| YouTube Channel

कुक्तिः (kuktiH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कुक आदाने”@} 2 कोककः-किका, कोककः-किका, 3 चुकुकिषकः-चुकोकिषकः-षिका, चोकुककः-किका
कोकिता-त्री, कोकयिता-त्री, चुकुकिषिता-चुकोकिषिता-त्री, चोकुकिता-त्री
-- कोकयन्-न्ती, कोकयिष्यन्-न्ती-ती
-- कोकमानः, कोकयमानः, चुकुकिषमाणः-चुकोकिषमाणः, चोकुक्यमानः
कोकिष्यमाणः, कोकयिष्यमाणः, चुकुकिषिष्यमाणः-चुकोकिषिष्यमाणः, चोकुकिष्यमाणः
कुक्-कुकौ-कुकः
-- -- 4 कुकितम् तः, कोकितम् तः, कोकितः-तम्, चुकुकिषितः-चुकोकिषितः, चोकुकितः-तवान्
5 कोकः, कोकः, 6 कोकनः, चुकुकिषुः-चुकोकिषुः, चोकुकः
कोकितव्यम्, कोकयितव्यम्, चुकुकिषितव्यम्-चुकोकिषितव्यम्, चोकुकितव्यम्
कोकनीयम्, कोकनीयम्, चुकुकिषणीयम्-चुकोकिषणीयम्-चोकुकनीयम्
कोक्यम्, कोक्यम्, चुकुकिष्यम्-चुकोकिष्यम्, चोकुक्यम्
ईषत्कोकः-दुष्कोकः-सुकोकः
-- -- 7 कुक्यमानः, कोक्यमानः, चुकुकिष्यमाणः-चुकोकिष्यमाणः, चोकुक्यमानः
कोकः, कोकः, चुकुकिषः-चुकोकिषः, चोकुकः
कोकितुम्, कोकयितुम्, चुकुकिषितुम्-चुकोकिषितुम्, चोकुकितुम्
कुक्तिः, कोकना, चुकुकिषा-चुकोकिषा, चुकोकयिषा, चोकुका
8 प्रकोकनम्-प्रकोकणम्, कोकनम्, चुकुकिषणम्-चुकोकिषणम्, चोकुकनम्
9 कुकित्वा-कोकित्वा, कोकयित्वा, चुकुकिषित्वा-चुकोकिषित्वा, चोकुकित्वा
प्रकुक्य, प्रकोक्य, प्रचुकुकिष्य-प्रचुकोकिष्य, प्रचोकुक्य
कोकम् २, कुकित्वा २, कोकित्वा २, कोकम् २, कोकयित्वा २, चुकुकिषम् २, चुकुकिषित्वा २, चुकोकिषम् २, चुकोकिषित्वा २, चोकुकम्
चोकुकित्वा
10 कुक्कुरः।
प्रासङ्गिक्यः
01
=>
(१९७)
02
=>
(१-भ्वादिः-९१। सक। सेट्। आत्म।)
03
=>
[[२। ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पः। तेन द्वे रूपे।]]
04
=>
[[३। ‘उदुपधात् भावादिकर्मणोरन्यतरस्याम्’ (१-२-२१) इति निष्ठायाः कित्त्वं वा।]]
05
=>
[[४। ‘देवमेषसेवादयः पचादिषु द्रष्टव्याः’ (भाष्यम्। ३-१-१३५) इत्यत्र आदिपदेन अस्य ग्रहणम्। तेन इगुपधलक्षणं कं बाधित्वा कर्तरि पचाद्यच्। कोकः-चक्रवाकः।]]
06
=>
[[५। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच् ताच्छीलिकः।]]
07
=>
[पृष्ठम्०१९३+ २३]
08
=>
[[१। ‘हलश्चेजुपधात्’ (८-४-३१) इति णत्वं वा भवति।]]
09
=>
[[२। ‘रलो व्युपधात्--’ (१-२-२६) इति क्त्वाप्रत्ययस्य कित्त्वं वा भवति।]]
10
=>
[[३। औणादिके उरच् प्रत्यये (द। उ। ८-२३) कुगागमो निपात्यते। अतिशयेन शब्दं करोतीति = कुक्कुरः = श्वा।]]
1 {@“कुच शब्दे तारे”@} 2 कोचकः-चिका, कोचकः-चिका, चुकुचिषकः- 3 चुकोचिषकः-षिका, चोकुचकः-चिका
कोचिता-त्री, कोचयिता-त्री, चुकुचिषिता-चुकोचिषिता-त्री, चोकुचिता-त्री
कोचन्-न्ती, कोचयन्-न्ती, चुकुचिषन्-चुकोचिषन्-न्ती
-- कोचिष्यन्-न्ती-ती, कोचयिष्यन्-न्ती-ती, चुकुचिषिष्यन्-चुकोचिषिष्यन्-न्ती-ती
-- कोचयमानः, कोचयिष्यमाणः, चोकुच्यमानः, चोकुचिष्यमाणः
4 कुचितम्-कोचितम्, कोचितः-तम्, चुकुचिषितः-चुकोचिषितः, चोकुचितः-तवान्
कुचः, कोचः, चुकुचिषुः-चुकोचिषुः, चोकुचः
कोचितव्यम्, कोचयितव्यम्, चुकुचिषितव्यम्-चुकोचिषितव्यम्, चोकुचितव्यम्
कोचनीयम्, कोचनीयम्, चुकुचिषणीयम्-चुकोचिषणीयम्, चोकुचनीयम्
कोच्यम्, कोच्यम्, चुकुचिष्यम्-चुकोचिष्यम्, चोकुच्यम्
ईषत्कोचः-दुष्कोचः-सुकोचः
-- -- कुच्यमानः, कोच्यमानः, चुकुचिष्यमाणः-चुकोचिष्यमाणः, चोकुच्यमानः
5 सङ्कोचः, कोचः, चुकुचिषः-चुकोचिषः, चोकुचः
कोचितुम्, कोचयितुम्, चुकुचिषितुम्-चुकोचिषितुम्, चोकुचितुम्
कुक्तिः, कोचना, चुकुचिषा-चुकोचिषा, चुकोचयिषा, चोकुचा
कोचनम्, कोचनम्, चुकुचिषणम् चुकोचिषणम्, चोकुचनम्
6 कुचित्वा कोचित्वा कोचयित्वा, चुकुचिषित्वा-चुकोचिषित्वा, चोकुचित्वा
सङ्कुच्य, सङ्कोच्य, सञ्चुकुचिष्य-सञ्चुकोचिष्य, सञ्चोकुच्य
कोचम् २, कुचित्वा २, कोचित्वा २, कोचम् २, कोचयित्वा २, चुकुचिषम् -चुकोचिषम् २, चुकुचिषित्वा -चुकोचिषित्वा २, चोकुचम्
चोकुचित्वा २।
प्रासङ्गिक्यः
01
=>
(२००)
02
=>
(१-भ्वादिः-१८४। सक। सेट्। पर।)
03
=>
[[६। ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पः।]]
04
=>
[[७। ‘उदुपधात्--’ (१-२-२१) इति निष्ठायाः कित्त्वविकल्पः।]]
05
=>
[पृष्ठम्०१९६+ २६]
06
=>
[[१। ‘रलो व्युपधात्--’ (१-२-२६) इति क्त्वायाः कित्वविकल्पनात् पक्षे गुणः।]]
1 {@“कुजु स्तेयकरणे”@} 2 कोजकः-जिका, कोजकः-जिका, 3 चुकुजिषकः-चुकोजिषकः-षिका, चोकुजकः-जिका
कोजिता-त्री, कोजयिता-त्री, चुकुजिषिता-चुकोजिषिता-त्री, चोकुजिता-त्री
कोजन्-न्ती, कोजयन्-न्ती, चुकुजिषन्-चुकोजिषन्-न्ती
-- कोजिष्यन्-न्ती-ती, कोजयिष्यन्-न्ती-ती, चुकुजिषिष्यन्-चुकोजिषिष्यन्-न्ती-ती
-- कोजयमानः, कोजयिष्यमाणः, चोकुज्यमानः, चोकुजिष्यमाणः
कुक्-कुजौ-कुजः
-- -- -- 4 कुक्तम्-तः, कोजितः-तम्, चुकुजिषितः-चुकोजिषितः, चोकुजितः-तवान्
5 6 कुजः, कोजः, चुकुजिषुः-चुकोजिषुः, चुकोजयिषुः, चोकुजः
कोजितव्यम्, कोजयितव्यम्, चुकुजिषितव्यम्-चुकोजिषितव्यम्, चोकुजितव्यम्
कोजनीयम्, कोजनीयम्, चुकुजिषणीयम्-चुकोजिषणीयम्, चोकुजनीयम्
7 कोग्यम्, कोज्यम्, चुकुजिष्यम्-चुकोजिष्यम्, चोकुज्यम्
ईषत्कोजः-दुष्कोजः-सुकोजः
-- -- कुज्यमानः, कोज्यमानः, चुकुजिष्यमाणः-चुकोजिष्यमाणः, चोकुज्यमानः
कोगः, कोजः, चुकुजिषः-चुकोजिषः, चोकुजः, कोजितुम्, कोजयितुम्, चुकुजिषितुम्-चुकोजिषितुम्, चोकुजितुम्
कुक्तिः, कोजना, चुकुजिषा-चुकोजिषा, चोकुजा
कोजनम्, कोजनम्, चुकुजिषणम्-चुकोजिषणम्, चोकुजनम्
8 कुजित्वा, कोजित्वा, कुक्त्वा, कोजयित्वा, चुकुजिषित्वा-चुकोजिषित्वा, चोकुजित्वा
सङ्कुज्य, सङ्कोज्य, प्रचुकुजिष्य-प्रचुकोजिष्य, प्रचोकुज्य
कोजम् २, कुजित्वा २, कोजित्वा २, कुक्त्वा २, कोजम् २, कोजयित्वा २, चुकुजिषम् २, चुकुजिषित्वा २, चुकोजिषम् २, चुकोजिषित्वा २, चोकुजम्
चोकुजित्वा २।
प्रासङ्गिक्यः
01
=>
(२०३)
02
=>
(१-भ्वादिः-१९९। सक सेट्-पर।)
03
=>
[[५। ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पः। तेन रूपद्वयम्।]]
04
=>
[[६। क्त्वायां विकल्पितेट्कत्वात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामनिद कुत्वम् च।]]
05
=>
[पृष्ठम्०१९८+ २०]
06
=>
[[१। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः।]]
07
=>
[[२। निष्ठायामनिट्त्वात् ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति ण्यति घञि कुत्वम्।]]
08
=>
[[३। ‘रलो व्युपधात्--’ (१-२-२६) इति क्त्वाप्रत्ययस्य कित्त्वविकल्पः। ‘उदितोवा’ (७-२-५६) इति क्त्वायां वा इट्।]]