कुञ्चति अकु-ञ्चीत् चुकुञ्च चुकुच(ञ्च)तुः कुञ्चनम् + सङ्कोचने आ-कुञ्चति मंकोचयति वि प्रसारणे विकुञ्चति प्रसा-रयति सङ्कुचितः णिच् आकुञ्चितः “आकुञ्चितसव्य-पादम्” भट्टिः
क्षीरतरङ्गिणी
Sanskrit
कुन्चँ कुन्च गतिकौटिल्ये, अल्पीभावयोः
-(अर्थविवरणम्) गतेः कौटिल्ये द्रव्याल्पत्वे
कुञ्चति, कुञ्चितम् कुञ्चिका कुक् कुञ्चेर्ण्वुलि नलोप इष्टः - संकोचकः एवमपि धातुलोप आर्धधातुके (114) इति निषेधः स्यात्, तस्मादेतत् कुचेः (1112) रूपम् चान्द्रमुदित्त्वमतन्त्रम् (च0 धा0 147), यत् कात्यः सन्निपातपरिभाषायाः प्रयोजनमदात् उदुपधत्वम् अकित्त्वस्य निकुचिते (महा0 1138) इति यदि चायमुदित् स्यात्, इडागमोऽत्र स्यात् 185
धातुवृत्तिः
Sanskrit
कुन्चँ कुञ्च
मानकरूपान्तरम् - क्रुन्चँ
क्रुञ्च (अर्थः) कौटिल्य, अल्पीभावयोः
दन्त्योपधौ गतिकौटिल्याल्पीभावयोः, गतौ कौटिल्ये द्रव्याल्पत्वे चेति क्षीरस्वामी ( कुञ्चति चुकुञ्च कुञ्चितेत्यादि चुकुञ्चिषति चोकुच्यते ) "अनिदिताम्'' इति नलोपः ( चोकुञ्चीति ) "न लुमताङ्गस्य'' इति निषेधात् प्रत्ययलक्षणेन नलोपो भवति, "चोः कु'' इति कुत्वेन चकारे निवर्त्तिते निमित्ताभावे नैमित्तिकस्याप्यभाव इति ञकारे निवृत्तेऽनुस्वारस्य पुनः परसवर्णो ङकारः ( अचोकुञ्चीत् अचोकुन् ) संयोगान्तलोपे सति पूर्ववन्निमित्ताभावात् ञकारेऽनुस्वारे निवृत्ते नकारोऽवतिष्ठते ( कुञ्चयति अचुकुञ्चत् ) चङपेक्षो "अनिदिताम्'' इति नलोपो णिलोपस्य स्थानिवत्त्वात् "असिद्धवदत्रा'' इत्यसिद्धत्वाव्यवधानान्न भवति ( कुचितः, कुचितवान् ) "अनिदिताम्'' इति नलोपः कुञ्चित्वेत्यत्र तु "न क्त्वा सेट्'' इत्यकित्त्वान्नलोपो भवति निकुचितमननेनेत्यादौ भावादिकर्मणोः "उदुपधाद्'' इति कित्त्वविकल्पो भवति, सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति तथा चास्याः परिभाषायाः प्रयोजनवार्तिकम्-उदुपधत्वमकित्वस्य निकुचितमिति, इदमेवास्य नोपधत्वे मानम् अत एवोदित्पाठिनौ चन्द्रतराङ्गिणीकारौ प्रत्युक्तौ, यतस्तन्मते "उदितो वा'' इति क्त्वायामिटो विकल्पनान्निष्टायां "यस्य विभाषा'' इति प्रतिषेधात्सेटो निष्ठाया एवाभावः इदित्पाठोप्यनेनैव प्रत्युक्तः यत इदित्वान्नलोपस्य नैव प्रसङ्गः, निकुचितमित्यत्र "तितुत्रथसिसुसरकसेषु च''इति तिप्रत्ययस्य विधीयमानमनिट्त्वं तितुत्रेष्वग्रहादीमित्युक्तत्वान्न भवति एवं कुञ्चतीत्यादि कुङ् "ऋत्विक्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च'' इति क्विन् तस्य सर्वापहारी लोपः पदत्वे चकारस्य संयोगान्तलोपे "क्विन्प्रत्ययस्य कुः'' क्विन्प्रत्ययो यस्माद्वहितस्तस्य पदस्य कवर्गादेश इति नकारस्य ङकारः संयोगान्तलोपात्पूर्वं प्रत्ययलक्षणेन "अनिदिताम्'' इतिलोपो भवति ऋत्विगित्यादिभिर्निपातनैः साहचर्यात् अन्यस्याप्यलाक्षणिकस्य कार्यस्य ज्ञापनात् तदुक्तं वृत्तौ नलोपः कस्मान्न भवति ऋत्विगित्यादिनिपातनैः साहचर्यादिति अत एव साहचर्यादुपपदाधिकारेपि केवलात् क्विन्प्रत्ययः ( क्रुञ्चा ) अजादिपाठाद्धलन्तादपि टाप् ( क्रुञ्चैव क्रौञ्चः ) "प्रज्ञादिभ्यश्चेति स्वार्थेऽण् प्रत्ययः (क्रुञ्जकीयो देशः) "क्रुञ्चा ह्रस्वत्वं च'' इति नडादिपाठात् चातुरर्थिकः छप्रत्ययस्तत्सन्नियोगेन कुगागमो ह्रस्वत्वं "चोः कुः'' इत्यत्र यदुक्तं वामनेन- क्रुञ्चेत्यत्र सङीतिवचनाञकारस्य चकारे झलि परतः कुत्वं भवति, "युजिक्रुञ्चां च''इति निपातनाद्वा नकारोपधो वा धतुरयं रेफवर्जितः कुञ्च कौटिल्यापीभावयोरिति पठ्यते, नलोपो निकुचित इत्यत्र दृश्यते युजिक्रुञ्चामिति तस्यैव रेफाधिको नलोपाभावश्च निपात्यतइति तत्क्रुञ्चेर्नोपधत्वेपि क्रुञ्चाशब्दे दोष इत्येवंपरं, त्वयं धातुर्नास्ति सन् वा ञकारोपध इत्येवं परम् स्पष्टं चैवं तत्र न्यासपदमञ्जर्योः "न क्त्वासेट्'' इत्यत्र द्वावपि धातू न्यासकृतोपात्तौ तथा "ऋत्विक्'' इत्यादिसूत्रे जयादित्यश्च, क्रुञ्चेर्नलोपः कस्मान्न भवति? निपातनैः साहचर्यादिति 184
कृदन्तरूपमाला
Sanskrit
1 {@“कुन्च कौटिल्याल्पीभावयोः”@} 2 ‘गतेः कौटिल्ये, द्रव्यस्याल्पत्वे च--’ इति क्षीरस्वामी।
नोपधोऽयं धातुः।
कुञ्चकः-ञ्चिका, कुञ्चकः-ञ्चिका, चुकुञ्चिषकः-षिका, चोकुञ्चकः-ञ्चिका
कुञ्चिता-त्री, कुञ्चयिता-त्री, चुकुञ्चिषिता-त्री, चोकुञ्चिता-त्री
कुञ्चन्-न्ती, कुञ्चयन्-न्ती, चुकुञ्चिषन्-न्ती
-- कुञ्चिष्यन्-न्ती-ती, कुञ्चयिष्यन्-न्ती-ती, चुकुञ्चिषिष्यन्-न्ती-ती
-- -- कुञ्चयमानः, कुञ्चयिष्यमाणः, चोकुच्यमानः, चोकुञ्चिष्यमाणः
कुक्-कुञ्चौ-कुञ्चः
-- -- -- 3 4 निकुचितम्-तः, 5 कुञ्चितः, चुकुञ्चिषितः, चोकुञ्चितः-तवान्
कुञ्चः, कुञ्चः, चुकुञ्चिषुः, चोकुञ्चः
कुञ्चितव्यम्, कुञ्चयितव्यम्, चुकुञ्चिषितव्यम्, चोकुञ्चितव्यम्
कुञ्चनीयम्, कुञ्चनीयम्, चुकुञ्चिषणीयम्, चोकुञ्चनीयम्
6 कुञ्च्यम्, कुञ्च्यम्, चुकुञ्चिष्यम्, चोकुञ्च्यम्
ईषत्कुञ्चः-दुष्कुञ्चः-सुकुञ्चः
-- -- 7 कुच्यमानः, कुञ्च्यमानः, चुकुञ्चिष्यमाणः, चोकुञ्च्यमानः
कुञ्चः, कुञ्चः, चुकुञ्चिषः, चोकुञ्चः
कुञ्चितुम्, कुञ्चयितुम्, चुकुञ्चिषितुम्, चोकुञ्चितुम्
कुञ्चा, 8 निकुचितिः, कुञ्चना, चुकुञ्चिषा, चोकुञ्चा
कुञ्चनम्, कुञ्चनम्, चुकुञ्चिषणम्, चोकुञ्चनम्
9 कुञ्चित्वा, कुञ्चयित्वा, चुकुञ्चिषित्वा, चोकुञ्चित्वा
सङ्कुच्य, सङ्कुञ्च्य, सञ्चुकुञ्चिष्य, सञ्चोकुञ्च्य
कुञ्चम् २, कुञ्चित्वा २, कुञ्चम् २, कुञ्चयित्वा २, चुकुञ्चिषम् २, चुकुञ्चिषित्वा २, चोकुञ्चम्
चोकुञ्चित्वा २।
प्रासङ्गिक्यः
01
=>
(२२२)
02
=>
(१-भ्वादिः-१८५। सक। सेट्। पर।)
03
=>
[पृष्ठम्०२११+ २६]
04
=>
[[१। ‘अनिदितां हल--’ (६-४-२४) इति नलोपः। ‘नकारजावनुस्वारपञ्चमौ झलि धातुषु। सकारजश्शकारश्चेर्षाट्टवर्गस्तवर्गजः।।’ इति भाष्योक्त्या अत्र ञकारः नकारस्थानिकः। तेन नलोपः। सन्निपातपरि- भाषविरोधात् गुणो न, उदुपधत्वसम्पादनद्वारा कित्त्वमुपजीव्य प्रवृत्तो नलोपः अकित्त्वस्य प्रयोजको भवति।]]
05
=>
[[आ। ‘चुकोच यत्रोत्कुचिताङ्गमुन्मुदः क्रौञ्चोऽपि लुञ्चन् हृदि सम्यगार्तताम्।।’ धा। का। १-२५।]]
06
=>
[[२। ‘न क्वादेः’ (७-३-५९) इति, ‘निष्ठायामनिट-’ (वा-७-३-५२) इति वा कुत्वं न।]]
07
=>
[[३। ‘अनिदितां--’ (६-४-२४) इति नलोपः।]]
08
=>
[[४। बाहुलकात् ‘क्तिन् आबादिभ्यः’ (वा। ३-३-९४) इति क्तिन्नपि। यद्वा क्तिच्। ‘तितुत्रेष्वग्रहादीनामिति वक्तव्यम्’ (वा। ७-२-९) इति इण्णिषेधपर्युदासात् इट् भवति। नलोपः।]]
09
=>
[[५। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् नलोपो न।]]