| YouTube Channel

कुज्या (kujyA)

 
Monier Williams Cologne
English
कु—ज्या a
f.
=
क्षिति-ज्या.
कु-ज्या b See 2. कु.
वाचस्पत्यम्
Sanskrit
कुज्या स्त्री सि० शि० उक्ते वृत्ताकाराक्षक्षेत्रार्द्धावयबधनुः सा-धनाङ्गज्यापञ्चकान्तर्गते जीवाभेदे ज्यापञ्चकं तत्रदर्शितम् यथा इदानीं पञ्चज्यासाधनमाह “युक्तायनां-शादपमः प्रसाध्यः कालौ खेटात् खलु भुक्तभोग्यौ ।जिनांशमौर्व्या १३९७ गुणितार्कदोर्ज्या त्रिज्यो ३४३८ द्धृताक्रान्तिगुण्णोऽस्य वर्गम् त्रिज्याकृतेः ११८१९८४४ प्रोह्यपदं द्युजीवा क्रान्तिर्भवेत् क्रान्तिगुणस्य चापम् अक्षप्र-भासंगुणितापमज्या तद्द्वादशांशो भवति क्षितिज्या सात्रिज्यकाघ्नी विहृता द्युमौर्व्या चरज्यकास्याश्च धनुश्चरंस्यात्” सि० शि० “अत्र खेटादित्युपलक्षणम् यस्मात्खेटाल्लग्नाद्वाऽपमः साध्यस्तस्मात् सायनांशादेव तथा-यस्मादुदयसम्बन्धिनौ भुक्तभोग्यकालौ साध्यौ तस्मादपिसायनांशादेव सायनार्कस्य दोर्ज्या जिनभागज्ययागुणिता त्रिज्यया भक्ता क्रान्तिज्या स्यादित्यादिस्पष्टार्थम् अस्योपपत्तिः विषुवत्क्रान्तिवृत्तयोर्या-म्यीत्तरमन्तरं क्रान्तिः तयोर्हिः संपाते क्रान्त्यभावः ।ततस्त्रिभेऽन्तरे परमा जिनतुल्यमागाः अतस्तत्-संपातादारभ्य क्रान्तिः साध्या उदयाश्च तत एव सतु संपातो मेषादेः प्रागयनांशतुल्येऽन्तरे अतः साय-नांशात् खेटात् क्रान्तिर्भुक्तभोग्यकालौ चेत्युक्तम् यदित्रिज्यातुल्यया भुजज्यया जिनांशज्यातुल्या क्रान्तिज्यालभ्यते तदेष्टज्यया किमिति फलं क्रान्तिज्याविषुवद्वृत्तात् तिर्यग्रूपा भवति क्रान्तिज्या भुजस्त्रि-ज्या कर्णस्तद्वर्गान्तरपदमहोरात्रवृत्तव्यासार्धम् सैवद्युज्या अथ कुज्योच्यते यदि द्वादशकोटेः पलभाभुजस्तदा क्रान्तिज्याकोटेः किमिति फलं क्षितिजो-न्मण्डलयोर्मध्येऽहोरात्रवृत्ते ज्यारूपं स्यात् सैवकुज्या सा धनुःकरणार्थं त्रिज्यवृत्ते परिणाम्यते ।यदि द्युज्याव्यासार्धे एताबती तदा त्रिज्याव्यासार्थे कि-मिति फलं चरज्या तद्धनुश्चरमित्युपपन्नम् ।” प्रमि०अक्षक्षेत्र शब्दे ४२ पृ० दर्शिते सि० शि० वाक्ये दृश्यम्