| YouTube Channel

कुटजरस (kuTajarasa)

 
Shabdartha Kaustubha
Kannada
कुटजरस
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮೂಲವ್ಯಾಧಿಯನ್ನು ಗುಣಪಡಿಸುವ ಒಂದು ಕಷಾಯ
वाचस्पत्यम्
Sanskrit
कुटजरस
पु०
चक्र० उक्ते अर्शोनाशके रसभेदे यथा-“कुटजत्वचो विपाच्य शतपलमार्द्रं महेन्द्रसलिलेन यावत्स्यादरसं तद्द्रव्यं स्वरसस्ततो ग्राह्यः मोचरसः सम-ङ्गा फलिनी पलाशिभिस्त्रिभिस्तैश्च वत्सकबीजं तुल्यंचूर्णीकृतमत्र दातव्यम् पूतोत्क्वाथितः सान्द्रः सरसीदर्वीप्रलेपनो ग्राह्यः मात्राकालोपहिता रसक्रियैषाजयत्यसृक्स्रावम् छागलीपयसा युक्ता पेया मण्डेनाथ-वा यथाग्निबलम् जीर्णौषधश्च शालीन् पयसा छागेन-भुञ्जीत रक्तं गुदजातीसारं शूलं सासृग्रुजो नि-हन्त्याशु बलवच्च रक्तपित्तं रसक्रियैषा ह्युभयभागम्”