| YouTube Channel

कुचरः (kucaraH)

 
Apte Hindi
Hindi
कुचरः
पुं*
कु-चरः -
घूमने वाला
शब्दकल्पद्रुमः
Sanskrit
कुचरः, त्रि, (कुत्सितं चरतीति कु + चर् + अच् ।)कुवादः परदोषकथनशीलः इत्यमरः १३७
(दुर्गमदेशगन्ता यथा, ऋग्वेदे १५४ ।“प्र तद्विष्णुः स्तवते वीर्य्येण मृगो मीमः कुचरोगिरिष्ठाः”
कुस्थाने चरतीति कान्तारादि-पर्य्यटकः कौ पृथ्व्यां चरतीति भूमिचरः
यथा महाभारते १४ ३८ १३, १४ ।“दृष्ट्वा त्वादित्यमुद्यन्तं कुचराणां भयं भवेत् ।अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः
आदित्यः सत्वमुद्रिक्तं कुचरास्तु तथा तमः ।परितापोऽध्वगानाञ्च रजसो गुण उच्यते”
)