कुथ (kutha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English कुथ kutha painted or variegated cloth
कुथ kutha carpet
Wilson
EnglishApte
Englishकुथ [kutha], 4 (कथ्यति, कुथित) To stink, become putrid, or foul.
कुथः [kuthḥ], The Kuśa grass. अथ स वल्क-दुकूल-कुथादिभिः 1.
कुथः [kuthḥ] थम् [tham] था [thā], थम् था 1 A painted cloth serving as an elephant's housings (Mar. झूल)
उत्सृष्टध्वजकुथकङ्कटा धरित्रीमानीता विदितनयैः श्रमं विनेतुम् 7.3.
A carpet (in general)
महत्या कुथयास्तीर्णां पृथिवीलक्षणाङ्कया 5.9.25.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiकुथः
- कु - थक्
कुशा नामक घास
कुथः
- कु - थक्
छींट की बनी हाथी की झूल
कुथम्
- कु - थक्
छींट की बनी हाथी की झूल
Shabdartha Kaustubha
Kannadaकुथ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದರ್ಭೆಹುಲ್ಲು
निष्पत्तिः - > कुथ (पूतीभावे) - "कः" (३-१-१३५)
व्युत्पत्तिः - > कुथ्यति
प्रयोगाः - > "शाद्वलेषु यदा शिश्ये वनान्ते वनगोचरा । कुथास्तरणतल्पेषु किंस्यात् सुखतरं ततः ॥"
उल्लेखाः - > रामा०
कुथ
पदविभागः - > पुल्लिङ्गः / स्त्रीलिङ्गः
कन्नडार्थः - > ಬಣ್ಣದ ಕಂಬಳಿ /ಆನೆಯ ಬೆನ್ನಿನ ಮೇಲೆ ಹೊದಿಸುವ ಚಿತ್ರಗಂಬಳಿ
प्रयोगाः - > "चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम्"
उल्लेखाः - > माघ० १-८
L R Vaidya
EnglishAnekartha-Dvani-Manjari
Sanskritकुथ
पु
कुथ, करिकम्बल, कुश, कीट, प्रातःस्नायिन्-द्विज
कुथा कन्था समाख्याता कुथः स्यात् करिकम्बलः ।
कुथः कुशः कुथः कीटः प्रातःस्नायी द्विजः कुथः ॥ १५ ॥
verse 1.1.1.15
page 0002
धातुपाठः (Krishnacharya)
Sanskrit कुथ्
कुथ
पूतीभावे (दुर्गन्धः)
दिवादिः
अकर्मकः
सेट्
परस्मैपदी
कुथ्यति
कुथ्
कुथ
संश्लेषणे (सङ्क्लेशन इत्येके)
क्र्यादिः
सकर्मकः
सेट्
परस्मैपदी
कुथ्नाति
धातुप्रदीपः
Sanskritकुथँ कुथ पूतीभावे
- कुथ्यति चुकोथ कुथः कुथितमनेन प्रकृथितः कोथित्वा नोपधात् थफान्ताद्वा (1223) इति नोपधग्रहणसामर्थ्यान्नित्यमकित्त्वमिच्छिन्ति
अभिधानचिन्तामणिः
Sanskritकुथे वर्णपरिस्तोमप्रवेणीनवतास्तराः ।
कुथ (त्रि), वर्ण (पुं), परिस्तोम (पुं), प्रवेणी (स्त्री), नवत (क्ली), आस्तर (पुं)
दर्भः कुशः कुथो बर्हिः पवित्रमथ तेजनः ।
गुन्द्रो मुञ्जः शरो दूर्वा त्वनन्ता शतपर्विका ॥ ११९२ ॥
हरिताली रुहा पोटगलस्तु धमनो नडः ।
दर्भ (पुं), कुश (पुंक्ली), कुथ (पुं), बर्हिस् (पुंक्ली), पवित्र (क्ली), तेजन (पुं), गुन्द्र (पुं), मुञ्ज (पुं), शर (पुं), दूर्वा (स्त्री), अनन्ता (स्त्री), शतपर्विका (स्त्री), हरिताली (स्त्री), रुहा (स्त्री), पोटगल (पुं), धमन (पुं), नड (पुंक्ली)
अभिधानरत्नमाला
Sanskritबर्हिस्
बर्हिस्, दर्भ, कुथ, कुश
शष्पं बालतृणं प्रोक्तं सर्वं च तृणमर्जुनम् ॥ १९० ॥
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।
verse 2.1.1.190
page 0024
प्रवेणी
प्रवेणी, आस्तरण, वर्ण, परिस्तोम, कुथ, कुथा, नवत
प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथः कुथा ।
नवतं चेति तुल्यार्थाः प्रच्छदश्चोत्तरच्छदः ॥ ३०८ ॥
verse 2.1.1.308
page 0037
वैजयन्तीकोषः
SanskritWord: कुथः
Root: कुथ
Gender: पुं
Number: all
अर्थः ⇒
Meaning(s):
⇒ Son of a Śūdra and a Phalini
Shloka(s):
3|5|23|2 ► निषादी कुक्कुटं भिल्ली शबरं कोहली नसम्॥ (भूमिकाण्डः/मनुष्याध्यायः)
Synonym(s):
➠ 3|5|23|2 ⇢ कुथः (कुथ) (पुं) ⇒ Son of a Śūdra and a Phalini ⇒
Related word(s):
isa_k ➡ शूद्रस्य पुत्राः स्यर्नानायोषित्समुद्भवाः
शब्दकल्पद्रुमः
Sanskritकुथ इ क्लेशे । वधे । इति कविकल्पद्रुमः ॥
(भ्वां--परं--अकं--सकञ्च--सेट् इदित् ।) पञ्चमस्वरी । इ कर्मणिकुन्थ्यते । क्लेश इह दुःखानुभवः । शीतार्त्तश्च नकुन्थतीति हलायुधः । इति दुर्गादासः ॥
कुथ य पूतित्वे । इति कविकल्पद्रुमः ॥
(दिवां-परं-अकं-सेट् ।) पूतित्वं दुर्गन्धीभावः । य, कुथ्यतिमीनो दुर्गन्धः स्यादित्थर्थः । चुकोथ । इति दुर्गा-दासः ॥
कुथः, पुं (कुन्थति अशोभां क्लेशं वा । कुथ इहिंसायां अच् । आगमविधेरनित्यत्वात् न नुमा-गमः ।) गजपृष्टस्थितचित्रकम्बलम् । हातिरपिठेर झुल् इति भाषा । तत्पर्य्यायः । प्रवेणी २आस्तरणम् ३ वर्णः ४ परिस्तोमः ५ । इत्थमरः ।२ । ८ । ४२ ॥
प्रवेणिः ६ परिष्टोमः ७ कुथा ८कुथम् ९ । इति तट्टीका ॥
वोलः १० आस्तरः११ । इति शब्दरत्नावली ॥
(यथा शब्दर्थचिन्तामणौ ।“कुथा कन्या समाख्याता कुथः स्यात् करिकम्बलम् ।कुथः कुशः कुथः कीटः प्रातःस्नायी द्विजः कुथः” ॥
यथा महाभारते २ । ५१ । ३६ ।“शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्” ॥
)
वाचस्पत्यम्
Sanskritकुथ पूतिगन्धे दिवा० अक० प० सेट् । कुथ्यति अकोथीत् ।प्रनिकुथ्यति णिचि कोथयति (पोँथा) निखनने । तस्यपूतिभावसाधनत्वात्तथात्वम् । “अप्रकाशे देशे कोथयेत्”सुश्रुतः ।
कुथ पुंस्त्री० कुथ--पूतीभावे क कुन्थ--निष्कर्षे--क नलोपोवा ।“कुथा १ कन्था समाख्याता कुथः स्यात् २ करिकम्बलम् ।कुथः ३ कुगः कुथः ४ कीटः ५ प्रातःस्नायी द्विजः कुथः, इत्युक्तेष्वर्थभेदेषु लिङ्गभेदस्तु रूपभेदादुन्नेवः । “कुथेन नागेन्द्र-मिवेन्द्रवाहनम्” । “आक्षिप्तकेतुकुथसैन्यगजच्छलेन” माघः ।“शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्” भा० स०५१ अ० । हस्तिकम्बले पुंस्त्री अमरः । “महत्या कुथ-यास्तीर्ण्णां पृथिवीलक्षणाङ्कया” रामा० । “तत्र कुशे“शाद्वलेषु यदाशिश्ये वनान्ते वनगोचरा । कुथास्तरण-तल्पेषु किं स्यात् सुखतरं ततः” रामा० ।
क्षीरतरङ्गिणी
Sanskritकुथँ कुथ पूतीभावे
-(अर्थविवरणम्) पूतीभावो दुर्गन्धिः, क्लेदः
कुथ्यति कोथित्वा कुथितम्, कोथितम् कोथः 10
धातुवृत्तिः
Sanskritकुथँ कुथ (अर्थः) पूतीभावे
(अर्थविवरणम्) पूतीभावो दुर्गन्धः
( कुथ्यति चुकोथ, चुकोथिथ कोथिता कोथिष्यति कुथ्यतु अकुथ्यत् कुथ्येत् ) आशिषि, ( कुथ्यात् अकोथीत् चुकुथिषति, चुकोथिषति, ) "रलो व्युपधात्'' इति कित्त्वविकल्पः अयं क्त्वायां न, "नोपधात्थफान्ताद्वा'' इत्यत्र नोपधग्रहणसामर्थ्यात् तेन " क्त्वा सेट्'' इत्यकित्त्वात् ( कोथित्वा ) इति भवतितत्र हि नोपधग्रहणस्य एवमादिरनोपधः प्रत्युदाहरणम् यद्यत्र "रलः'' इति विकल्पस्यात्किं नोपधग्रहणेन, न च ऋफ ऋफि हिंसायामित्यनोपध फान्त ऋफतिः प्रत्युदारणम् अर्फित्वा इति अत्र हि "न क्त्वा सेट्'' इति नित्यं कित्त्वनिषेधः नैतदस्ति, त्रैशब्द्यं हि नस्सद्ध्यम्, अर्फित्वा ऋफित्वाऋम्फित्वा इति, तच्च असत्यपि नोपधग्रहणे सामान्येन विकल्पः प्रवृत्तावपि भविष्यति ( चोकुथ्यते चोकोत्ति कोथयति अचूकुथत् कुथः ) इगुपधलक्षणः कः कुथितमनेन ( प्रकुथितः ) "उदुपधात्'' इति कित्त्वविकल्पोऽत्र न भवति, तत्र अन्यतरस्यां ग्रहणस्य व्यवस्थितविकल्पत्वात् शब्विकरणानामेव ग्रह इति तथा च भाष्ये "उदुपधाच्छप'' इति कुन्थतीति हिंसायां शपि गतम् 11
कृदन्तरूपमाला
Sanskrit1 {@“कुथ पूतीभावे”@} 2 पूतीभावः = दौर्गन्ध्यम् इति सिद्धान्तकौमुदी।
पवित्रीकरणमिति तत्त्वबोधिनी।
‘कुथ्नाति कुन्थेत् संक्लेशे, पूतीभावे तु कुथ्यति।।’ 3 इति देवः।
कोथकः-थिका, कोथकः-थिका, 4 चुकुथिषकः-चुकोथिषकः-षिका, चोकुथकः-थिका
कोथिता-त्री, कोथयिता-त्री, चुकुथिषिता-त्री, चुकोथिषिता-त्री, चोकुथिता-त्री
5 कुथ्यन् 6 - 7 न्ती, कोथयन्-न्ती, चुकुथिषन्-चुकोथिषन्-न्ती
-- 8 कोथिष्यन्-न्ती-ती, कोथयिष्यन्-न्ती-ती, चुकुथिषिष्यन्-चुकोथिषिष्यन्-न्ती-ती
-- कोथयमानः, कोथयिष्यमाणः, चोकुथ्यमानः, चोकुथिष्यमाणः
कुत्-कुथ्-कुथौ-कुथः
-- -- -- कुथितम्-तः, कोथितः-तम्, चुकुथिषितः-चुकोथिषितः, चोकुथितः-तवान्
9 कुथः, कोथः, चुकुथिषुः-चुकोथिषुः, चोकुथः
कोथितव्यम्, कोथयितव्यम्, चुकुथिषितव्यम्-चुकोथिषितव्यम्, चोकुथितव्यम्
कोथनीयम्, कोथनीयम्, चुकुथिषणीयम्-चुकोथिषणीयम्, चोकुथनीयम्
कोथ्यम्, कोथ्यम्, चुकुथिष्यम्-चुकोथिष्यम्, चोकुथ्यम्
ईषत्कोथः-दुष्कोथः-सुकोथः
-- -- -- कुथ्यमानः, कोथ्यमानः, चुकुथिष्यमाणः-चुकोथिष्यमाणः, चोकुथ्यमानः
कोथः, कोथः, चुकुथिषः-चुकोथिषः, चोकुथः
कोथितुम्, कोथयितुम्, चुकुथिषितुम्-चुकोथिषितुम्, चोकुथितुम्
कुत्तिः, कोथना, चुकुथिषा-चुकोथिषा, चोकुथा
कोथनम्, कोथनम्, चुकुथिषणम्-चुकोथिषणम्, चोकुथनम्
10 कुथित्वा-कोथित्वा, कोथयित्वा, चुकुथिषित्वा-चुकोथिषित्वा, चोकुथित्वा
प्रकुथ्य, प्रकोथ्य, प्रचुकुथिष्य-प्रचुकोथिष्य, प्रचोकुथ्य
कोथम् २, कुथित्वा २, कोथित्वा २, कोथम् २, कोथयित्वा २, चुकुथिषम् २-चुकोथिषम् २, चुकुथिषित्वा २-चुकोथिषित्वा २, चोकुथम् २, चोकुथित्वा २।
01 (२१८)
02 (४-दिवादिः-१११८। अक। सेट्। पर।)
03 (श्लो-३८)
04 [[२। ‘रलो व्युपधात्--’ (१-२-२६) इति सनि कित्त्वविकल्पः।]]
05 [[३। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनः शित्त्वात् ‘सार्वधातुकमपित्’ (१-२-४) इति ङित्त्वम्। तेनाङ्गस्य गुणो न।]]
06 [[आ। ‘तं प्लुष्यद्दृष्टिनृत्यद्रुषमपि च गतत्रासमुत्कुथ्यदङ्गं पोथ्यं प्रोचे स्वरेण स्वजनविगुधितं क्षिप्यता पुष्पमाध्वीम्।।’ धा। का। २-५६।]]
07 [[४। ‘शप्श्यनोर्नित्यम्’ (७-१-८१) इति नुम्।]]
08 [पृष्ठम्०२०८+ २३]
09 [[१। ‘इगुपध--’ (३-१-१३५) इति कर्तरि कः प्रत्ययः। गजपृष्ठस्थितरत्नकम्बलस्य नाम। कुशतृणम्। ‘कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः।’ रामा। २-३०-१४।]]
10 [[२। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः।]]
1 {@“कुथ संश्लेषणे”@} 2 3 ‘कुन्थ संश्लेषणे’ इत्यस्य दुर्गसम्मतः पाठ एवम्।]] संक्लेशे--इत्येके।
‘कुथ्नाति कुन्थेत् संक्लेशे, पूतीभावे तु कुथ्यति।।’ 4 इति देवः।
कोथकः-थिका, कोथकः-थिका, चुकुथिषकः-चुकोथिषकः-षिका, चोकुथकः-थिका
5 इत्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखित 6 कुथधातुवत् ज्ञेयानि।
शतरि परं 7 कुथ्नन्-कुथ्नती, इति रूपम् इति विशेषः।
विकुथ्य 8।
01 (२१९)
02 (९-क्र्यादिः-१५१४। अक। सेट्। पर।)
03 [[[अ]
04 (श्लो-९८)
05 [पृष्ठम्०२०९+ २४]
06 (२१७)
07 [[१। ‘क्रयादिभ्यः श्ना’ (३-१-८१) इति श्नाप्रत्ययः। ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। श्नः शित्त्वात् अपित्त्वाच्च ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावात् अङ्गस्य गुणो न।]]
08 [[आ। ‘तद्ग्रन्थनं परिहरन् गतिभिर्विकुथ्य पृष्ठे करोन्मृदितपुच्छमकर्षदेनम्।’ धा। का। ३-१०।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
